कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Maṅkhakośa

मङ्खकोशः Maṅkhakośa

1,015 verses · text only, tagging comes next

यान्तवर्गः

ज्या मौर्वी भूश्च नाके द्यौरन्तरिक्षे तथा स्त्रियाम् ।ज्या गव्या गोसमूहे च रागद्रव्ये नपुंसकम् ॥ ५९८ ॥
25.598 · p. 43
अनुष्टुप्
गोक्षीरादौ त्रिषु पुनः स्यादर्यः स्वाभिवैश्ययोः ।कल्यं प्रातः सुरायां स्त्री कल्याण्यां वाच्यपि त्रिषु ॥ ५९९ ॥
25.599 · p. 43
अनुष्टुप्
सज्जनीरोगदक्षेषु काल्यं तु स्यादहर्मुखे ।प्राप्तकाले त्रिषु भवेद्भाग्यं कर्म शुभाशुभम् ॥ ६०० ॥
25.600 · p. 44
अनुष्टुप्
यौतकादौ धने दायो दाने भोज्ये च पैतृके ।विवाह्याया ज्ञातिभृत्या जन्याः स्निग्धा वरस्य च ॥ ६०१ ॥
25.601 · p. 44
अनुष्टुप्
निर्वादे जनके युद्धे क्लीवे कार्ये तु स त्रिषु ।आरम्भो निष्कृतिः शिक्षा पूजनं संप्रधारणम् ॥ ६०२ ॥
25.602 · p. 44
अनुष्टुप्
उपायः कर्म चेष्टा च चिकित्सा करणं क्रियाः ।धात्वर्थाख्यातसंस्कारा और्ध्वदैहिकमेव च ॥ ६०३ ॥
25.603 · p. 44
अनुष्टुप्
शाखापुरे न ना गृह्यं त्रिषु त्वस्वैरिपक्ष्ययोः ।गृहासक्ताण्डजमृगे गृह्या तु स्याद्बहिर्भवा ॥ ६०४ ॥
25.604 · p. 44
अनुष्टुप्
आहते हेम्नि रजते वा रूप्यं रजतेपि च ।त्रिषु प्रशस्तरूपे स्यान्माल्यं पुष्पेपि तत्स्रजि ॥ ६०५ ॥
25.605 · p. 44
अनुष्टुप्
हृद्भवं हृत्प्रियं हृद्यं हृदयाय हितं त्रिषु ।वशीकरणमन्त्रे ना सत्यं शपथतथ्ययोः ॥ ६०६ ॥
25.606 · p. 44
अनुष्टुप्
भव्यौषधधने द्रव्यं गुणाधारगवोस्तथा ।विशेष्ये परमाणौ च तिष्यपुष्यौ कलौ च भे ॥ ६०७ ॥
25.607 · p. 44
अनुष्टुप्
पुण्यं तु धर्मे सुकृते त्रिषु पूतमनोज्ञयोः ।सौम्यो बुधे मनोज्ञे च त्रिषु स्यात्सोमदैवते ॥ ६०८ ॥
25.608 · p. 44
अनुष्टुप्
पूजार्थं द्रव्यमर्घ्यं स्यादर्घार्थार्घार्हयोस्त्रिषु ।शराग्रान्तर्व्रणौ शल्ये प्राण्योषधिनृपेषु ना ॥ ६०९ ॥
25.609 · p. 44
अनुष्टुप्
स्पर्धाकाञ्च्योर्दन्तिमध्यरज्जौ कक्ष्या गृहान्तरे ।प्रतिज्ञायां तुलायां च पुंसः सारसनेपि च ॥ ६१० ॥
25.610 · p. 44
अनुष्टुप्
त्रिषु रथ्यो रथोद्वाहे स्त्रियां मार्गरथौघयोः ।देहसंघातलक्ष्येषु कायस्त्रिषु कदैवते ॥ ६११ ॥
