कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Maṅkhakośa

मङ्खकोशः Maṅkhakośa

1,015 verses · text only, tagging comes next

तान्तवर्गः

सत्सत्येभ्यर्हिते साधौ विद्यमानप्रशस्तयोः ।त्रिषु स्त्रियां दक्षपुत्र्यां भृती भरणवेतने ॥ २५८ ॥
15.258 · p. 19
अनुष्टुप्
धतूरे ना त्रिषु प्राज्ञे धूर्तो वञ्चकदीव्यतोः ।खातं वाप्यां रोपिते स्याद्वाच्यलिङ्गं विदारिते ॥ २५९ ॥
15.259 · p. 19
अनुष्टुप्
सेतुर्ना वृक्षभित्सीमा तरणोपाय एव च ।लता प्रियङ्गुर्वीरुच्च ज्योतिष्मत्यपि शारिवा ॥ २६० ॥
15.260 · p. 19
अनुष्टुप्
हारादिसरिकायां च व्रततावतिमुक्तके ।प्रसक्तासादितौ प्राप्तावाप्तौ संप्राप्तबान्धवौ ॥ २६१ ॥
15.261 · p. 19
अनुष्टुप्
अविसंवादकः पक्षी पतन्गच्छंल्लुठन्नधः ।यन्ता हस्तिपके सूते भर्तारौ पतिधारकौ ॥ २६२ ॥
15.262 · p. 19
अनुष्टुप्
यानपात्रे शिशौ पोतः प्रेतः सत्त्वान्तरे मृते ।निर्वाणे मोचने मुक्तिर्युक्तौ शिलष्टसमञ्जसौ ॥ २६३ ॥
15.263 · p. 19
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
वह्नित्रये युगे त्रेता लिप्ता कालेञ्जिते त्रिषु ।ग्रहभेदे ध्वजे केतुः पार्थिवे तनये सुतः ॥ २६४ ॥
15.264 · p. 20
अनुष्टुप्
क्षत्ता स्यात्सारथौ द्वाःस्थे क्षत्रियायां च शूद्रजे ।श्लेष्मादिरस्थिरक्तादि महाभूतानि तद्गुणाः ॥ २६५ ॥
15.265 · p. 20
अनुष्टुप्
इन्द्रियाण्यश्मविकृतिः शब्दयोनिश्च धातवः ।कासूसामर्थ्ययोः शक्तिर्मूर्तिः काठिन्यकाययोः ॥ २६६ ॥
15.266 · p. 20
अनुष्टुप्
अर्तिः पीडाधनुष्कोट्योः सातिर्दानावसानयोः ।उदयेधिगमे प्राप्तिरीतिर्डिम्बप्रवासयोः ॥ २६७ ॥
15.267 · p. 20
अनुष्टुप्
रवेरर्चिश्च शस्त्रं च वह्निज्वाला च हेतयः ।त्यक्तकम्पितयोर्धूतं भूतिर्भस्मसुधर्द्धयः ॥ २६८ ॥
15.268 · p. 20
अनुष्टुप्
श्रुतिः श्रवसि वेदे च स्वरांशे श्रवणे स्त्रियाम् ।श्रुतं शास्त्रावधृतयोर्युगपर्याप्तयोः कृतम् ॥ २६९ ॥
15.269 · p. 20
अनुष्टुप्
निःसारारोग्ययोर्वार्त्तं नीरुग्वृत्तिमतोस्त्रिषु ।वार्त्ताकवर्तनोदन्तपाशुपाल्यादिषु स्त्रियाम् ॥ २७० ॥
15.270 · p. 20
अनुष्टुप्
वृत्तमध्ययने पद्ये चरित्रे वर्तने मृते ।अल्पाशये त्रिलिङ्गः स्यादतीते निस्तले दृढे ॥ २७१ ॥
15.271 · p. 20
अनुष्टुप्
प्रियङ्गुयोषितोः कान्ता त्रिषु प्रियमनोज्ञयोः ।जातिश्छन्दसि सामान्ये मालतीगोत्रजन्मसु ॥ २७२ ॥
15.272 · p. 20
अनुष्टुप्
काव्यालंकारभेदे च स्वभावे च स्त्रियामयम् ।सेनाविशेषे पत्तिः स्री गतौ च पदगे पुमान् ॥ २७३ ॥
