कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Maṅkhakośa

मङ्खकोशः Maṅkhakośa

1,015 verses · text only, tagging comes next

नान्तवर्गः

पृश्निरल्पतनू रश्मिमवर्णभेदे गवि स्त्रियाम् ॥ ४३७ ॥
19.437 · p. 32
व्याधिभिद्यक्षयोर्यक्ष्मा मुनिर्बुद्ध ऋषिस्तथा ।शुष्मा वह्निर्बले क्लीवे शृङ्गी प्रतिविषा विषम् ॥ ४३८ ॥
19.438 · p. 32
अनुष्टुप्
वृषाख्यौषधिभिद्दान्तपर्वतौ शृङ्गवांस्त्रिषु ।हनुर्नखौषधिः सृक्व जटी प्लक्षतरुर्व्रती ॥ ४३९ ॥
19.439 · p. 32
अनुष्टुप्
घनो मेघे मूर्तिगुणे विस्तारे लोहमुद्गरे ।मुस्ते च न द्वयोर्वाद्ये त्रिषु मूर्तिनिरन्तरे ॥ ४४० ॥
19.440 · p. 32
अनुष्टुप्
इनः सूर्ये प्रभौ राजा मृगाङ्के क्षत्रिये नृपे ।त्वग्देहयोस्तनुः स्त्री स्यात्तद्गुणे त्रिषु पर्व तु ॥ ४४१ ॥
19.441 · p. 32
अनुष्टुप्
तिथिभेदे क्षणे ग्रन्थौ वर्त्म नेत्रच्छदेध्वनि ।वेदस्तत्त्वं तपो ब्रह्म पुमान्विप्रे प्रजापतौ ॥ ४४२ ॥
19.442 · p. 32
अनुष्टुप्
पक्ष्माक्षिलोम्नि किञ्जल्के तन्त्वाद्यंशेप्यणीयसि ।आत्मा यत्नो धृतिर्बुद्धिः स्वभावो ब्रह्म वर्ष्म च ॥ ४४३ ॥
19.443 · p. 32
अनुष्टुप्
देहप्रमाणयोर्वर्ष्म स्यादाकारेपि सुन्दरे ।ग्रावाणौ शैलपाषाणौ पत्त्रिणौ शरपक्षिणौ ॥ ४४४ ॥
19.444 · p. 32
अनुष्टुप्
वृक्षोग्निः कुक्कुटो शिखिनोथ तु सादिनौ ।द्वौ सारथिहयारोहौ वाजिनोश्वेषुपक्षिणः ॥ ४४५ ॥
19.445 · p. 32
अनुष्टुप्metre not read in every line
स्थितौ क्षेत्रेवधौ मार्गे सीमा लक्ष्माग्र्यचिह्नयोः ।गृहं देहस्त्विट् प्रभावो धाम धन्व स्थलं धनुः ॥ ४४६ ॥
19.446 · p. 33
अनुष्टुप्
पुमान्मरावथ स्वप्नः स्वापे सुप्तस्य संविदि ।सूनं पुष्पे वधस्थाने स्त्रियां जिह्वातलेपि च ॥ ४४७ ॥
19.447 · p. 33
अनुष्टुप्
पुष्पिते त्रिष्वहिहरी चक्रिणौ रथतैलिकौ ।भृतौ सुवर्णे भर्म स्याच्चर्म स्यात्फलके त्वचि ॥ ४४८ ॥
19.448 · p. 33
अनुष्टुप्
स्वामिनौ गुहभर्तारौ जनौ लोकपृथग्जनौ ।जनी वधूश्चन्द्रयुता रात्रिर्ज्योत्स्नी पटोलिका ॥ ४४९ ॥
19.449 · p. 33
अनुष्टुप्
अश्वकुत्सितयोरर्वा प्रेमास्त्री स्नेहनर्मणोः ।मन्दस्वच्छन्दयोः स्वैरी श्येनौ श्वेतविहंगमौ ॥ ४५० ॥
19.450 · p. 33
अनुष्टुप्
गभस्तिव्रध्नयोर्भानुर्वनं कानननीरयोः ।समूहे पर्वते च स्यात्तानस्तात्पर्यगीतयोः ॥ ४५१ ॥
