All kośas › Maṅkhakośa
मङ्खकोशः Maṅkhakośa
1,015 verses · text only, tagging comes next
घान्तवर्गः
वृन्दाम्बुवेगयोरोघो दुःखांहोव्यसनेष्वघम् ।स्त्री स्पृक्काल्पेष्टाश्वसारे लघु त्रिष्वगुरौ तु ना ॥ १३१ ॥
5.131 · p. 10
अनुष्टुप्
मूल्ये पूजाविधावर्घो द्रव्ये तदुपकारके ।आयुधार्गलघातेषु परिघः प्रतिघः पुनः ॥ १३२ ॥
5.132 · p. 10
अनुष्टुप्
द्वेषे शत्रावथ ग्रीष्मे निदाघः स्वेदतापयोः ।तापके त्रिष्वथामोघा विडङ्गं पाटला तथा ॥ १३३ ॥
5.133 · p. 10
अनुष्टुप्