15.273 · p. 20
अनुष्टुप्
वैदर्भ्यादावारकूटे प्रचारस्यन्दयोस्तथा ।मर्यादायां च रीतिः स्त्री रूप्ये श्वेतं सिते त्रिषु ॥ २७४ ॥
15.274 · p. 20
अनुष्टुप्
श्वेता स्त्री सूर्यभार्यायां राजभेदे पुमानयम् ।शर्कराभित्सिता शुक्ले बद्धावसितयोस्त्रिषु ॥ २७५ ॥
15.275 · p. 20
अनुष्टुप्
छन्दोविशेषः पङ्क्तिः स्त्री दशसंख्यावलिस्तथा ।क्षये निवासे मेदिन्यां क्षितिः कान्तिप्रभे द्युती ॥ २७६ ॥
15.276 · p. 20
अनुष्टुप्
त्रिषु प्राप्ते विस्तृते च ततं वाद्ये नपुंसकम् ।ब्राह्मण्यां क्षत्रियात्सूतस्त्रिषु क्लीवं तु पारते ॥ २७७ ॥
15.277 · p. 20
अनुष्टुप्
रथकारे सारथौ ना वन्दिन्याज्याम्बुनोर्घृतम् ।मानभेदे प्रशंसायां हस्तः करभभेदयोः ॥ २७८ ॥
15.278 · p. 21
अनुष्टुप्
असाराश्वगजे शान्ते वीतमङ्कुशकर्मणि ।सांख्यसाधर्म्यहेतौ च विगतच्छन्नयोस्त्रिषु ॥ २७९ ॥
15.279 · p. 21
अनुष्टुप्
लुप्तवर्णपदं ग्रस्तं त्रिषु ग्रासीकृते तथा ।तिक्ता स्यात्कटुरोहिण्यां शुभगन्धे रसे त्रिषु ॥ २८० ॥
15.280 · p. 21
अनुष्टुप्
नतं नितम्बे तगरे कुटिलेधःकृते त्रिषु ।जन्तौ क्ष्मादौ पिशाचादौ भूतं न्याय्योपमानयोः ॥ २८१ ॥
15.281 · p. 21
अनुष्टुप्
प्राप्ते त्रिषु युतं युक्ते वियुक्ते च तथा त्रिषु ।गुप्तिः कारा च रक्षा च दीर्णे च विवरं भुवः ॥ २८२ ॥
15.282 · p. 21
अनुष्टुप्
मूर्छाले कठिने मूर्तो वस्तिर्वस्त्राञ्चले द्वयोः ।अपानमार्गे तत्कर्मण्यश्वप्रस्रवणे तथा ॥ २८३ ॥
15.283 · p. 21
अनुष्टुप्
लूता तु स्यादूर्णनाभे व्याधिभेदे पिपीलके ।रतिः स्मरकलत्रे स्याद्रताभिष्वङ्गयोरपि ॥ २८४ ॥
15.284 · p. 21
अनुष्टुप्
चित्तावस्थानशृङ्गारभावकामफलेष्वपि ।वित्तं स्याद्द्रविणे हेम्नि त्रिषु ख्याते विचारिते ॥ २८५ ॥
15.285 · p. 21
अनुष्टुप्
धूपे दीपशिखायां च वर्तिर्गात्रानुलेपने ।आलेख्यभाण्डे दीपस्य दशायां चक्षुरञ्जने ॥ २८६ ॥
15.286 · p. 21
अनुष्टुप्
प्राप्तिसंबन्धयोराप्तिर्गमने पद्धतौ सृतिः ।वर्तने विवृतौ वृत्तिः कैशिक्यादौ मनस्कृतौ ॥ २८७ ॥
15.287 · p. 21
अनुष्टुप्
काव्याङ्गे कामभार्यायां प्रीतिः प्रेमप्रमोदयोः ।पक्तिः पाके व्यवहृतौ वीतिर्याने तुरंगमे ॥ २८८ ॥
15.288 · p. 21
अनुष्टुप्
विच्छित्तौ सेवने भक्तिर्भित्तिः कुडयप्रदेशयोः ।चितिश्चित्सङ्गचित्यासु द्रुतं शीघ्रविलीनयोः ॥ २८९ ॥
15.289 · p. 21
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 कुड (syllable split)