25.611 · p. 44
अनुष्टुप्
क्षयो निलयकल्पान्तरोगापचयमृत्युषु ।त्रिषु सद्भावियोग्येषु भव्यः क्लीवे शिवे फले ॥ ६१२ ॥
25.612 · p. 44
अनुष्टुप्
मृतावनशने प्रायो बाहुल्ये सदृशे त्रिषु ।धिष्ण्यं स्थाने गृहे भे ना देत्याचार्याग्निभेदयोः ॥ ६१३ ॥
25.613 · p. 44
अनुष्टुप्
सर्वज्ञभिषजौ वैद्यौ स्याच्छय्या तल्पगुम्फयोः ।तुरंगगरुडौ तार्क्ष्यौ पूज्यौ श्वशुरसज्जनौ ॥ ६१४ ॥
25.614 · p. 45
अनुष्टुप्
रिपुतस्करयोर्दस्युर्वर्यः प्रार्थ्यप्रधानयोः ।वामदक्षिणयोः सव्यमर्थ्यो न्याय्यविपश्चितोः ॥ ६१५ ॥
25.615 · p. 45
अनुष्टुप्
अधमान्तभुवोरन्त्यो मध्यो न्याय्यावलग्नयोः ।अन्तरेनधिकन्यूने मध्ये तूद्दिश्यवाचकः ॥ ६१६ ॥
25.616 · p. 45
अनुष्टुप्
इतरासदृशावन्यौ त्रिवेद्यां त्रितये त्रयी ।रहस्योपस्थयोर्गुह्यं मन्युर्दैन्ये क्रतौ क्रुधि ॥ ६१७ ॥
25.617 · p. 45
अनुष्टुप्
पूजाव्रतक्रिये चर्ये गेयौ गातव्यगायनौ ।ययुरश्वेश्वमेधाश्वे मूल्यं विनिमये धने ॥ ६१८ ॥
25.618 · p. 45
अनुष्टुप्
काव्यं ग्रन्थे ग्रहे पुंसि कुल्या नीरप्रणालिका ।नदी च क्लीवमस्थ्नि स्याद्वाच्यलिङ्गं कुलोद्भवे ॥ ६१९ ॥
25.619 · p. 45
अनुष्टुप्
त्रिषु चोद्यं चोदनार्हे क्लीवे स्याच्चोदनेद्भुते ।त्रिषु गोप्यं गोपनीये गोप्या दासस्य सूनवः ॥ ६२० ॥
25.620 · p. 45
अनुष्टुप्
प्रवीणोचितयोर्योग्यस्त्रिष्वभ्यासे भवेत्स्त्रियाम् ।एकत्वादौ विचारे च संख्या क्लीवे तु संयुगे ॥ ६२१ ॥
25.621 · p. 45
अनुष्टुप्
प्राप्तव्येम्बुमथ चाप्यं याप्ये नेतव्यगर्हिते ।मुखं मुखान्तरं चास्यमासने स्त्री हरितकी ॥ ६२२ ॥
25.622 · p. 45
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 थ (wrong syllable); pāda 4, syllable 6 रि (wrong syllable)
पथ्यार्याभिच्चौषधे तु क्लीवे त्रिष्वगते पथः ।पाक्यं काचे यवक्षारे विडे पाकार्हणे त्रिषु ॥ ६२३ ॥
25.623 · p. 45
अनुष्टुप्
छेदनीये त्रिषु भवेत्कृत्यो विद्विष्टकार्ययोः ।स्त्रियां क्रियादेवतयोर्वाच्यं तु त्रिषु कुः सिते ॥ ६२४ ॥
25.624 · p. 45
अनुष्टुप्
