All kośas › Maṅkhakośa
मङ्खकोशः Maṅkhakośa
1,015 verses · text only, tagging comes next
चान्तवर्गः
दिग्देशकाले पूर्वादिभावे प्रागादयस्त्रिषु ।वल्कचर्मत्वचेषु त्वग्वाग्बाण्यां वाचकार्थयोः ॥ १३४ ॥
6.134 · p. 10
अनुष्टुप्
शुक्छोके व्यसने तापे रुक्स्याद्दीप्त्यभिलाषयोः ।श्मश्रुमर्मभिदोर्दम्भे केशभञ्जनभाजने ॥ १३५ ॥
6.135 · p. 10
अनुष्टुप्
कुविन्दभाण्डे कूर्चः स्याच्चित्रकृद्भाजने द्वयोः ।सौवर्णरसदाने स्त्री ताम्रादेः पावके शुचिः ॥ १३६ ॥
6.136 · p. 10
अनुष्टुप्
मास्यमात्ये चात्युपधे पुंसि मेध्ये सिते त्रिषु ।इच्छांशुसङ्गेषु रुचिः केशे शुक्रसुते कचः ॥ १३७ ॥
6.137 · p. 10
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 चा (wrong syllable)
अर्चे पूजाकृती काचाः शिक्यमृद्भेददृग्रुजः ।व्यधनेभिनये सूचा वीचिः स्वल्पतरंगयोः ॥ १३८ ॥
6.138 · p. 11
अनुष्टुप्
देवीस्थासकचिन्तासु चर्चा नीचमधोधमम् ।त्रिषूर्ध्वोत्कृष्टयोश्चोच्चः पिचुः स्यात्पायुतूलयोः ॥ १३९ ॥
6.139 · p. 11
अनुष्टुप्
मोचा कदल्यां ना वृक्षे चोचं पालेवते त्वचे ।देशमेखलयोः काञ्ची प्रपञ्चस्ततिमाययोः ॥ १४० ॥
6.140 · p. 11
अनुष्टुप्
संकोचं कुङ्कुमे क्लीवं ना विकासविपर्यये ।त्रिषूत्फुल्ले तु विकचो द्रव्यभेदे नपुंसकम् ॥ १४१ ॥
6.141 · p. 11
अनुष्टुप्