दन्तौ रदाद्रिकटकौ मृत्युयाचितयोर्मृतम् ।जातं जन्म प्रकारश्च त्रिषु संपन्नपुत्रयोः ॥ २९० ॥
15.290 · p. 21
अनुष्टुप्
व्यक्तं स्फुटे बुधे व्यक्तः शिती शारासितौ त्रिषु ।यतिर्विरामव्रतिनोरूतिः स्यात्स्यूतिरक्षयोः ॥ २९१ ॥
15.291 · p. 21
अनुष्टुप्
स्थित ऊर्ध्वे वर्तमाने प्रतिष्ठावति च त्रिषु ।कुङ्कुमे क्षतजे रक्तं सरागारुणयोस्त्रिषु ॥ २९२ ॥
15.292 · p. 22
अनुष्टुप्
मत्तः करी मदकलो मदेनाव्यक्तवाक्त्रिषु ।अवस्थायां गतिर्यात्राधीनतोपायवर्त्मसु ॥ २९३ ॥
15.293 · p. 22
अनुष्टुप्
शुक्तं स्यात्परुषेम्ब्ले च ग्रीष्मादौ स्त्रीरजस्यृतुः ।विनाशान्तिकयोरन्तः स्वरूपेंशावसानयोः ॥ २९४ ॥
15.294 · p. 22
अनुष्टुप्
माता गौर्जननी देव्यो रेवत्याद्या बहुस्त्रियाम् ।मर्यादायां स्थितिः स्थाने भास्वद्दीप्तविवस्वतोः ॥ २९५ ॥
15.295 · p. 22
अनुष्टुप्
भूभृद्भूमिधरे भूपे स्यादर्हञ्जिनपूज्ययोः ।सूर्याश्वेषु हरित्पुंसि नीले त्रिषु दिशि स्त्रियाम् ॥ २९६ ॥
15.296 · p. 22
अनुष्टुप्
महद्राज्ये सांख्यबुद्धौ न स्त्री बृहति तु त्रिषु ।छन्दोभिज्जगती भूश्च जगज्जङ्गमलोकयोः ॥ २९७ ॥
15.297 · p. 22
अनुष्टुप्
समित्सभासंगरयोः पित्सन्पातेच्छुपक्षिणोः ।क्लीवे बिन्दौ पृषन्ना तु हरिणे पृषतोनयोः ॥ २९८ ॥
15.298 · p. 22
अनुष्टुप्
हल्या भूर्जानकी सीते एतौ शारासितौ त्रिषु ।धाता ब्रह्मा च धर्ता च क्षिप्तेस्तः पश्चिमाचले ॥ २९९ ॥
15.299 · p. 22
अनुष्टुप्
गुणे शीतं त्रिषु तद्वन्ना श्लेष्मातकवेतसौ ।यातरो भ्रातृजायाः स्युर्गतिशीले भवेत्त्रिषु ॥ ३०० ॥
15.300 · p. 22
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 षु (wrong syllable)
मुक्तास्फोटे हयावर्ते शुक्तिर्माननखौषधी ।पूतः पवित्रे निःशूके धारिते सुस्थिते धृतम् ॥ ३०१ ॥
15.301 · p. 22
अनुष्टुप्
शान्तिः शमे निर्वृतौ च तथा कुशलकर्मणि ।संक्रान्ताक्रान्तयोः क्रान्तो मरुतौ पवनामरौ ॥ ३०२ ॥
15.302 · p. 22
अनुष्टुप्
देवसूर्यौ विवस्वन्तौ सरस्वन्तौ नदार्णवौ ।पक्षितार्क्ष्यौ गरुत्मन्तौ शकुन्तौ भासपक्षिणौ ॥ ३०३ ॥
15.303 · p. 22
अनुष्टुप्
स्थपतिः कञ्चुकी तक्षा बृहस्पतिसवेष्टवान् ।जातहर्षे प्रतिहते रोमाञ्चिविषये तथा ॥ ३०४ ॥
15.304 · p. 22
अनुष्टुप्
विस्मिते हृषितः स्थात्त्रिष्वमृतं मोक्षवारिणोः ।अयाचिते यज्ञशेषे देवान्नसुधयोरपि ॥ ३०५ ॥
15.305 · p. 22
अनुष्टुप्
दुरालभामलक्योः स्त्री गुडूचीपथ्ययोस्तथा ।परस्यां वाच्यर्करश्मिसमाधानभिदोस्तथा ॥ ३०६ ॥
15.306 · p. 23
अनुष्टुप्
