कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Maṅkhakośa

मङ्खकोशः Maṅkhakośa

1,015 verses · text only, tagging comes next

णान्तवर्गः

भ्रूणोर्भके स्त्रैणगर्भे बाणो बलिसुते शरे ।देवभेदे स्त्रियां वाचि द्वयोर्दासीकुरण्टके ॥ २०८ ॥
14.208 · p. 16
अनुष्टुप्
स्त्रियामजाज्यतिविषापिप्पलीष्वल्पविप्रुषोः ।कणोतिसूक्ष्मधान्यांशे कर्णोरित्रे श्रुतौ नृपे ॥ २०९ ॥
14.209 · p. 16
अनुष्टुप्
गणः समूहे प्रमथे संख्यासैन्यप्रभेदयोः ।ग्लहे माने श्वेतिकानां मूल्ये कार्षापणे धने ॥ २१० ॥
14.210 · p. 16
अनुष्टुप्
द्यूतादौ कल्पिते चैव बद्धमुष्टौ भृतौ पणः ।रज्जौ मौर्व्यामप्रधाने रूपादौ सूद इन्द्रिये ॥ २११ ॥
14.211 · p. 16
अनुष्टुप्
भागभाण्डोत्कर्षशौर्यसत्त्वसंध्यादिके गुणः ।निर्व्यापारस्थितौ कालविशेषोत्सवयोः क्षणः ॥ २१२ ॥
14.212 · p. 16
अनुष्टुप्
वर्णो गुणव्रतयशःशुक्लादिब्राह्मणादिषु ।विलेपने कुथायां च गीते रूपेक्षरेस्त्रियाम् ॥ २१३ ॥
14.213 · p. 16
अनुष्टुप्
ऊर्णा मेषादिलोम्नि स्यादावर्ते चान्तरा भ्रुवोः ।सूर्मीस्तम्भगदाः स्थूणास्तृष्णेषणपिपासयोः ॥ २१४ ॥
14.214 · p. 16
अनुष्टुप्
विषाजिलोहाभिसरे तीक्ष्णमस्त्री खरे त्रिषु ।अलिञ्जरे मेहनांशे रत्नेजादिगलस्तने ॥ २१५ ॥
14.215 · p. 16
अनुष्टुप्
मणिः कृष्णस्तु बीभत्सौ व्यासशस्त्रकविष्णुषु ।वर्णे त्रिषूषणे क्लीवे द्रौपदीकणयोः स्त्रियाम् ॥ २१६ ॥
14.216 · p. 16
अनुष्टुप्
वीणादिवादनोपाये कोणोश्रौ लगुडेपि च ।शोणः स्याद्बन्धुजीवाभे नदे लोहितवाजिनि ॥ २१७ ॥
14.217 · p. 16
अनुष्टुप्
बलवाय्वसवः प्राणा जुगुप्साकरुणे घृणे ।श्रेणिः स्त्री तुल्यशिल्पानां संहतिः कुलमावलिः ॥ २१८ ॥
14.218 · p. 16
अनुष्टुप्
पादग्रन्थेरधः पार्ष्णिः स्त्रियां स्याद्वाहिनीकटिः ।मध्यमे पाण्डवे शक्रे जिष्णुः स्यात्त्रिषु जित्वरे ॥ २१९ ॥
14.219 · p. 16
अनुष्टुप्
प्रमाणकाकयोर्भेदे द्रोणोर्जुनगुरावपि ।द्रोणी काष्ठाम्बुवाहिन्यां भवेदन्नादिभाजने ॥ २२० ॥
14.220 · p. 16
अनुष्टुप्
नीलिन्यां च गुहायां च देवताडो नदीस्रुतिः ।वेणी केशकलापः स्यादुष्णः स्वेदनिदाघयोः ॥ २२१ ॥
14.221 · p. 16
अनुष्टुप्
त्रिषु तप्ते निर्वृते त्रिष्वणुरल्पोन्नभित्पुमान् ।चूर्णो धूलौ क्षारभेदे क्लीवे भूम्न्यधिवासके ॥ २२२ ॥
14.222 · p. 17
अनुष्टुप्
अक्षाग्रगीलकाश्र्योः स्यादाणिः क्वाणे मृधे रणः ।मेषयादवयोर्वृष्णिः क्षुण्णः प्रहतदक्षयोः ॥ २२३ ॥
14.223 · p. 17
अनुष्टुप्
