कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Maṅkhakośa

मङ्खकोशः Maṅkhakośa

1,015 verses · text only, tagging comes next

खान्तवर्गः

खानि स्वरिन्द्रियाकाशा आद्युपायानने मुखम् ।अग्रज्वालाकेकिचूडाचूडाशाखाशिफाः शिखाः ॥ ९४ ॥
3.94 · p. 7
अनुष्टुप्
शङ्खो नीधौ ललाटास्थ्नि नागेह्नोंशे नखौषधौ ।कम्बावस्त्री नखोप्येवमोषधौ करजे तथा ॥ ९५ ॥
3.95 · p. 7
अनुष्टुप्
व्युङ्खौ मन्त्रषडोंकारमनोज्ञावय दैवते ।लेख्ये च लेखः पङ्क्तौ स्त्री चन्द्रांशाभोगयोरपि ॥ ९६ ॥
3.96 · p. 8
अनुष्टुप्
व्याज आभोग उल्लेख्ये रेखा स्यादल्पके तथा ।उखा स्थाल्यां यज्ञभाण्डे शाखा वेदद्रुमांशयोः ॥ ९७ ॥
3.97 · p. 8
अनुष्टुप्
हस्ताद्वाराङ्घ्र्यवयवे सखा मित्रसहाययोः ।आदौ प्रधाने प्रमुखमग्रे चाथ नपुंसकम् ॥ ९८ ॥
3.98 · p. 8
अनुष्टुप्
धानुष्कस्थानभेदे ना वैशाखो मासमन्थयोः ।वाद्यभाण्डे लेपने च गोमुखं विशिखा पुनः ॥ ९९ ॥
3.99 · p. 8
अनुष्टुप्
प्रतोल्यां च खनित्र्यां च निश्चूडे सायके पुमान् ।विशाखः षण्मुखे शाखारहिते भे पुनः स्त्रियाम् ॥ १०० ॥
3.100 · p. 8
अनुष्टुप्
मयूखस्त्विट्करज्वालास्वलिवाणौ शिलीमुखौ ।स्त्रियां वह्न्यर्चिरोषध्योः क्लीवमग्निशिखं वरे ॥ १०१ ॥
3.101 · p. 8
अनुष्टुप्
क्लीवे जले ब्रह्मणि तु पुमान्स्यात्सर्वतोमुखः ।स्यात्क्लीवे मकरमुखं मकराकारधारिणि ॥ १०२ ॥
3.102 · p. 8
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 म (wrong syllable)
जलनिर्गमनद्वारे जानूर्ध्वावयवे तथा ।
3.10 · p. 8