All kośas › Maṅkhakośa
मङ्खकोशः Maṅkhakośa
1,015 verses · text only, tagging comes next
डान्तवर्गः
पतिवत्नीसुते जारात्कुण्डः क्लीवे न भाजने ॥ १८९ ॥
12.189 · p. 14
न ना कुण्डी जलाग्न्यादेराधारे स्यान्नपुंसकम् ।वंशाङ्कुरे सिंहनादे क्ष्वेडा ना विषशब्दयोः ॥ १९० ॥
12.190 · p. 14
अनुष्टुप्
इषौ पुमान्विपाठः स्यात्पाठहीने तु वाच्यवत् ।मस्त्वाचामद्रवा मण्डास्तरुस्कन्धलतेपि च ॥ १९१ ॥
12.191 · p. 14
अनुष्टुप्
काण्डोस्त्री दण्डबाणार्ववर्गावसरवारिषु ।स्याद्भाण्डमश्वाभरणे पात्रे मूलवणिग्धने ॥ १९२ ॥
12.192 · p. 14
अनुष्टुप्
तुर्योपाये राजबले दण्डोस्त्री लगुडे मथि ।गुडौ गोलेक्षुविकृती स्नुहीगुलिकयोः स्त्रियाम् ॥ १९३ ॥
12.193 · p. 14
अनुष्टुप्
संघातग्रासयोः पिण्डी द्वयोः पुंसि कलेवरे ।गण्डौ कपोलविस्फोटौ मुण्डं के त्रिषु मुण्डिते ॥ १९४ ॥
12.194 · p. 15
अनुष्टुप्
स्थाणौ तु ना त्रिष्वजातशृङ्गकाकृतचूडयोः ।खण्डोस्त्री शकलेपीक्षुभेदे स्फुटितशृङ्गके ॥ १९५ ॥
12.195 · p. 15
अनुष्टुप्
द्वयोर्गवादौ शौण्डा तु पिप्पली वृषभे नरि ।समर्थे मधुसक्ते च विज्ञेयो वाच्यलिङ्गकः ॥ १९६ ॥
12.196 · p. 15
अनुष्टुप्
रण्डा मूषकपर्णी स्याद्विधवा कठिने तथा ।मुष्के खगादिकोशेण्डं किरे क्रोडो न नोरसि ॥ १९७ ॥
12.197 · p. 15
अनुष्टुप्
कृपावमर्दयोः पीडा नीडं स्थानकुलाययोः ।न स्त्री कायसिरा नीडी नालं कालश्च षट्क्षणः ॥ १९८ ॥
12.198 · p. 15
अनुष्टुप्
शुण्डा पानमदस्थानं स्तम्बेरमकरस्तथा ।सुरा वक्त्रैकदेशश्च कुब्जे पृष्ठगले गडुः ॥ १९९ ॥
12.199 · p. 15
अनुष्टुप्
रोगेथौषधिभिच्चण्डा गणे ना कोपने त्रिषु ।चण्डी देव्यां गोपतौ तु षण्डो वल्ल्यादिसंचये ॥ २०० ॥
12.200 · p. 15
अनुष्टुप्
सर्ममांसात्पशू व्याडौ भूगोवागप्सरःस्विडा ।तरुस्कन्धे प्रकाण्डोस्त्री प्रशंसायां नपुंसकम् ॥ २०१ ॥
12.201 · p. 15
अनुष्टुप्
सपिण्डौ पुत्रदायादौ शिखण्डो वर्हचूडयोः ।पोगण्डो विकलाङ्गः स्याद्बालश्चाषोडशाब्दगः ॥ २०२ ॥
12.202 · p. 15
अनुष्टुप्