19.451 · p. 33
अनुष्टुप्
मणिप्रकृष्टयो रत्नं यानं गमनयुग्मयोः ।गुणभेदे च नृपतेर्धेनुर्दोग्ध्र्यां तथा गवि ॥ ४५२ ॥
19.452 · p. 33
अनुष्टुप्
रूपे धने बले द्युम्नं विन्नं लब्धे विचारिते ।सेवके याचके चार्थी स्थानं स्थित्यवकाशयोः ॥ ४५३ ॥
19.453 · p. 33
अनुष्टुप्
सादृश्ये गीतविषये स्याच्च योग्यप्रसङ्गयोः ।वैयापृत्यकरो भोगी त्रिषु राजभुजंगयोः ॥ ४५४ ॥
19.454 · p. 33
अनुष्टुप्
ज्योत्स्ना ज्योतिष्मती रात्रिस्तथा चन्द्रमसः प्रभा ।मानं प्रमाणे प्रस्थादौ पुमांश्चित्तसमुन्नतौ ॥ ४५५ ॥
19.455 · p. 33
अनुष्टुप्
दिग्वासास्त्रिषु नग्नः स्यान्नग्ना वैतालिकादयः ।संस्कृते दारिते भिन्नास्त्रिषु स्यादन्यवाचकः ॥ ४५६ ॥
19.456 · p. 33
अनुष्टुप्
शुष्के शुष्कफले वानं तथा सीवनकर्मणि ।भगाकरौ द्वयोर्योनी कृती सूरिकृतार्थयोः ॥ ४५७ ॥
19.457 · p. 33
अनुष्टुप्
स्नानीये सवने स्नानं धनं गोसंघवित्तयोः ।पताकालक्ष्मणोश्चिह्नं स्यादन्नं भुक्तभक्तयोः ॥ ४५८ ॥
19.458 · p. 33
अनुष्टुप्
छादिते रहासि च्छन्नं पानं पीतौ च रक्षणे ।खण्डने रक्षणे दानं त्यागे गजमदे तथा ॥ ४५९ ॥
19.459 · p. 33
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 हा (wrong syllable)
शुद्धिलून्योश्चोनगर्ह्यौ हीनन्यूनौ त्रिलिङ्गकौ ।जिह्वायां रसना क्लीवे ध्वनावास्वादने न ना ॥ ४६० ॥
19.460 · p. 34
अनुष्टुप्
कुहना दम्भचर्यायामीर्ष्यालौ तु भवेत्त्रिषु ।तरुशैलौ शिखरिणौ बली वेगी तरस्विनौ ॥ ४६१ ॥
19.461 · p. 34
अनुष्टुप्
विषाणिनौ करी शृङ्गी प्रीणने रक्षणेवनम् ।स्वच्छे तलिनमल्पे च गम्भीरे गहनं वने ॥ ४६२ ॥
19.462 · p. 34
अनुष्टुप्
रोदनं त्वस्रुणि क्रन्दे प्रज्ञानं बुद्धचिह्नयोः ।भुवने विष्टपजले धावने गतिशोधने ॥ ४६३ ॥
19.463 · p. 34
अनुष्टुप्
त्रैवर्णिकेण्डजे दन्ते द्विजन्मा तारकासु च ।न ना तु परिहारे स्याद्वर्जनं त्यागहिंसयोः ॥ ४६४ ॥
19.464 · p. 34
अनुष्टुप्
कुले नाशे च निधनं सूचना स्त्रीनपुंसकम् ।व्यधनेभिनये संज्ञापैशुन्यक्रिययोरपि ॥ ४६५ ॥
19.465 · p. 34
अनुष्टुप्
जीवनं राजलभ्यांशे जीविते तोयवर्तने ।उद्वानमुद्गमे चुल्ल्यां शयनं रतशय्ययोः ॥ ४६६ ॥
19.466 · p. 34
अनुष्टुप्
शासनं लेखशास्त्राज्ञा वर्तनी वृत्तिमार्गयोः ।तोदनं व्यधने तोत्त्रे प्रसूनं फलपुष्पयोः ॥ ४६७ ॥