दूर्वादुरालभाभूमिष्वनन्ता क्लीवमम्बरे ।पुमान्नागाधिपे विष्णावनाशेनवधौ त्रिषु ॥ ३०७ ॥
15.307 · p. 23
अनुष्टुप्
प्रियं सत्यं च वचनं कल्याणमपि सूनृतम् ।कृतान्तो यमसिद्धान्तदैवाकुशलकर्मसु ॥ ३०८ ॥
15.308 · p. 23
अनुष्टुप्
वृत्तान्तः स्यात्प्रकरणे कार्त्स्न्ये वार्त्ताप्रकारयोः ।निवातावाश्रयावातौ शस्त्राभेद्यं च वर्म यत् ॥ ३०९ ॥
15.309 · p. 23
अनुष्टुप्
जातोन्नद्धप्रवृद्धाः स्युरुच्छ्रिता उत्थितास्त्वमी ।वृद्धिमत्प्रोद्गतोत्पन्ना आदृतौ सादरार्चितौ ॥ ३१० ॥
15.310 · p. 23
अनुष्टुप्
विवक्तौ पूतविजनौ मूर्छितौ मूढसोच्छ्रयौ ।प्रख्यातज्ञातहृष्टेषु प्रतीतं त्रिषु संस्कृतम् ॥ ३११ ॥
15.311 · p. 23
अनुष्टुप्
कृत्रिमे लक्षणोपेते पिण्डितं गुणिते घने ।वनिता जनितात्यर्थानुरागा स्त्र्यङ्गनापि च ॥ ३१२ ॥
15.312 · p. 23
अनुष्टुप्
पलितं जरसा शौक्ल्यं केशादेः कर्दमं तथा ।समञ्जसे स्यादुचितमभ्यस्ते च त्रिलिङ्गकम् ॥ ३१३ ॥
15.313 · p. 23
अनुष्टुप्
कुङ्कुमे शोणिते क्लीवमरुणे त्रिषु लोहितम् ।शक्ते निवारिते पूर्णे पर्याप्तं त्रिष्वपीप्सिते ॥ ३१४ ॥
15.314 · p. 23
अनुष्टुप्
आनर्तः समरे नृत्तस्थाननीवृद्विशेषयोः ।मिथ्योक्तावाहतं क्लीवे ताडिते गुणिते त्रिषु ॥ ३१५ ॥
15.315 · p. 23
अनुष्टुप्
आचितः स्यात्त्रिषु व्याप्ते पलानामयुतद्वये ।दुर्जातं व्यसनेसम्यग्जातवस्तुनि तु त्रिषु ॥ ३१६ ॥
15.316 · p. 23
अनुष्टुप्
त्रिष्वव्यक्तमस्फुटे स्यात्पुमांस्तु परमात्मनि ।त्रिषु प्रणीतो विहिते संस्कृतेग्नौ प्रवेशिते ॥ ३१७ ॥
15.317 · p. 23
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 क्त (wrong syllable)
विप्रलब्धे विप्रकृते निकृतस्त्रिष्वथोद्धृतम् ।भुक्तोज्झिते तोलिते च सुकृतं शुभपुण्ययोः ॥ ३१८ ॥
15.318 · p. 23
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 वि (wrong syllable)
आयस्तं लेशितोत्क्षिप्ते कोपिते तेजिते त्रिषु ।निरस्तं त्रिष्वधिक्षिप्ते त्यक्ते च त्वरितोदिते ॥ ३१९ ॥
15.319 · p. 23
अनुष्टुप्
विश्वास्ये त्रिषु विश्वस्तो विधवायां पुनः स्त्रियाम् ।लिङ्गे स्वभावे प्रकृतिर्धात्वमात्यादियोनिषु ॥ ३२० ॥
15.320 · p. 24
अनुष्टुप्
सभासंगतियुद्धेषु समितिर्निर्वृतिः पुनः ।स्वस्थतायामस्तमये निकृतिः शठशाठ्ययोः ॥ ३२१ ॥
15.321 · p. 24
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 म (wrong syllable)
दुर्गतिर्नरके दौस्थ्ये पद्धतिः पङ्क्तिवर्त्मनोः ।काये रूपे चाकृतिः स्यात्प्रसूतिर्जन्मपुत्रयोः ॥ ३२२ ॥