मानभेदे कषे शाणः पर्णं स्यात्किंशुके छदे ।वृक्षे शाखाविरहिते पुंसि स्थाणुर्महेश्वरे ॥ २२४ ॥
14.224 · p. 17
अनुष्टुप्
रात्रिभेदे शकुन्ती च पक्षिणी वरणस्तरौ ।प्राकारे स्वीकृतौ रोधे क्लीवे स्याद्वषणा कणा ॥ २२५ ॥
14.225 · p. 17
अनुष्टुप्
क्लीवे तु मरिचे पङ्लौ धोरणी वाहने स्थितौ ।श्रीपर्णी स्यात्तु काश्मीरी क्लीवे पद्माग्निमन्थयोः ॥ २२६ ॥
14.226 · p. 17
अनुष्टुप्
ग्रामणीर्नापिते पुंसि श्रेष्ठे ग्रामाधिपे त्रिषु ।हरिण्येणे द्वयोर्हेमप्रतिमा हरिता च या ॥ २२७ ॥
14.227 · p. 17
अनुष्टुप्
यूथिका त्रिषु पाण्डौ स्यात्सुरा प्रत्यक् च वारुणी ।पण्याध्वहट्टौ विपणी ग्रामीणा नीलिनी त्रिषु ॥ २२८ ॥
14.228 · p. 17
अनुष्टुप्
ग्राम्ये पट्टांशुके तु स्यात्पत्तोर्णं वृक्षभित्पुमान् ।करेणुरिभ्यां स्त्री नेभे द्रविणं तु बले धने ॥ २२९ ॥
14.229 · p. 17
अनुष्टुप्
शरणं गृहरक्षित्रोः प्रोक्षणं सेचने वधे ।प्रमाणं हेतुमर्यादाशास्त्रेयत्ताप्रमातृषु ॥ २३० ॥
14.230 · p. 17
अनुष्टुप्
करणं साधकतमक्षेत्रगात्रेन्द्रियक्रियाः ।नाट्यकन्दर्पशास्त्रोक्ते कार्ये कायस्थकर्मणि ॥ २३१ ॥
14.231 · p. 17
अनुष्टुप्
निर्वाणं निर्वृतौ क्लीवे शान्तिमोक्षेभमज्जने ।शान्ते च त्रिष्वथेन्द्राणी करणे कामशास्त्रजे ॥ २३२ ॥
14.232 · p. 17
अनुष्टुप्
सिन्धुवारे शक्रपत्न्यां काकिणी तु वराटके ।पणतुर्ये मानभेदे सरणिः पङ्क्तिमार्गयोः ॥ २३३ ॥
14.233 · p. 17
अनुष्टुप्
सक्तौ स्यात्तर्पणः क्लीवे तृप्तिबृंहणपोषणे ।पित्राद्युद्देशदाने च पारणा व्रतभोजने ॥ २३४ ॥
14.234 · p. 17
अनुष्टुप्
कर्मान्ते क्लीवमपि च धर्षणं रतधार्ष्ट्ययोः ।अनुकूले दक्षिणस्त्रिष्वृजौ दक्षिणदिग्भवे ॥ २३५ ॥
14.235 · p. 17
अनुष्टुप्
दिक्श्रद्धादेययोस्तु स्त्री सव्यहस्ते पुमानयम् ।अरुणाः स्युः सांध्यरागसूर्यसूतदिवाकराः ॥ २३६ ॥
14.236 · p. 18
अनुष्टुप्
त्रिषु शोणेव्यक्तरागे लक्षणं नामचिह्नयोः ।नक्षत्रे श्रवणः पुंसि क्लीवे तु श्रुतिकर्णयोः ॥ २३७ ॥
14.237 · p. 18
अनुष्टुप्
श्रावण्यां श्रवणा बद्धिर्धिषणा वाक्पतौ पुमान् ।वरुणो द्रुभिदप्पत्योर्हरणं यौतके हृतौ ॥ २३८ ॥
14.238 · p. 18
अनुष्टुप्
निर्याणं निर्गमेभाङ्गे कल्याणं स्वर्णमङ्गले ।सुवर्णे हेम्नि तन्माने धने वेश्यादिभाटके ॥ २३९ ॥
14.239 · p. 18
अनुष्टुप्
सोमग्रहादौ स्वीकारे वन्द्यां ग्रहणमादरे ।कङ्कणं मण्डले सूत्रे रत्नाढ्यकरभूषणे ॥ २४० ॥
14.240 · p. 18
अनुष्टुप्