19.467 · p. 34
अनुष्टुप्
दले पतत्रे छदनं विलग्नो लग्नमध्ययोः ।मेषादौ च तनुस्थे स्यात्प्रभोराराधने भवेत् ॥ ४६८ ॥
19.468 · p. 34
अनुष्टुप्
सेवनं सीवने पाशे बन्धनं स्नेहवृन्तयोः ।अब्जाकरेब्जे नलिनी वाहिनी सिन्धुसेनयोः ॥ ४६९ ॥
19.469 · p. 34
अनुष्टुप्
मैथुने रतसंबन्धौ मिथुने युग्मदंपती ।सेनान्यौ गुहसेनेशौ ह्रादिन्यौ वज्रविद्युतौ ॥ ४७० ॥
19.470 · p. 34
अनुष्टुप्
सल्लकी च नदी च स्यात्त्रिष्वयं नादवत्यपि ।द्वयोर्वज्रेशनिः शम्पा रक्षोवृक्षौ पलाशिनौ ॥ ४७१ ॥
19.471 · p. 34
अनुष्टुप्
अरत्निः कूर्परे हस्ते सप्रकोष्ठतताङ्गुलौ ।वाणिन्यौ नर्तकीदूत्यौ भोगिनी देवताभिदि ॥ ४७२ ॥
19.472 · p. 34
अनुष्टुप्
विहाय महिषीमन्या भोगिन्यो राजयोषितः ।प्रधानं धीमहामात्यप्रकृत्यात्मसु सत्तमे ॥ ४७३ ॥
19.473 · p. 34
अनुष्टुप्
अश्वादीनां च संनाहे जये च जयनं भवेत् ।व्यञ्जनं लाञ्छनश्मश्रुनिष्ठानावयवेष्वपि ॥ ४७४ ॥
19.474 · p. 35
अनुष्टुप्
संस्कारके भवेत्क्लीवे वादित्रकरणे पुमान् ।स्यात्कौलीनं लोकवादे युद्धे पश्वहिपक्षिणाम् ॥ ४७५ ॥
19.475 · p. 35
अनुष्टुप्
स्यादुद्यानं राजमार्गे वनभेदे प्रयोजने ।क्रतौ करकुके चास्त्री वितानं त्रिषु तुच्छके ॥ ४७६ ॥
19.476 · p. 35
अनुष्टुप्
मन्दे शून्ये विस्तृतौ ना गृहान्ते तूद्यमे तथा ।उत्थानं पौरुषे तन्त्रे संनिविष्टोद्गमेपि च ॥ ४७७ ॥
19.477 · p. 35
अनुष्टुप्
व्युत्थानं प्रतिरोधे च विरोधाचरणेपि च ।अञ्जनं कज्जलं माता कपेः स्त्री दिग्ग्जे पुमान् ॥ ४७८ ॥
19.478 · p. 35
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
प्रभिन्नोनेकतां प्राप्ते गजे जातमदे तथा ।नालिकेरे हलधरे लाङ्गली जननं कुले ॥ ४७९ ॥
19.479 · p. 35
अनुष्टुप्
जन्मन्यम्बा च जननी वृद्धौ छेदे च वर्धनम् ।अर्जुनौ वृक्षभित्पार्थौ तृणे क्लीवेर्जुनी गवि ॥ ४८० ॥
19.480 · p. 35
अनुष्टुप्
त्रिषु शुक्ले केतनं तु गृहे केतौ निमन्त्रणे ।आपन्न आपदं प्राप्ते प्राप्ते च स्यात्त्रिलिङ्गकः ॥ ४८१ ॥
19.481 · p. 35
अनुष्टुप्
देहवायौ समानो ना सत्तुल्यैकेषु तु त्रिषु ।व्योमयानं विमानोस्त्री सप्तभूमे च वेश्मनि ॥ ४८२ ॥
19.482 · p. 35
अनुष्टुप्
इन्द्रिये विषयि क्लीवे त्रिषु स्याद्विषयान्विते ।तपनोर्को नरकभित्प्राचीनं प्रान्ततो वृतिः ॥ ४८३ ॥
