कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Maṅkhakośa

मङ्खकोशः Maṅkhakośa

1,015 verses · text only, tagging comes next

कान्तवर्गः

को धात्रर्कात्मवातेषु कं शिरोम्बुसुखेषु तु ।आकाशे त्रिदिवे नाको लोकस्तु भुवने जने ॥ १० ॥
2.10 · p. 1
अनुष्टुप्
पद्ये यशसि च श्लोकष्टङ्को दर्पेश्मदारणे ।अङ्क एकादिगणनान्यास उत्सङ्गचिह्नयोः ॥ ११ ॥
2.11 · p. 1
अनुष्टुप्
भानुद्रुस्फटिका अर्काः शल्के शकलवल्कले ।किष्कुर्माने चतुर्विंशद्द्वादशाङ्गुलसम्मिते ॥ १२ ॥
2.12 · p. 2
अनुष्टुप्
साष्टे शते सुवर्णानां होम्नि हेमदले पले ।उरोविभूषणे कर्षे दीनारे निष्कमस्त्रियाम् ॥ १३ ॥
2.13 · p. 2
अनुष्टुप्
रोको दीप्तौ बिले चूर्णे कल्कोस्त्री समलैनसोः ।दमेल्पपुत्रयोः स्तोकः पाकौ पचनशावकौ ॥ १४ ॥
2.14 · p. 2
अनुष्टुप्
शुल्कोस्त्री घट्टलभ्योर्थो जामातुर्गृह्यते च यः ।नगरीशाखयोर्लङ्का शङ्का त्रासवितर्कयोः ॥ १५ ॥
2.15 · p. 2
अनुष्टुप्
ऊहाकाङ्क्षावितर्केषु तर्को मुख्यान्यकेवलाः ।एके त्रिषु च संख्यायां पङ्कोस्त्री कर्दमैनसोः ॥ १६ ॥
2.16 · p. 2
अनुष्टुप्
चक्रवाकवृकौ कोकौ भेकौ मण्डूकभीरुकौ ।गृहासक्ताः पक्षिमृगाश्छेकाः सहृदया अपि ॥ १७ ॥
2.17 · p. 2
अनुष्टुप्
झषायुधभिदोः स्थाणौ शङ्कुः कीलकसंख्ययोः ।कूपयन्त्रे त्रिका क्लीवे गात्राङ्गे त्रितये तथा ॥ १८ ॥
2.18 · p. 2
अनुष्टुप्
त्रिषु त्रयाणां संघादौ मूकोवागज्ञयोस्त्रिषु ।राका नवरजःकन्या पूर्णिमा प्रतिपद्युता ॥ १९ ॥
2.19 · p. 2
अनुष्टुप्
किंशारौ कण्टके च स्याच्छूकोनुक्रोशशुङ्गयोः ।रत्नस्वरूपभिच्छस्त्रभाण्डाभ्यञ्जनतूलिकाः ॥ २० ॥
2.20 · p. 2
अनुष्टुप्
परीक्षा च शलाका स्याद्गुरौ देश्ये च दैशिकः ।चित्रकृद्भाण्डशय्याभिच्छलाकासु च तूलिका ॥ २१ ॥
2.21 · p. 2
अनुष्टुप्
विलेपने चन्दने च परीक्षोद्धृतवस्तुनि ।ना वर्णकस्तान्तवे स्याद्वयो रागेषु वर्णिका ॥ २२ ॥
2.22 · p. 2
अनुष्टुप्
पर्यायार्हादिकथने व्याख्यातरि भवेत्त्रिषु ।यूथीभ्यौ गणिका वेश्या दैवज्ञे त्रिषु चित्रकम् ॥ २३ ॥
2.23 · p. 2
अनुष्टुप्
तिलको ना तु शार्दूले पाठ्यामेरण्डके तथा ।जम्बुकौ क्रोष्टुवरुणौ कलङ्कोङ्कापवादयोः ॥ २४ ॥
2.24 · p. 2
अनुष्टुप्
पृथुको बालको भक्ष्यं खलभृष्टार्द्रसस्यजम् ।आलोकौ दर्शनोद्द्योतौ भेरीपटहमानकः ॥ २५ ॥
2.25 · p. 2
अनुष्टुप्