15.322 · p. 24
अनुष्टुप्
वसतिः स्थितियामिन्योः प्रवृत्तिर्वृत्तिवार्त्तयोः ।ऋक्षे लाङ्गलिदारेषु रेवत्याख्यापि मातृषु ॥ ३२३ ॥
15.323 · p. 24
अनुष्टुप्
स्तिमितेतरलक्लिन्ने निशान्तं गेहशान्तयोः ।अनृते कुकृतासत्ये वाशिता करिणीस्त्रियोः ॥ ३२४ ॥
15.324 · p. 24
अनुष्टुप्
उदितावुद्गतप्रोक्तावर्दितं पीडितेर्थिते ।द्विजातिर्विहगे विप्रे जीवातुर्जायुजीवयोः ॥ ३२५ ॥
15.325 · p. 24
अनुष्टुप्
निमित्तं लक्षणे हेतौ जीमूतौ मेघपर्वतौ ।देवताडद्रुरुत्तप्तं शुष्कमांसं वितापितम् ॥ ३२६ ॥
15.326 · p. 24
अनुष्टुप्
सिकता वालुकायां च देशे च सिकतान्विते ।विस्तारवल्ल्योर्व्रततिः कलितं विदितात्तयोः ॥ ३२७ ॥
15.327 · p. 24
अनुष्टुप्
संख्याते तुलिते क्षिप्ते शब्दिते च भवेत्त्रिषु ।वृहती क्षुद्रवार्ताकी छन्दोभेदे महत्यपि ॥ ३२८ ॥
15.328 · p. 24
अनुष्टुप्
गर्जितं स्तनितेभ्राणां पुंसि स्यान्मत्तकुञ्जरे ।प्रार्थितं प्रार्थनालभ्येभियुक्ते सान्त्विते त्रिषु ॥ ३२९ ॥
15.329 · p. 24
अनुष्टुप्
विततं प्रस्तुते व्याप्ते विस्तृते च भवेचिषु ।परंपरायां पुत्रे च विस्तारेपि च संततिः ॥ ३३० ॥
15.330 · p. 24
अनुष्टुप्
सम्मतिः स्यादनुज्ञानमभिलाषोपि च स्त्रियाम् ।रूप्ये हारे च रजतं शुक्ले स्याद्वाच्यलिङ्गकः ॥ ३३१ ॥
15.331 · p. 24
अनुष्टुप्
पारावते कपोतः स्याद्विहगान्तरवर्णयोः ।संवित्तिः प्रतिपत्तिः स्याद्व्यवस्था चाविवादिता ॥ ३३२ ॥
15.332 · p. 24
अनुष्टुप्
ऋज्विन्द्रास्त्रं रोहितं ना मत्स्यभिद्यरुणे त्रिषु ।प्रतिपत्पक्षतिः पक्षमूलं च द्वीपवान्नदे ॥ ३३३ ॥
15.333 · p. 24
अनुष्टुप्
अब्धौ नदी स्त्री दृष्टान्त उदाहरणशास्त्रयोः ।स्यादायतिर्दीर्घतायां प्रतापागामिकालयोः ॥ ३३४ ॥
15.334 · p. 25
अनुष्टुप्
विधूतः कम्पिते त्यक्ते नियती दैवसंयमौ ।बीभत्से विकृतोस्वस्थे चाप्लुतः स्नातमात्रके ॥ ३३५ ॥
15.335 · p. 25
अनुष्टुप्
स्नातके चाप्यथोद्घात आरम्भे स्खलिते तथा ।पाणिर्निकुब्जः प्रसृतः स्त्री जङ्घा विस्तृते त्रिषु ॥ ३३६ ॥
15.336 · p. 25
अनुष्टुप्
दान्ते ककुद्मान्स्त्री कट्यां परेतो दूरगे मृते ।दैवतं देवता देवाः सरस्वन्तौ नदार्णवौ ॥ ३३७ ॥
15.337 · p. 25
अनुष्टुप्
मारजिच्छंकरे बुद्धे शान्तेथ भगवाञ्जिने ।पूज्ये द्वयोरथोन्मत्तो धतूरे मादिनि त्रिषु ॥ ३३८ ॥
15.338 · p. 25
अनुष्टुप्
निर्ऋती यमदिक्पालौ स्त्र्यलक्ष्मीराक्षसाम्बयोः ।आवर्तो रोमभेदेम्भोभ्रमे पठनरूपयोः ॥ ३३९ ॥
15.339 · p. 25
अनुष्टुप्