19.483 · p. 35
अनुष्टुप्
पाठायां स्त्री प्राग्भेवे त्रिष्विन्तर्द्वारे रहस्यपि ।प्रच्छन्नं छादिते गूढे त्रिष्वथ श्वसनो मरुत् ॥ ४८४ ॥
19.484 · p. 35
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 प्रा (wrong syllable)
श्वासुयुक्ते मरुवके पूतना तु हरीतकी ।भूतभेदे द्वयोर्लाला स्यन्दिनी निम्नगा तथा ॥ ४८५ ॥
19.485 · p. 35
अनुष्टुप्
द्राक्षायां गोस्तनी हारभेदे ना धमनी नडी ।सिराग्न्युद्दीपनं भाण्डं नडे नाथ नभोगतौ ॥ ४८६ ॥
19.486 · p. 35
अनुष्टुप्
कर्णीरथे च डयनं मार्जनी पांसुशोधनी ।उपस्पर्शोत्पुंसनयोः क्लीवे ना रोध्रपादपे ॥ ४८७ ॥
19.487 · p. 35
अनुष्टुप्
मार्जना वाद्यपिण्ड्यां स्यात्तत्परीक्षार्थवादने ।कुण्डली भुजगे बद्धकुण्डले तु भवेत्त्रिषु ॥ ४८८ ॥
19.488 · p. 36
अनुष्टुप्
त्रिषु शान्तो वराकश्च तपस्वी स्त्री तु मल्लकी ।संधिन्यकालदुग्धा गौर्वृषाक्रान्ता च हायनाः ॥ ४८९ ॥
19.489 · p. 36
अनुष्टुप्
वत्सरार्चिर्व्रीहिभेदाः क्रन्दने ध्वानरोदने ।विपत्तावशुभे भ्रंशे पानस्त्रीमृगयादिषु ॥ ४९० ॥
19.490 · p. 36
अनुष्टुप्
दैवानिष्टफले सक्तौ व्यसनं क्रोधदूषणे ।निवृत्तौ दापने सिद्धौ गतावनुगमे धने ॥ ४९१ ॥
19.491 · p. 36
अनुष्टुप्
उपायमृतसंस्कारवधमेढ्रेषु साधनम् ।अयनं पथि सूर्यस्याप्युदग्दक्षिणतो गतौ ॥ ४९२ ॥
19.492 · p. 36
अनुष्टुप्
पाकस्थाने कुलालस्य पवनं ना प्रभञ्जने ।सोमनिर्मथने स्त्राने सवनं यजने तथा ॥ ४९३ ॥
19.493 · p. 36
अनुष्टुप्
वामनो दिग्गजे विष्णौ निखर्वे भेद्यलिङ्गकः ।अन्तके शमनः क्लीवे वधेथ जघनं कटौ ॥ ४९४ ॥
19.494 · p. 36
अनुष्टुप्
पश्चादर्थे नितम्बाग्रे कौपीनं गर्ह्यगुह्ययोः ।पुमानक्षे जिघांसायां क्रीडायामपि देवनम् ॥ ४९५ ॥
19.495 · p. 36
अनुष्टुप्
मधूच्छिष्टे स्मरे वृक्षे वसन्ते मदनः पुमान् ।पिण्डीतके कपित्थे च धतूरे मदकारिणि ॥ ४९६ ॥
19.496 · p. 36
अनुष्टुप्
वेदनानुभवः पीडा यापने त्यागवर्तने ।कल्पना कर्तने कॢप्तावुद्देशे गजसज्जने ॥ ४९७ ॥
19.497 · p. 36
अनुष्टुप्
विकल्पे स्यादाकलने विधानेपि विभाजने ।समीरणः स्पर्शनः स्यात्क्लीवे तु स्पर्शदानयोः ॥ ४९८ ॥
19.498 · p. 36
अनुष्टुप्
हिंसात्मके सूचने च गन्धनं स्यात्प्रकाशने ।संतानः संततौ देववृक्षे चापत्यगोत्रयोः ॥ ४९९ ॥