शराज्ञयोः स्यान्नालीकस्तक्षकौ नागवर्धकी ।स्यात्पुलाकस्तुच्छधान्ये संक्षेपे भक्तसिक्थके ॥ २६ ॥
2.26 · p. 3
अनुष्टुप्
उलूके करिणः पुच्छमूलोपान्ते च पेचकः ।कमण्डलौ दाडिमे ना करकः करिका पुनः ॥ २७ ॥
2.27 · p. 3
अनुष्टुप्
मद्यभाण्डे च करका भवेद्वर्षोपले द्वयोः ।करङ्को मांसरहिते ताम्बूलादेश्च भाजने ॥ २८ ॥
2.28 · p. 3
अनुष्टुप्
---------------- ।प्रतिकूले प्रतीकं त्रिष्वंशे दीपे च पुंस्ययम् ॥ २९ ॥
2.29 · p. 3
अनुष्टुप्metre not read in every line
छत्त्रायवान्योर्भूतीकं भूनिम्बे कट्फलेपि च ।यवान्यां जीरके दीपे नालंकारे तु दीपकम् ॥ ३० ॥
2.30 · p. 3
अनुष्टुप्
कौशिका गाधिजोलूकगुग्गुल्विन्द्राहितुण्डिकाः ।कनिष्ठे च दरिद्रे च स्वल्पेपि क्षुल्लकस्त्रिषु ॥ ३१ ॥
2.31 · p. 3
अनुष्टुप्
तिलकल्के सिल्हके च पिण्याकोथ द्वयोः खगे ।वर्तकोश्वखुरे पुंसि शरे खड्गे च सायकः ॥ ३२ ॥
2.32 · p. 3
अनुष्टुप्
व्यलीकं कामजे दोषे विलक्षाप्रिययोरपि ।विपर्यये रुजायामप्यकार्ये चाथ गैरिकम् ॥ ३३ ॥
2.33 · p. 3
अनुष्टुप्
स्वर्णे धातुविशेषे चाथाम्बिका मातृकोमयोः ।भालानृताप्रियेलीकमनूकं कुलशीलयोः ॥ ३४ ॥
2.34 · p. 3
अनुष्टुप्
क्षुरिकोमा करेण्वां च धेनुका चाथ कालिका ।देव्यां वृद्धौ स्वर्णमले मेघजालेथ कारिका ॥ ३५ ॥
2.35 · p. 3
अनुष्टुप्
यातनावृत्तिकृतिषु ना भृत्ये त्रिषु कर्तरि ।कर्मादौ साधने क्लीवे कर्णिका कर्णभूषणे ॥ ३६ ॥
2.36 · p. 3
अनुष्टुप्
करिहस्ताङ्गुलौ पद्मबीजकोश्यां स्त्रिया गदे ।वाह्लीकं कुङ्कुमे हिङ्गौ वाह्लिदेशोद्भवे त्रिषु ॥ ३७ ॥
2.37 · p. 3
अनुष्टुप्
विवाहमङ्गलद्रव्ये कौतुकं कुतुके तथा ।द्वयोः शिशौ वालुकायां भूषाभेदे च वालिका ॥ ३८ ॥
2.38 · p. 3
अनुष्टुप्
कङ्कणे चाङ्गुलीये च ह्रीवेरे चापि वालकम् ।प्रियकौ नीपबन्धूकौ कारम्भो मृगभित्तथा ॥ ३९ ॥
2.39 · p. 3
अनुष्टुप्
उदर्क उत्तरे काले फले चोत्तरकालिके ।मेचकं त्रिषु कृष्णे स्यात्पुमांस्तु शिखिचन्द्रके ॥ ४० ॥
2.40 · p. 4
अनुष्टुप्
विधवाया जारजाते गुले पिण्डे च गोलकः ।त्रिश्लोक्यां कृष्णलवणे तिलकं क्लोम्नि चास्त्रियाम् ॥ ४१ ॥
2.41 · p. 4
अनुष्टुप्
जडुले चित्रके ना द्रुरातङ्कास्तापभीरुजः ।गुणवक्षः कूपकः स्यात्तोयार्थं विवरश्च यः ॥ ४२ ॥
2.42 · p. 4
अनुष्टुप्
अल्पकूपः श्रोणिपार्श्वगर्तावथशिलाजतु ।सौभाञ्जनं गन्धकं स्याद्रेणुकौषधभित्तथा ॥ ४३ ॥