उपालभ्ये च चैत्यः स्यात्स्तूप उद्देशपादपे ।प्राकारमूलबन्धे च संघसंचययोश्चयः ॥ ६२५ ॥
25.625 · p. 45
अनुष्टुप्
साध्या देवभिदः पुंसि भूम्नि शक्ये पुनस्त्रिषु ।वन्या वनसमूहे स्त्री वने साधुनि तु त्रिषु ॥ ६२६ ॥
25.626 · p. 45
अनुष्टुप्
छाया स्यादातपाभावे प्रभाप्रतिमयोरपि ।सूर्यप्रियायां गङ्गायां संवाहन्याय्ययोरपि ॥ ६२७ ॥
25.627 · p. 45
अनुष्टुप्
सह्योगे त्रिषु सोढव्य आरोग्ये तु नपुंसकम् ।वीर्यं वलं प्रभावश्च रेतः स्याद्वीरकर्म च ॥ ६२८ ॥
25.628 · p. 46
अनुष्टुप्
देवीभेदे जयौषध्योर्द्वयोर्ना भारते गणे ।उत्कर्षेभिभवे चार्या ज्येष्ठब्राह्मणसज्जनाः ॥ ६२९ ॥
25.629 · p. 46
अनुष्टुप्
छन्दोभित्स्त्री चिता चित्या स्यादग्निचयने न ना ।सभ्यः सामाजिकेग्नौ च तथा प्रत्यायिते त्रिषु ॥ ६३० ॥
25.630 · p. 46
अनुष्टुप्
दूष्येभमध्यबन्धन्यां क्लीवे पटगृहे त्रिषु ।दूषणीये बले सैन्यं त्रिषु तत्समवायिनि ॥ ६३१ ॥
25.631 · p. 46
अनुष्टुप्
माया स्याद्बुद्धजननी वञ्चनाविद्ययोरपि ।तदधिष्ठातृदेव्यां च जात्यं कुलजकान्तयोः ॥ ६३२ ॥
25.632 · p. 46
अनुष्टुप्
आदित्यौ सूर्यगीर्वाणौ श्वशुर्यौ स्यालदेवरौ ।त्रिषु हर्तुमशक्ये स्यादहार्यः पर्वते पुमान् ॥ ६३३ ॥
25.633 · p. 46
अनुष्टुप्
स्यान्नादेयी भूमिजम्बूस्तर्कारी जलवेतसः ।त्रिषु नद्यां भवे पश्चाज्जघन्यं त्रिषु गर्हिते ॥ ६३४ ॥
25.634 · p. 46
अनुष्टुप्
अभिलाषविनिर्मुक्ते प्रणाय्यः स्यादसम्मते ।आधार आशयः स्याद्धृद्यभिप्रायेश्वसंहतिः ॥ ६३५ ॥
25.635 · p. 46
अनुष्टुप्
अश्वीयं स्यादश्वहिते त्रिष्वपत्यं तु पुत्रयोः ।ब्राह्मण्यं ब्राह्मणत्वे च तथा तत्कर्मसंघयोः ॥ ६३६ ॥
25.636 · p. 46
अनुष्टुप्
मलयौ पर्वतारामौ भ्रातृव्यौ भ्रातृजद्विषौ ।विस्रम्भयाच्ञाप्रेमाणः प्रणयाः संस्तवोपि च ॥ ६३७ ॥
25.637 · p. 46
अनुष्टुप्
संघाते संनिवेशे च संस्त्यायः स्याद्गृहे तथा ।पश्चादवस्थायिबलं संनयो द्रव्यमेलनम् ॥ ६३८ ॥
25.638 · p. 46
अनुष्टुप्
कषायः सुरभौ स्निग्धे भाविते त्रिषु ना रसे ।द्रवे वर्णे चित्तधर्मेवस्नेहे स्त्री पुनर्मले ॥ ६३९ ॥
25.639 · p. 46
अनुष्टुप्