एकयोक्त्या पुष्पवन्तौ दिवाकरनिशाकरौ ।रजस्वला पुष्पवती माल्यधारिणि तु त्रिषु ॥ ३४० ॥
15.340 · p. 25
अनुष्टुप्
विवृतः कोशनिष्कृष्टे व्याकृतेपि प्रकाशिते ।विकासिते वर्णपाठधर्मे च सुशिरे तथा ॥ ३४१ ॥
15.341 · p. 25
अनुष्टुप्
एषां भावे तु विवृतिः स्थगितासत्यभूतयोः ।वर्णपाठगुणे गुप्ते संवृतो विवृतेतरे ॥ ३४२ ॥
15.342 · p. 25
अनुष्टुप्
एषां भावे संवृतिः स्यादेकान्तो निश्चयो रहः ।गुणैकदेशयोरव्यभिचारिणि च पुंस्ययम् ॥ ३४३ ॥
15.343 · p. 25
अनुष्टुप्
प्रत्यन्तौ म्लेच्छदेशान्तौ देव्यौषधिविशेषयोः ।जयन्तीन्द्रात्मजे पुंसि स्त्र्यास्फोता गिरिकर्णिका ॥ ३४४ ॥
15.344 · p. 25
अनुष्टुप्
गिरिपर्णी शारिवा च भवेदर्कतरौ पुमान् ।साक्षात्कृतोत्पादितयोराश्वस्ते भवितं त्रिषु ॥ ३४५ ॥
15.345 · p. 25
अनुष्टुप्
भक्तवासितयोश्चाथाहृतमानीतभुक्तयोः ।परावृत्ते च लुठितं भ्रष्टे त्रिषु पदाच्च्युते ॥ ३४६ ॥
15.346 · p. 25
अनुष्टुप्
तिरोहिते स्रुते भुक्ते पतिते गलितं त्रिषु ।छन्दोविशेषे गलिता निर्मुक्तो मुक्तकञ्चुके ॥ ३४७ ॥
15.347 · p. 25
अनुष्टुप्
त्यक्ते निर्ग्रन्थिके वाच्यलिङ्गो वस्तुमती भुवि ।त्रिषु स्फीते चित्रकरे चित्रकृद्वञ्जुले तथा ॥ ३४८ ॥
15.348 · p. 26
अनुष्टुप्
पर्याप्तिः पूर्णताशक्त्योर्गुडूचीशाकभेदयोः ।जीवन्ती स्याद्वृक्षरुहा विनीतः शिक्षिते हये ॥ ३४९ ॥
15.349 · p. 26
अनुष्टुप्
सप्रश्रये निरस्ते च त्रिष्वथो यज्ञसूत्रके ।कण्ठालम्बे प्रावृत्ते च निवीतं वाच्यलिङ्गकम् ॥ ३५० ॥
15.350 · p. 26
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 प्रा (wrong syllable)
स्वकर्महीने पतितो गते भ्रष्टेपि च त्रिषु ।यवे स्यादक्षतः पुंसि क्षत्यभावे त्रिलिङ्गकः ॥ ३५१ ॥
15.351 · p. 26
अनुष्टुप्
कलधौतं रूप्यहेम्नोर्विष्णौ लक्ष्मीपतिर्नृपे ।अग्रेकृताभ्यर्चितयोर्भवेत्त्रिषु पुरस्कृतः ॥ ३५२ ॥
15.352 · p. 26
अनुष्टुप्
दुष्टे त्रिष्ववगीतं स्यान्निर्वादे गर्हितेपि च ।अभिनीतं संस्कृते च प्रापितेमर्षवत्यपि ॥ ३५३ ॥
15.353 · p. 26
अनुष्टुप्
प्रतिस्खलितविद्विष्टौ त्रिषु प्रतिहतावपि ।सुकुमारेभिजातं स्यात्कुलीनबुधयोस्त्रिषु ॥ ३५४ ॥
15.354 · p. 26
अनुष्टुप्
नन्द्यावर्त ऋद्धवेश्मप्रकारे तगरद्रुमे ।स्त्रियामपचितिर्हानौ निष्कृतावर्चने व्यये ॥ ३५५ ॥
15.355 · p. 26
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 र्त (wrong syllable)
अत्याहितं महाभीतिर्जीवे च निरपेक्षता ।समाहितं समाधिस्थे तथा दत्तोत्तरे त्रिषु ॥ ३५६ ॥