2.43 · p. 4
अनुष्टुप्
भार्गवाम्बा पुण्डकोतिमुक्तेक्षुतिलकेषु तु ।प्रस्तरे पुलकं ना तु रोमाञ्चक्रिमिभेदयोः ॥ ४४ ॥
2.44 · p. 4
अनुष्टुप्
श्रुद्रवैरिणि रोमाञ्चे तरोरङ्गे च कण्टकः ।कटकोस्त्री नितम्बोद्रेः क्लीवे वलयसैन्ययोः ॥ ४५ ॥
2.45 · p. 4
अनुष्टुप्
इक्षुशीधौ शीधुपाने सरकं मद्यभाजने ।तारकर्क्षेक्ष्णि च न ना दैत्यभेदे पुमानयम् ॥ ४६ ॥
2.46 · p. 4
अनुष्टुप्
देवीभेदे तारिका स्यात्पिटके मत्स्यपक्षिणाम् ।क्षारकं कोरके चाथ जीवकः प्राणके त्रिषु ॥ ४७ ॥
2.47 · p. 4
अनुष्टुप्
बन्धूके क्षपणे पुंसि जीवने वेतने स्त्रियाम् ।पर्यस्तिकायां शयने पर्यङ्कोथ भयोज्झिते ॥ ४८ ॥
2.48 · p. 4
अनुष्टुप्
त्रिष्वभीकः कामयिता कुलटेभी च बन्धकी ।आधावस्त्री बन्धिका तु बन्धकारिणि वाच्यगा ॥ ४९ ॥
2.49 · p. 4
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 का (wrong syllable)
वार्द्धकं वृद्धसंघाते वृद्धत्वे वृद्धकर्मणि ।स्याद्दर्शकः प्रतीहारस्त्रिषु दर्शयिता पुनः ॥ ५० ॥
2.50 · p. 4
अनुष्टुप्
चर्चायां स्थासको ज्ञेयो हारभेदेपि बुद्बुदे ।स्यादंशुकं शुक्लवस्त्रे वस्त्रमात्रोत्तरीययोः ॥ ५१ ॥
2.51 · p. 4
अनुष्टुप्
शिशुकः शिशुमाराख्यनक्रोलूप्योश्च बालके ।त्रिष्वथो मधुयष्ट्यां स्यान्मधुकं वन्दिभित्पुमान् ॥ ५२ ॥
2.52 · p. 4
अनुष्टुप्
खनकी त्रिषु शिल्पिन्यां खनकौ भेत्तृमूषकौ ।जलाधारे स्त्रियां रत्नाद्याकरे चाथ कार्मुकम् ॥ ५३ ॥
2.53 · p. 4
अनुष्टुप्
चापे त्रिषु तु कर्मण्ये शक्तमात्रेथ कञ्चुकः ।निर्मोके कवचे वारवाणेथ धनदस्य पूः ॥ ५४ ॥
2.54 · p. 5
अनुष्टुप्
अलका स्त्रीकचे न स्त्र्यनीकं तु रणसैन्ययोः ।वञ्चको जम्बुके धूर्ते स्त्री चुल्ल्यां निकटेन्तिकम् ॥ ५५ ॥
2.55 · p. 5
अनुष्टुप्
विपाकौ पचनस्वेदौ कृषकौ फालकार्षकौ ।कनकं मातुले स्वर्णे रेखासुर्योस्तु राजिका ॥ ५६ ॥
2.56 · p. 5
अनुष्टुप्
स्यादार्द्रायां शाकुनिके लुब्धको मध्यगो मणिः ।नेता च नायको नाट्यपात्रभूम्युत्तमे द्वयोः ॥ ५७ ॥
2.57 · p. 5
अनुष्टुप्
खेटकौ ग्रामफलकौ पेटकं भाण्डवृन्दयोः ।त्रिष्वतो जालिकौ धूर्तधीवरौ पद्मकेसरे ॥ ५८ ॥
2.58 · p. 5
अनुष्टुप्
पुष्परेणौ च किञ्जल्को दारकौ बालभेदकौ ।करभ्यां भाण्डभेदे चाप्युष्ट्रिकाथ वितर्दिका ॥ ५९ ॥
2.59 · p. 5
अनुष्टुप्
वलभी चोन्नते देशे विटङ्कः पुंनपुंसकः ।शांकरे शूलधनुषी पिनाकावथ जालकम् ॥ ६० ॥
