कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Maṅkhakośa

मङ्खकोशः Maṅkhakośa

1,015 verses · text only, tagging comes next

थान्तवर्गः

आदिराजे पृथुर्दीर्घे त्रिषु कृष्णे च जीरके ।द्वयोः स्याद्धिङ्गुपर्ण्यां च पृथ्वी धरणिवृत्तयोः ॥ ३७३ ॥
16.373 · p. 27
अनुष्टुप्
पर्वसंधानपिटकयन्त्रणा ग्रन्थयो नरि ।अर्थोभिधेयविषयरैप्रयोजनवस्तुषु ॥ ३७४ ॥
16.374 · p. 27
अनुष्टुप्
सोपानपात्रयोस्तीर्थमर्हद्भिः सेविते गुरौ ।स्त्र्यृतौ सत्त्रिण्युपाये च प्रस्थोस्त्री सानुमानयोः ॥ ३७५ ॥
16.375 · p. 27
अनुष्टुप्
वृत्तवाग्भेदयोर्गाता ग्रन्थो द्रविणशास्त्रयोः ।आस्थान्याशादराश्वासयत्नेष्वास्थाथ ना स्पशे ॥ ३७६ ॥
16.376 · p. 28
अनुष्टुप्
संस्था व्यवस्थामरणयागोपस्करणेषु च ।वीथी रूपकभेदः स्यात्पङ्क्तिवेश्माङ्गवर्त्मसु ॥ ३७७ ॥
16.377 · p. 28
अनुष्टुप्
सिक्थः पुलाके मदने क्लीवेथो वर्णकम्बत्ने ।द्वयोर्दर्भेषु च कुथः सक्तूनां द्रवताविधौ ॥ ३७८ ॥
16.378 · p. 28
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 7 म्ब (wrong syllable)
मन्थानेक्षिगदे मन्थः सिद्धार्थौ बुधसर्षपौ ।समर्थस्त्रिषु शक्तिस्थे संबद्धार्थे हते तथा ॥ ३७९ ॥
16.379 · p. 28
अनुष्टुप्
क्षवथुस्तु क्षुते कास उपस्थस्त्वङ्कगुह्ययोः ।निर्ग्रन्थो निष्परीवारे त्रिषु स्यात्क्षपणे पुमान् ॥ ३८० ॥
16.380 · p. 28
अनुष्टुप्
पाशयन्त्रकमुन्माथं न स्त्री ना वधघातयोः ।वयःस्थामलकी क्षीरकाकोली यूनि तु त्रिषु ॥ ३८१ ॥
16.381 · p. 28
अनुष्टुप्
पथ्या कयस्था काकोल्यव्यथा पद्मा हरीतकी ।कपित्थे मन्मथः कामे मधूकाश्रमिभेदयोः ॥ ३८२ ॥
16.382 · p. 28
अनुष्टुप्
वानप्रस्थः क्षीणरागे दशमीस्थो वयोतिगे ।राजरक्षिष्वनीकस्थो गजशिक्षाविचक्षणे ॥ ३८३ ॥
16.383 · p. 28
अनुष्टुप्