काञ्चिकस्य द्वितीया तु जाया स्यात्पूरणे त्रिषु ।स्थाने विहंगमावासे कुलायं पुंनपुंसकम् ॥ ६४० ॥
25.640 · p. 46
अनुष्टुप्
कशेरुहेम्नोर्गाङ्गेयं पुंसि भीष्मे गणाधिपे ।त्रिषु वामे प्रसव्यः स्यात्प्रतिकूलानुकूलयोः ॥ ६४१ ॥
25.641 · p. 46
अनुष्टुप्
शोभायां नाम्नि कीर्तावप्यभिख्या क्षेत्रियस्त्रिषु ।अन्यदेहचिकित्सार्हे विषादौ क्षेत्रिजे तृणे ॥ ६४२ ॥
25.642 · p. 47
अनुष्टुप्
असाध्यरोगे दुःशोध्ये तृणादौ पारदारिके ।विषयो यस्य यो ज्ञातस्तत्र शब्दादिकेष्वपि ॥ ६४३ ॥
25.643 · p. 47
अनुष्टुप्
आधारे ग्रामसंघे च व्यवायो व्यवधौ रते ।हृदयं वक्षसि स्वान्तेभिप्रायाभ्यन्तरोण्डुके ॥ ६४४ ॥
25.644 · p. 47
अनुष्टुप्
चित्रादर्पौ विस्मयौ तु पर्यायोर्थसमे क्रमे ।निकायः स्यान्निवासे च संघे राशीकृतौ तथा ॥ ६४५ ॥
25.645 · p. 47
अनुष्टुप्
समयाः शपथाचारकालसिद्धान्तसंविदः ।प्रत्ययोधीनशपथज्ञानविश्वासहेतुषु ॥ ६४६ ॥
25.646 · p. 47
अनुष्टुप्
रन्ध्रे शब्दे प्रथायां च संवादे मेषकम्बलौ ।ऊर्णायू स्यात्तु सौरभ्यं सौगन्ध्यं रम्यता तथा ॥ ६४७ ॥
25.647 · p. 47
अनुष्टुप्
मेघे तु सध्वनौ शक्रे पर्जन्यो मेघदैवते ।हिरण्यं हेम्नि तन्मानभेदेर्थे स्यादकुप्यके ॥ ६४८ ॥
25.648 · p. 47
अनुष्टुप्
प्रलयौ मृत्युसंवर्तौ मूर्छा भावश्च सात्त्विकः ।न नातिथ्यमतिथ्यर्थमतिथौ तु नपुंसकम् ॥ ६४९ ॥
25.649 · p. 47
अनुष्टुप्
व्यसनान्यशुभं दैवं विपदित्यनयास्त्रयः ।क्लेशे दण्डे च दोषे च विनाशेतिक्रमेत्ययः ॥ ६५० ॥
25.650 · p. 47
अनुष्टुप्
पानीयं सलिले पेयरक्ष्ययोस्त्रिष्वथोदयः ।पूर्वाद्रिरुद्गमो वृद्धिः स्थेये स्थानहिते पुरे ॥ ६५१ ॥
25.651 · p. 47
अनुष्टुप्
स्थानीयमुत्तरपदे त्रिषु स्यादुपमार्थकम् ।छत्त्रायां पुंसि शालेयः क्षेत्रे क्लीवमथाभयम् ॥ ६५२ ॥
25.652 · p. 47
अनुष्टुप्
भयाभाव उशीरं च स्त्री पथ्या निर्भये त्रिषु ।राजस्याले राष्ट्रियः स्यात्त्रिषु राष्ट्रभवादिके ॥ ६५३ ॥
25.653 · p. 47
अनुष्टुप्
शीर्षण्यो विषदे केशे शिरस्त्रे तु नपुंसकम् ।शिरोभवे तद्धिते च प्रधाने चान्यलिङ्गकः ॥ ६५४ ॥
25.654 · p. 47
अनुष्टुप्
संचयः संग्रहे संघ आत्रेयी स्याद्रजस्वला ।अत्र्यपत्ये त्रिषु फले मदनस्यापि कट्फले ॥ ६५५ ॥