2.60 · p. 5
अनुष्टुप्
जालाभे क्षारके संघे ना प्राणी स्त्री मुखावृतौ ।सेवाजीवे प्रसेवे च सेवकः सूतको ग्रहे ॥ ६१ ॥
2.61 · p. 5
अनुष्टुप्
सूतिका सूतका सूता क्लीवे जन्मनि ना रसे ।जनकौ पितृवैदेहौ दीक्ष्यभेदे तु पुत्रकः ॥ ६२ ॥
2.62 · p. 5
अनुष्टुप्
कृत्रिमादौ द्वयोः स्त्रीत्वे पुत्रका पुत्रिकापि च ।अभ्रातृपितृका कन्या पूर्णदाया च पुत्रिका ॥ ६३ ॥
2.63 · p. 5
अनुष्टुप्
जलधानी वारिपर्णी वलनं नरकास्पदम् ।कुम्भिका प्राणरोधे ना कुलकं श्लोकसंचये ॥ ६४ ॥
2.64 · p. 5
अनुष्टुप्
न स्त्री पटोले काकेन्दुतरौ श्रेष्ठिनि चापि ना ।पट्टिकातूलपूगेषु क्रमुकोथौषधीभिदि ॥ ६५ ॥
2.65 · p. 5
अनुष्टुप्
आडकी मानभिद्यस्त्री कैशिकं केशसंचये ।ना रागभेदे वृत्तौ तु कैशिकी हस्तिबिन्दुषु ॥ ६६ ॥
2.66 · p. 5
अनुष्टुप्
औषधे च कुसुम्भे च पद्मकं स्यात्तु यावकः ।कुल्मासेलक्तके च स्युः सेनारक्षास्तु सैनिकाः ॥ ६७ ॥
2.67 · p. 5
अनुष्टुप्
सेनायां समवेताश्च रीतिपुष्पं तु पुष्पकम् ।विमाने नेत्ररोगे ना पौष्पिकी त्रिषु शिल्पिनि ॥ ६८ ॥
2.68 · p. 6
अनुष्टुप्
रीतिपुष्पे भवेत्क्लीवं वातिकौ रोगिमान्त्रिकौ ।भावुकं कुशलं क्लीवं भवेद्भवितरि त्रिषु ॥ ६९ ॥
2.69 · p. 6
अनुष्टुप्
रुचकः स्यान्मातुलुङ्गैरण्डभूषाललामसु ।क्लीवे सौवर्चलेथान्तरङ्ग उण्डूकमुत्करे ॥ ७० ॥
2.70 · p. 6
अनुष्टुप्
पुंस्यथो मल्लिका दीपपात्रं शेफालिवाद्यभित् ।मोचकः शल्मलिः सौभाञ्जनो रम्भा च मोक्तरि ॥ ७१ ॥
2.71 · p. 6
अनुष्टुप्
तद्धेतौ त्रिषु चाङ्गेरी शौण्डिकी चुक्रिकाम्ब्लिका ।पदातिः पदिकः पुंसि भवेत्स्थानवति त्रिषु ॥ ७२ ॥
2.72 · p. 6
अनुष्टुप्
अलातमुल्मुकं वृष्णिराजभेदे पुमानयम् ।मड्डुकं वाद्यभेदे च मुष्टौ स्यात्फलकस्य च ॥ ७३ ॥
2.73 · p. 6
अनुष्टुप्
खजाको दारुहस्ते च मन्थे च पदकः पुमान् ।पदाध्येता मध्यमणिश्चरणत्रे नपुंसकम् ॥ ७४ ॥
2.74 · p. 6
अनुष्टुप्
क्रीताद्यर्थे पादिकः स्याद्भेद्यवत्पादिका पुनः ।उपानद्रसतूर्येण वेधः स्वर्णादिकस्य च ॥ ७५ ॥
2.75 · p. 6
अनुष्टुप्
चालको दुष्टहस्ती स्याच्चाक्रिकश्चाथ चन्द्रकः ।वर्ह्यग्रपक्षे तोथस्थतैलादिप्रसरे तथा ॥ ७६ ॥
2.76 · p. 6
अनुष्टुप्
मोदको भक्ष्यभित्पुंसि हर्षहेतौ भवेत्त्रिषु ।कीचकाः स्युर्विराटस्य स्याला वंशाश्च सस्वनाः ॥ ७७ ॥
2.77 · p. 6
अनुष्टुप्