19.499 · p. 36
अनुष्टुप्
स्तननं कुत्सिते ध्वाने देवशब्देथ सज्जना ।न नेभसज्जीकरणे त्रिषु साधौ नपुंसकम् ॥ ५०० ॥
19.500 · p. 36
अनुष्टुप्
पटगुल्मे चेतना धीः पुंसि प्राणिनि तेजनी ।मूर्वा शाणोपलस्तेजोवती वेणौ शरे पुमान् ॥ ५०१ ॥
19.501 · p. 36
अनुष्टुप्
स्पृक्कायां पिशुना दुष्टे सूचके त्रिषु वेष्टनम् ।उष्णीषे मुकुटे चाथ शकुनी पक्षिणि द्वयोः ॥ ५०२ ॥
19.502 · p. 37
अनुष्टुप्
शुभशंसिनिमित्ते तु क्लीवेथ वृजिनः कचे ।चर्मकिल्विषयोः क्लीवे भूतात्मा धातृदेहयोः ॥ ५०३ ॥
19.503 · p. 37
अनुष्टुप्
संस्थानमाकृतौ मृत्यौ संनिवेशे चतुष्पथे ।समाप्तौ च विभक्ते च विच्छिन्नं त्रिष्वथासनम् ॥ ५०४ ॥
19.504 · p. 37
अनुष्टुप्
करिस्कन्धे च पीठे च मलिनं समलैनसोः ।आराधनं साधने स्यात्तोषणोपासयोरपि ॥ ५०५ ॥
19.505 · p. 37
अनुष्टुप्
अधिष्ठानं चक्रपुरप्रभावाध्यासनेष्वपि ।आतञ्चनं प्रतीवापे जवनाप्यायने तथा ॥ ५०६ ॥
19.506 · p. 37
अनुष्टुप्
आस्कन्दने रणाक्रान्ती शोषणप्रापणे तथा ।सूर्यवह्नी चित्रभानू मूर्खनीचौ पृथग्जनौ ॥ ५०७ ॥
19.507 · p. 37
अनुष्टुप्
कुलेप्यभिजनो जन्मभूम्यां चाथ समापनम् ।वधेन्ते चापदानं तु खण्डनेद्भुतकर्मणि ॥ ५०८ ॥
19.508 · p. 37
अनुष्टुप्
निर्वासनं मारणे स्यान्नगरादेर्बहिष्कृतौ ।शक्रघातुकमत्तेभवर्षुकाब्दा घनाघनाः ॥ ५०९ ॥
19.509 · p. 37
अनुष्टुप्
अभिमानोर्थादिदर्पे ज्ञाने प्रणयहिंसयोः ।स्यादावेशनमावेशे शालायामपि शिल्पिनाम् ॥ ५१० ॥
19.510 · p. 37
अनुष्टुप्
निसूदने निरसनं निष्कासे च विरोचनाः ।चन्द्राग्न्यर्का विश्वकर्मा मार्ताण्डसुरशिल्पिनोः ॥ ५११ ॥
19.511 · p. 37
अनुष्टुप्
निर्यातनं वैरशुद्धौ दाने न्यासार्पणेपि च ।अभिपन्नोपराद्धाभिग्रस्तव्यापद्गतद्रुताः ॥ ५१२ ॥
19.512 · p. 37
अनुष्टुप्
आच्छादनं संवननमपवारणमित्यपि ।आयोधनं निघातः स्याद्युद्धं चाथ सनातनम् ॥ ५१३ ॥
19.513 · p. 37
अनुष्टुप्
नित्ये त्रिषु पुमान्विष्णौ स्तनयित्नुर्बलाहके ।तद्ध्वनौ च महासेनो गुहे सेनापतावपि ॥ ५१४ ॥
19.514 · p. 37
अनुष्टुप्
ब्रह्मा कामश्चात्मयोनी पिञ्जे विहननं वधे ।संस्कारे प्रतियत्नः स्यादुपग्रहणलिप्सयोः ॥ ५१५ ॥
19.515 · p. 37
अनुष्टुप्
विपर्यस्तमपाचीनं त्रिषु क्लीवे त्वपागपि ।मेखलायां सारसनमुरस्त्रे च नपुंसकम् ॥ ५१६ ॥
19.516 · p. 38