कारणं घातने हेतौ कारणा यातने स्त्रियाम् ।याचके त्रिषु बाणे ना मार्गणो याचने न ना ॥ २४१ ॥
14.241 · p. 18
अनुष्टुप्
वृक्षादिमूले प्राण्यङ्गे चरणो बह्वृचादिके ।नूतने यूनि तरुणस्त्रिष्वर्के तरणिः पुमान् ॥ २४२ ॥
14.242 · p. 18
अनुष्टुप्
कुमार्योषधिनावोः स्त्री ब्राह्मणी भार्गिविप्रयोः ।कुथे प्रवेणी वेण्यां च नक्षत्रे गवि रोहिणी ॥ २४३ ॥
14.243 · p. 18
अनुष्टुप्
रूप्ये कुवर्णे दुर्वर्णं भरणं वेतने भृतौ ।अतस्त्रिषु विषाणं स्यात्पशुशृङ्गेभदन्तयोः ॥ २४४ ॥
14.244 · p. 18
अनुष्टुप्
प्रवणः क्रमनिम्नोर्व्यां प्रह्वे ना तु चतुष्पथे ।संकीर्णौ निचिताशुद्धाविरिणं शून्यमूषरम् ॥ २४५ ॥
14.245 · p. 18
अनुष्टुप्
रोहणं रोपणे रूढौ पर्वते नाथ धारणा ।योगिकर्मणि साम्ये च धारके धारणी त्रिषु ॥ २४६ ॥
14.246 · p. 18
अनुष्टुप्
वारणं वृत्तिघाते ना गजे स्याद्वारके त्रिषु ।धरणी भूर्धृतौ क्लीवे चारणौ देवभिद्विटौ ॥ २४७ ॥
14.247 · p. 18
अनुष्टुप्
सारणा स्वरसंस्थाने सरिदल्पा च सारणी ।रसभिन्ना घृणायां स्त्री दीने तु करुणा त्रिषु ॥ २४८ ॥
14.248 · p. 18
अनुष्टुप्
समीरणो मरुवके वायौ सोपानमुद्गमः ।आरोहणे आस्तरणं शय्यायां वर्णकम्बले ॥ २४९ ॥
14.249 · p. 18
अनुष्टुप्
विलक्षणं व्यर्थसंस्थाविशिलष्टेन्यत्र च त्रिषु ।मधुपर्णी तु काश्मारी गुडूची नालिका तथा ॥ २५० ॥
14.250 · p. 19
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 1 विशि (syllable split)
व्यादानं स्याद्विहरणं प्रापणं क्रीडनं तथा ।प्राण्युत्पादे संसरणमसंबाधचमूगतौ ॥ २५१ ॥
14.251 · p. 19
अनुष्टुप्
घण्टापथेथ वान्तान्ने समुद्धरणमुन्नये ।वस्त्रेजीर्ण आवरणमर्गले छादने त्रिषु ॥ २५२ ॥
14.252 · p. 19
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 र्ण (wrong syllable)
प्रस्तावः स्यात्प्रकरणं कीर्णं रूपकभित्तथा ।निरूपणे दृष्टिचर्चे लज्जाभेदौ विदारणे ॥ २५३ ॥
14.253 · p. 19
अनुष्टुप्
आश्रये भर्त्सनेभीक्ष्णे क्लीवं तु स्यात्परायणम् ।पारायणं समासङ्गे कार्त्स्न्येथ प्रविदारणम् ॥ २५४ ॥
14.254 · p. 19
अनुष्टुप्
रणमारणयोरुक्तौ नियमोनियमेन यः ।यः सनिन्दमुपालम्भस्तच्च स्यात्परिभाषणम् ॥ २५५ ॥
14.255 · p. 19
अनुष्टुप्
मण्डूकपर्णी मञ्जिष्ठा पत्तोर्णे नाधिरोहिणी ।निःश्रेण्यभिनिवेशे तु क्लीवमूर्ध्वगतौ तथा ॥ २५६ ॥
14.256 · p. 19
अनुष्टुप्
छदिः प्रवृत्तिघातश्चाप्यन्तर्धिरपवारणम् ।स्यादुदाहरणं क्लीवमभिधाने निदर्शने ॥ २५७ ॥
14.257 · p. 19
अनुष्टुप्