सिंहिका राहुमाता स्याद्वाशिका सिंहपोतिका ।लाक्षारक्तो लाक्षिकः स्याल्लक्षमूल्यश्च भेद्यवत् ॥ ७८ ॥
2.78 · p. 6
अनुष्टुप्
इक्ष्वाकुः कटुतुम्ब्यामप्यादिराजेथ कालिमा ।स्वर्णव्याजो लोहमलं श्यामिका गण्डकं पुनः ॥ ७९ ॥
2.79 · p. 6
अनुष्टुप्
उपधाने स्त्रियां छेदे ना प्राण्यथ कदम्बकम् ।समूहे सर्षपे मुंसि विषे सौराष्ट्रिकः पुमान् ॥ ८० ॥
2.80 · p. 6
अनुष्टुप्
सुराष्ट्रजे त्रिष्वथार्घोरुके चण्डातकं नरि ।करवीरौषधौ गन्धाश्मनि सौगन्धिकं तथा ॥ ८१ ॥
2.81 · p. 6
अनुष्टुप्
कह्लारेथ क्लीतकिका मधुयष्टी च नीलिका ।अश्मन्तकं भवेच्चुल्ल्यां ना वृक्षतृणभेदयोः ॥ ८२ ॥
2.82 · p. 7
अनुष्टुप्
तार्क्ष्ये गणेशे प्रेतेशे सुगते च विनायकः ।पटोलिकाप्यपामार्गः कोशातक्यथ कट्फले ॥ ८३ ॥
2.83 · p. 7
अनुष्टुप्
करञ्जे खदिरे सोमवल्कः सालावृकः कपिः ।क्रोष्टा श्वा स्यादथायुष्मान्भवेज्जैवात्रिकः शशी ॥ ८४ ॥
2.84 · p. 7
अनुष्टुप्
स्तनवृन्ते पिप्पलकः शस्त्रीसीवनसूत्रयोः ।अङ्गारकः पक्षिभेदे भौमे वह्निकणे तथा ॥ ८५ ॥
2.85 · p. 7
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 पि (wrong syllable)
द्वयोः कपर्थके बीजकोशेब्जस्य वराटकः ।प्रसेवकस्तु ककुभे त्रिषु सेवापरायणे ॥ ८६ ॥
2.86 · p. 7
अनुष्टुप्
हारभेदे माणवको बाले कुपुरुषे द्वयोः ।वैदेहको वाणिजके शूद्राद्वैश्यासुतेपि च ॥ ८७ ॥
2.87 · p. 7
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 मा (wrong syllable)
विदेहादागतादौ च द्वयोः कौलेयकः शुनि ।त्रिषु कुल्येथ यन्ता च पोतवाहो नियामकः ॥ ८८ ॥
2.88 · p. 7
अनुष्टुप्
स्याद्दाम्भिकः कौक्कुटिको यश्चादूरेरितेक्षणः ।लालाटिकः प्रभोर्भालदर्शी कार्याक्षमश्च यः ॥ ८९ ॥
2.89 · p. 7
अनुष्टुप्
वीच्युत्कण्ठे उत्कलिके देवे वृन्दारकः पुमान ।त्रिषु मुख्ये मनोज्ञे च पुण्डरीकस्तु दिग्गजे ॥ ९० ॥
2.90 · p. 7
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
व्याघ्रे सिताम्बुजसितच्छत्त्रयोस्तु नपुंसके ।अनेलमूकस्त्रिष्वन्धे शठे वाक्कायवर्जिते ॥ ९१ ॥
2.91 · p. 7
अनुष्टुप्
पीतयूथ्यां स्त्रियां हेमपुष्पिका चम्पके नरि ।उपकर्त्र्यां त्रिषु स्त्री तु पटकुट्युपकारिका ॥ ९२ ॥
2.92 · p. 7
अनुष्टुप्
बोधके त्रिषु खट्वाङ्घ्र्याधारे स्यात्प्रतिपादकम् ।मातुलापत्ये धतूरफले मातुलपुत्रकः ॥ ९३ ॥
2.93 · p. 7
अनुष्टुप्