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 सा (wrong syllable)
उत्पत्तिः स्यादुत्पतनमूर्ध्वंगमनमित्यपि ।ग्रहणे कलनायां च बन्धे चाकलनं वृतौ ॥ ५१७ ॥
19.517 · p. 38
अनुष्टुप्
विद्यात्प्रवचनं वेदे व्याख्याने सुवचस्यपि ।प्रतिमानं प्रतिच्छायागजदन्तान्तरालयोः ॥ ५१८ ॥
19.518 · p. 38
अनुष्टुप्
सामिधेनी त्वृक्समिधोरग्र्यजन्मा द्विजोग्रजः ।विनीते त्रिष्वनूचानः साङ्गे वेदे च पाठकः ॥ ५१९ ॥
19.519 · p. 38
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त्वृ (wrong syllable)
काषायवस्त्रार्धवृद्धा स्यात्कात्यायन्युमापि च ।दृष्टौ श्रुते निशमनं कार्यहेत्वोः प्रयोजनम् ॥ ५२० ॥
19.520 · p. 38
अनुष्टुप्
आवर्जनं दाननती तथा भ्रंशमनोहृती ।सम्मार्जनी शोधनी स्यात्क्लीवे क्षालनलेपने ॥ ५२१ ॥
19.521 · p. 38
अनुष्टुप्
संस्कृतौ क्षीरिकोत्कृष्टभोज्ये राजादनं भवेत् ।पियालेथोपधानं स्याद्दृष्टान्तप्रतिबिम्बयोः ॥ ५२२ ॥
19.522 · p. 38
अनुष्टुप्
गण्डके चाथ कारम्भा विश्वक्सेना हरौ गणे ।पुमानथ क्रतुध्वंसी प्रोक्तः शर्वश्च दानवः ॥ ५२३ ॥
19.523 · p. 38
अनुष्टुप्
प्रसाधनी कङ्कतिका क्लीवे त्वाराधनार्जने ।मण्डनायां कृष्णवर्त्मा हव्यवाहनपापयोः ॥ ५२४ ॥
19.524 · p. 38
अनुष्टुप्
उपासनं शराभ्यासे नमस्यासेवयोर्न ना ।आम्रातके शिरीषे च प्लक्षे च स्यात्कपीतनः ॥ ५२५ ॥
19.525 · p. 38
अनुष्टुप्
उष्ट्राहितुण्डिकौ व्यालग्राहिणौ मातुलप्रिया ।मातुलानी तथा भङ्गा विषौषध्योः प्रदीपनः ॥ ५२६ ॥
19.526 · p. 38
अनुष्टुप्
बोधने प्रतिदाने च भवेत्तु प्रतिपादनम् ।कुङ्कुमे देववृक्षे च पुंसि वा हरिचन्दनम् ॥ ५२७ ॥
19.527 · p. 38
अनुष्टुप्
अन्तावसायी चण्डाले नापिते च द्विलिङ्गकः ।वधेतिसर्जनं दाने शुद्धौ त्यागेपमार्जनम् ॥ ५२८ ॥
19.528 · p. 38
अनुष्टुप्
स्यादुपस्पर्शनं स्पर्शे स्नानाचमनयोरपि ।विसर्जनीयाक्षरयोरभिनिष्टानमस्त्रियाम् ॥ ५२९ ॥
19.529 · p. 38
अनुष्टुप्
मेघवाहन इन्द्रः स्याद्वायुश्च शकुलादनी ।कटुका लाङ्गली च स्याद्धरिद्रा वरवर्णिनी ॥ ५३० ॥
19.530 · p. 39
अनुष्टुप्
नायिका च तपस्वी स्यात्सर्पश्च पवनाशनः ।प्रतिबिम्बे प्रतीकारे न पुंसि प्रतियातना ॥ ५३१ ॥
19.531 · p. 39
अनुष्टुप्
वेश्या नखौषधिर्हट्टविलासिन्यावपि स्मृते ।
19.96 · p. 39