25.655 · p. 47
अनुष्टुप्
कैडर्यं तूलवृक्षे तु ब्रह्मण्यो ब्रह्मणो हिते ।त्रिष्वन्वयो वंशवाक्यपदमेलनयोस्तथा ॥ ६५६ ॥
25.656 · p. 48
अनुष्टुप्
संबन्धेव्याभिचारे च चाम्पेयो नागकेसरे ।चम्पके चाथ विजयो गणभेदेर्जुने गतौ ॥ ६५७ ॥
25.657 · p. 48
अनुष्टुप्
पराभिभूतौ देव्यां स्त्री हृषीके शेपसीन्द्रियम् ।हच्छयौ मदनात्मानौ स्यादाम्नायोन्वये श्रुतौ ॥ ६५८ ॥
25.658 · p. 48
अनुष्टुप्
निलयः स्याल्लये स्थाने निचयौ संघसंचयौ ।पर्वतादेश्च वप्रं स्यादुच्चयोप्युञ्छसंघयोः ॥ ६५९ ॥
25.659 · p. 48
अनुष्टुप्
शाण्डिल्यो मुनिभेदे स्यात्पुंसि बिल्वमहीरुहे ।प्रचयौ स्वरभित्संघौ भूरिमायस्तु राक्षसः ॥ ६६० ॥
25.660 · p. 48
अनुष्टुप्
सृगालश्चाथ नलदे जलाधारे जलाशयः ।समवायौ श्लेषसंघौ मेरुस्वर्गौ सुरालयौ ॥ ६६१ ॥
25.661 · p. 48
अनुष्टुप्
देवागारेप्यथ सुरा सीरिभार्या हलिप्रिया ।नीपे नाथोपकार्या स्यात्पटकुट्यां तथा त्रिषु ॥ ६६२ ॥
25.662 · p. 48
अनुष्टुप्
संविभज्ये रणे संघे समुदायोपि संविदि ।आतिथेयी स्त्रियां पूजातिथिसाधौ भवेत्त्रिषु ॥ ६६३ ॥
25.663 · p. 48
अनुष्टुप्
युद्धावत्योः संपरायो वैरोन्नत्योः समुच्छ्रयः ।स्थूलोच्चयस्त्वसाकल्ये दन्तिनां मध्यमे गते ॥ ६६४ ॥
25.664 · p. 48
अनुष्टुप्
समुद्गमे समुदयः संग्रामनिकुरुम्बयोः ।दोषे द्वेषे चानुशयः पश्चात्तापानुबन्धयोः ॥ ६६५ ॥
25.665 · p. 48
अनुष्टुप्
पुंसां संघे पौरुषेयं त्रिषु तेन कृते वधे ।विकारे तस्य हुतभुक्पार्थयोः स्याद्धनंजयः ॥ ६६६ ॥
25.666 · p. 48
अनुष्टुप्
हलीन्दुजौ रौहिणेयौ सभास्थाने प्रतिश्रयौ ।भयंकरे प्रतिभवं त्रिषु भीतौ नपुंसकम् ॥ ६६७ ॥
25.667 · p. 48
अनुष्टुप्
भागधेयो बलौ भागे भाग्ये क्लीवे समाह्वयः ।रणे द्यूते वासतेयी रात्रौ तत्साधुनि त्रिषु ॥ ६६८ ॥
25.668 · p. 48
अनुष्टुप्
स्यादभ्यासे परिचयः संस्कारे मेलने तथा ।चन्द्रोदयो विताने स्याद्द्विजराजोद्गमे तथा ॥ ६६९ ॥
25.669 · p. 48
अनुष्टुप्
वक्ता प्रवचनीयः स्यात्प्रवाच्यश्च त्रिलिङ्गकः ।वृषाकपायी श्रीर्गौरी स्वाहेन्द्राण्यृषिभार्ययोः ॥ ६७० ॥
25.670 · p. 49
अनुष्टुप्