कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Maṅkhakośa

मङ्खकोशः Maṅkhakośa

1,015 verses · text only, tagging comes next

बान्तवर्गः

कम्बुर्ना वलये शङ्खे शालिधूलौ च मण्डले ॥ ५४७ ॥
22.547 · p. 40
बिम्बोस्त्री प्रतिबिम्बे ना क्लीवे स्वाद्बिम्बिकाफले ।पूर्बोन्यलिङ्गः प्रागाह पुंबहुत्वेपि पूर्बजान् ॥ ५४८ ॥
22.548 · p. 40
अनुष्टुप्
आद्यर्थे तु भवेत्क्लीवे डिम्बौ तु प्लीहविप्लवौ ।शम्बः स्यान्मुसलाग्रस्थे लोहे श्रेयोन्विते पवौ ॥ ५४९ ॥
22.549 · p. 40
अनुष्टुप्
कादम्बः सायकः पक्षी कदम्बः संहतौ द्रुमे ।द्विजिह्वः सर्पखलयोर्नितम्बोद्रितटे कटौ ॥ ५५० ॥
22.550 · p. 40
अनुष्टुप्
अन्तराभवसत्त्वेश्वे गन्धर्बो दिव्यगायने ।मृगभेदेथ हेरम्बो महिषे विघ्ननायके ॥ ५५१ ॥
22.551 · p. 40
अनुष्टुप्
संविभज्ये जने गेहे कुटुम्बं स्यान्नपुंसकम् ।
22.6 · p. 40