कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Maṅkhakośa

मङ्खकोशः Maṅkhakośa

1,015 verses · text only, tagging comes next

टान्तवर्गः

मायानिश्चलयन्त्रेषु कैतवानृतराशिषु ।अयोघने शैलशृङ्गे साराङ्गे कूटमस्त्रियाम् ॥ १५६ ॥
10.156 · p. 12
अनुष्टुप्
क्लीवे हस्तिनखे घण्टा किङ्किणी पाटलिस्तरुः ।सूक्ष्मैलायां तुटिः स्त्री स्यात्कालेल्पे संशये तथा ॥ १५७ ॥
10.157 · p. 12
अनुष्टुप्
अर्त्यर्बुदाश्रयः कोट्यो मूले लग्नकचे जटा ।मांस्यां नटस्तु पत्तोर्णो नड्यां स्त्री नर्तके द्वयोः ॥ १५८ ॥
10.158 · p. 12
अनुष्टुप्
व्युष्टिः फले समृद्धौ च दृष्टिर्ज्ञानेक्ष्णि दर्शने ।इष्टिर्यागेच्छयोः स्पष्टं निश्चिते बहुनि त्रिषु ॥ १५९ ॥
10.159 · p. 12
अनुष्टुप्
शवे श्रोणौ कलिञ्जे च गजगण्डे भृशे कटः ।रसे कटुः कट्वकार्ये त्रिषु मत्सरतीक्ष्णयोः ॥ १६० ॥
10.160 · p. 12
अनुष्टुप्
चटुः पिचण्डे भूपादेरपि सद्गुणवर्णने ।कष्टे तु कृच्छ्रगहने कृष्टिः कर्षे बुधे तु ना ॥ १६१ ॥
10.161 · p. 12
अनुष्टुप्
देवशिल्पिनि तक्ष्ण्यर्के त्वष्टाथ चतुरेरुजि ।त्रिष्वगुरौ ना पटोले क्लीवं तु लवणे पटु ॥ १६२ ॥
10.162 · p. 12
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 गु (wrong syllable)
दिष्टं दैवे पुमान्काले कुटः कुम्भे गृहे द्वयोः ।अत्यर्थगृहयोरट्टः सिद्धान्ने च वणिक्पथे ॥ १६३ ॥
10.163 · p. 12
अनुष्टुप्
पोटा दासी द्विलिङ्गा च सृष्टिः सर्गस्वभावयोः ।पुटं व्याघ्रनखे जातीफले हस्तादिसंपुटे ॥ १६४ ॥
10.164 · p. 12
अनुष्टुप्
त्सरौ पणे पाणिबन्धे मुष्टिः पर्यन्तवस्त्रयोः ।पट्टो घट्टः शुल्कदेशे तरोपाये घटी द्वयोः ॥ १६५ ॥
10.165 · p. 12
अनुष्टुप्
भाण्डे गोष्ठ्यां हस्तिपङ्क्तौ घटनायां तथा घटा ।दिष्टिः स्यात्तु परीमाणभेद आनन्दने स्त्रीयाम् ॥ १६६ ॥
10.166 · p. 13
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 7 स्त्री (wrong syllable)
आजूवेतनयोर्विष्टिः करणे कर्मकृत्यपि ।अविस्पष्टे तु वचसि म्लिष्टं म्लाने त्रिलिङ्गकम् ॥ १६७ ॥
10.167 · p. 13
अनुष्टुप्
आशंसिते भवेदिष्टं यज्ञादौ दीयते च यत् ।वृष्टं स्यादैहिके वृष्टौ त्रिषु ज्ञातेवतारिते ॥ १६८ ॥
10.168 · p. 13
अनुष्टुप्
ग्रामभेदे मले खेटः कुत्सिते च भवेत्त्रिषु ।रिष्टं स्यादशुभे पापे घृष्टिर्घर्षे किरे तु ना ॥ १६९ ॥
10.169 · p. 13
अनुष्टुप्
वातवर्षप्रतिहते निस्मिते हर्षिते त्रिषु ।रोमाञ्चविषये क्लीवे हृष्टः केशेषु पुंस्ययम् ॥ १७० ॥
10.170 · p. 13
अनुष्टुप्
झाटामलक्यां गहने ना सटा सिंहकुन्तले ।जटायां स्वादु शुद्धं च क्षान्तं मृष्टं भवेत्त्रिषु ॥ १७१ ॥
10.171 · p. 13
अनुष्टुप्
शिष्टस्तु साधौ खसिते विहिते शिक्षिते त्रिषु ।त्रोटिः स्यात्पक्षिचञ्च्वां स्त्री द्विधाभावे च वस्तुषु ॥ १७२ ॥
10.172 · p. 13
अनुष्टुप्
अरिष्टमासवे तक्रे लक्षणे मृत्युसूचके ।सूतिगेहे चाप्यशुभे शुभे तद्वति तु त्रिषु ॥ १७३ ॥
10.173 · p. 13
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 चा (wrong syllable)
ना दैत्ये लशुने काके निम्बफेनिलवृक्षयोः ।सुवासिन्यां चिरण्टी स्याद् द्वितीयवयसि स्त्रियाम् ॥ १७४ ॥
10.174 · p. 13
अनुष्टुप्
परिचर्यान्वेषणयोः परीष्टिः स्त्री त्रिषूत्कटः ।प्रबले च प्रमत्ते च कृपीटमुदरे जले ॥ १७५ ॥
10.175 · p. 13
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 न्वे (wrong syllable)
विकटस्तु करालोर्वोरवटः कूपगर्तयोः ।त्रिषु प्रमत्ते करटः स्यात्तु काकेभगण्डयोः ॥ १७६ ॥
10.176 · p. 13
अनुष्टुप्
खाद्यप्रभेदे चिपिटस्तथा पिच्चितविस्तृते ।अज्ञानादर्शनासौम्याक्षिष्वदृष्टिरथ त्रिवृत् ॥ १७७ ॥
10.177 · p. 13
अनुष्टुप्
सूक्ष्मैला त्रिपुटा मर्कट्यपामार्गः करञ्जभित् ।कपिकच्छूर्द्वयोः प्राणीभगण्डद्वारपट्टयोः ॥ १७८ ॥
10.178 · p. 13
अनुष्टुप्
कवाटः स्यादथोच्छिष्टं भुक्तशेषे नपुंसके ।क्षते च वृक्षभेदस्तु पत्तोर्णाख्यः कुटन्नटः ॥ १७९ ॥
10.179 · p. 13
अनुष्टुप्
कुटन्नटा दाशपुरे शाकभेदे न पुंसि च ।देशानोकहयोर्भेदे करहाटोम्बुजाङ्कुरे ॥ १८० ॥
10.180 · p. 14
अनुष्टुप्
शिपविष्टस्तु खलतौ दुश्चर्मणि महेश्वरे ।प्रत्याख्याते प्रोषिते च प्रतिशिष्टास्त्रिलिङ्गकः ॥ १८१ ॥
10.181 · p. 14
अनुष्टुप्
तुलाकोटिर्मानभेदेर्बुदे स्यान्नूपुरे पुमान् ।
10.27 · p. 14