कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Maṅkhakośa

मङ्खकोशः Maṅkhakośa

1,015 verses · text only, tagging comes next

हान्तवर्गः

शिखिपिच्छदले वर्हे ईहा स्यादुद्यमेच्छयोः ।गृहं गेहे बहुत्वे तु न स्त्री दारेषु संवहः ॥ ९४९ ॥
32.949 · p. 68
अनुष्टुप्
दान्तस्कन्धेश्वावयवे वोढर्याचरणे तथा ।वहो वाहे वर्णके च मुद्गपर्णी वचा सहा ॥ ९५० ॥
32.950 · p. 69
अनुष्टुप्
कुमारी त्रिषु शक्ते स्याद्वार्त्ताकी वाशिका तथा ।सिंही द्वयोः प्राणिभेदे वप्रवृत्रोरगेष्वहिः ॥ ९५१ ॥
32.951 · p. 69
अनुष्टुप्
अविद्यामूर्छयोर्मोहो ग्राहो यादोवहारयोः ।स्नेहस्तैलादिकप्रेम्णोः सौहार्दे चाथ गह्वरे ॥ ९५२ ॥
32.952 · p. 69
अनुष्टुप्
गुहा स्यात्पृश्निपर्ण्यां च पुमान्स्कन्देथ संचये ।सूर्यादौ पूत्तनादौ च राहुनिर्बन्धयोर्ग्रहः ॥ ९५३ ॥
32.953 · p. 69
अनुष्टुप्
राहुग्रस्तेन्दुरपूष्णोश्च मही भूरुत्सवे पुमान् ।वाहा बाहुतरे स्त्री स्यात्पुमान्माने हयादिषु ॥ ९५४ ॥
32.954 · p. 69
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
वर्गविन्यासयोर्व्यूहो विस्वारे पृथुले त्रिषु ।विपुले त्र्यादिसंख्यायां बहुः स्याद्वाच्यलिङ्गकः ॥ ९५५ ॥
32.955 · p. 69
अनुष्टुप्
प्रग्रहः स्यात्तुलासूत्रे वन्द्यां रज्जौ हयस्य च ।हयरश्मौ तुलासूत्रे प्रग्राहो जीविकाकृतौ ॥ ९५६ ॥
32.956 · p. 69
अनुष्टुप्
संवाहः परिचर्यायां विग्रहः कायविस्तरौ ।वैरवाक्ये तिरस्कारोभिध्या भर्त्सा च निग्रहः ॥ ९५७ ॥
32.957 · p. 69
अनुष्टुप्
स्यादूर्ध्वमाने स्त्रीश्रोणावारोहोङ्गे तरोरपि ।तथाश्वाद्यध्यासितरि स्यात्स्पष्टा मलसंसृतिः ॥ ९५८ ॥
32.958 · p. 69
अनुष्टुप्
प्रवृत्तिर्जलवेगश्च प्रवाहा अथ संग्रहः ।संचये महदुद्धारे फलादिस्वीकृतावपि ॥ ९५९ ॥
32.959 · p. 69
अनुष्टुप्
द्वार्यापीडे क्वाथरसे निर्यूहो नागदन्तके ।वैदेह्यौ पिप्पलीसीते वाराह्यौ देवतौषधी ॥ ९६० ॥
32.960 · p. 69
अनुष्टुप्
रास्ना शेफालिका गन्धनाकुली सुवहा त्रिषु ।रम्ये दैर्ध्ये रोगभेदे स्यादानाहोपि बन्धने ॥ ९६१ ॥
32.961 · p. 69
अनुष्टुप्
गजभाले वृष्टिरोधे प्रतिबन्धेप्यवग्रहः ।पदपर्वविभागे च भूमौ सर्वसहा सहे ॥ ९६२ ॥
32.962 · p. 69
अनुष्टुप्
स्यादारम्भे स्वीकरणे सैन्यपृष्ठे पतद्ग्रहे ।द्विजेभ्यो विधिवद्देये तद्ग्रहे च प्रतिग्रहः ॥ ९६३ ॥
32.963 · p. 69
अनुष्टुप्
पत्नीपरिजनादानमूलशापाः परिग्रहाः ।समीरणे गन्धवहो नासिकायां स्त्रियामथ ॥ ९६४ ॥
32.964 · p. 70
अनुष्टुप्
पितामहः पितृपिता ब्रह्मा चाथ तमोपहाः ।अग्नीन्द्वर्का नृपार्हेर्थे परिवर्हः परिच्छदे ॥ ९६५ ॥
32.965 · p. 70
अनुष्टुप्