15.356 · p. 26
अनुष्टुप्
उपाहितोनलोत्पाते भवेदारोपिते त्रिषु ।उपस्थितः प्रतीहारे द्वारभेदे समाश्रिते ॥ ३५७ ॥
15.357 · p. 26
अनुष्टुप्
वाच्यलिङ्गो निन्दिते स्यादवध्वस्तोवचूर्णिते ।अवसानं गते ज्ञाते निश्चितेवसितस्त्रिषु ॥ ३५८ ॥
15.358 · p. 26
अनुष्टुप्
विजृम्भितं विकसिते चेष्टायां प्रसृते त्रिषु ।विज्ञाते वेष्टिते प्राप्ते भवेत्परिगतस्त्रिषु ॥ ३५९ ॥
15.359 · p. 26
अनुष्टुप्
मध्यप्राप्तं विस्मृतं च भवेदन्तर्गतं त्रिषु ।अवदातः सिते पीते विशुद्धे वाच्यलिङ्गकः ॥ ३६० ॥
15.360 · p. 26
अनुष्टुप्
निराकृते प्रेषिते च प्रतिक्षिप्तं त्रिलिङ्गकम् ।ऊर्ध्वाहिते भर्त्सिते त्रिष्वधिक्षिप्तो विनिन्दिते ॥ ३६१ ॥
15.361 · p. 26
अनुष्टुप्
नागानां नगरीनद्यौ भोगवत्यौ शतक्रतोः ।चाप ऋज्वायते न स्त्री गजे त्वैरावतः पुमान् ॥ ३६२ ॥
15.362 · p. 27
अनुष्टुप्
अस्वाध्याये पुमान्स्त्री तु प्रत्यादेशे निराकृतिः ।प्रतिमायां प्रतीकारे भवेत्प्रतिकृतिः स्त्रियाम् ॥ ३६३ ॥
15.363 · p. 27
अनुष्टुप्
अभिशापप्रार्थनयोरभिशस्तिः स्तुतावपि ।जनंगमो दिवाकीर्तिर्नापितश्च भवेद्द्वयोः ॥ ३६४ ॥
15.364 · p. 27
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 प्रा (wrong syllable)
प्रागल्भ्यगौरवारम्भाप्तिबोधाः प्रतिपत्तयः ।अग्न्युत्पातौ धूमकेतू वचा गौरी च काञ्चनी ॥ ३६५ ॥
15.365 · p. 27
अनुष्टुप्
गङ्गा हरीतकी हैमवत्यस्तज्जादिषु त्रिषु ।वैजयन्ती पताका स्यात्तर्कारी च यमो मनुः ॥ ३६६ ॥
15.366 · p. 27
अनुष्टुप्
सौरः कर्णो रविसुतः सुग्रीवश्च निपातितः ।मारितः साधितश्च स्याद्देवखातं ह्रदो गुहा ॥ ३६७ ॥
15.367 · p. 27
अनुष्टुप्
प्रजावती भ्रातृजाया प्रजायुक्ते भवेत्त्रिषु ।स्पृक्का भूमिश्च कार्पासी समुद्रान्ता दुरालभा ॥ ३६८ ॥
15.368 · p. 27
अनुष्टुप्
राहुग्रस्तार्कशशिनोर्व्यसनार्तात्तरागयोः ।उपरक्तोवगमितेपास्तनिद्रे प्रबोधितः ॥ ३६९ ॥
15.369 · p. 27
अनुष्टुप्
समाघातो वधे युद्धे प्रहारेथ विहंगमे ।पातेच्छौ स्यात्पिपतिषंस्त्रिषु न्यस्ते समाहिते ॥ ३७० ॥
15.370 · p. 27
अनुष्टुप्
त्रिषु प्रणिहितं न्यासे समाधौ च नपुंसकम् ।सक्ताक्षिप्तावभियुक्तौ भूपाले क्षत्रिये तथा ॥ ३७१ ॥
15.371 · p. 27
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 भि (wrong syllable)
मूर्धाभिषिक्तोथाम्भोधौ वरुणे यादसांपतिः ।समन्तादुच्यमाने स्यान्नियमे परिभाषितम् ॥ ३७२ ॥
15.372 · p. 27
अनुष्टुप्