All kośas › Maṅkhakośa
मङ्खकोशः Maṅkhakośa
1,015 verses · text only, tagging comes next
क्षान्तवर्गः
ध्वाङ्क्षः काके बके कक्षः पार्श्वपातकभित्तिषु ।तृणे वीरुधि च स्त्री तु प्रतिज्ञास्थानभेदयोः ॥ ९६६ ॥
33.966 · p. 70
अनुष्टुप्
परिधानस्य च बहिः कटीनिगडने भवेत् ।रथांशेक्षो दैत्यभिदि पाशकद्यूतयोरपि ॥ ९६७ ॥
33.967 · p. 70
अनुष्टुप्
बीजे विभीतके कर्षे स्रोतोग्रे क्लीव इन्द्रये ।सौवर्चले च पक्षस्तु वर्गे कालसहाययोः ॥ ९६८ ॥
33.968 · p. 70
अनुष्टुप्
गरुत्साध्यविरोधेषु पुष्पच्छेदेभपार्श्वयोः ।रुचौ विकल्पिते पार्श्वे परः केशात्तु संहतौ ॥ ९६९ ॥
33.969 · p. 70
अनुष्टुप्
प्रजापतौ कुक्कुटे च दक्षः स्याच्चतुरे त्रिषु ।प्रेक्षा नृत्तेक्षणं प्रज्ञा भिक्षा सेवार्थना भृतिः ॥ ९७० ॥
33.970 · p. 70
अनुष्टुप्
याच्ञाप्राप्यं तथान्नादि न्यक्षं कार्त्स्न्यनिकर्षयोः ।ऋक्षं भे पुंसि भल्लूके रूक्षस्त्वप्रेम्ण्यचिक्कणे ॥ ९७१ ॥
33.971 · p. 70
अनुष्टुप्
चोक्षो गीते मनोज्ञे च मोक्षो मुक्तौ च पाडलौ ।पर्कट्यां पिप्पले प्लक्षो यक्षौ यक्षेशगुह्यकौ ॥ ९७२ ॥
33.972 · p. 70
अनुष्टुप्
न ना शतसहस्रं स्याल्लक्षं व्याजशरव्ययोः ।प्रत्यक्षेधिकृते साक्षिण्यध्यक्ष - - धातकी ॥ ९७३ ॥
33.973 · p. 70
अनुष्टुप्metre not read in every line
सुभिक्षा सुलभान्नत्वे क्लीवे हंसाश्वभेदयोः ।मल्लिकाक्षो विरूपाक्षो हरे विकृतलोचने ॥ ९७४ ॥
33.974 · p. 70
अनुष्टुप्