All kośas › Maṅkhakośa
मङ्खकोशः Maṅkhakośa
1,015 verses · text only, tagging comes next
वान्तवर्गः
स्वो ज्ञातावात्मनि स्वं त्रिष्वात्मीये स्वोस्त्रियां धने ।स्वर्गेन्तरिक्षे च द्यौः स्त्री शैले मेषे रवावविः ॥ ८५२ ॥
28.852 · p. 62
अनुष्टुप्
दवदावौ वनारण्यवह्नी जन्महरौ भवौ ।कल्याणप्राप्तिसंसारसत्ताश्चाथाध्वरो हवः ॥ ८५३ ॥
28.853 · p. 62
अनुष्टुप्
आज्ञाह्वाने चाथ योषित्पतिः शाखी नरो धवः ।भावः सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु ॥ ८५४ ॥
28.854 · p. 62
अनुष्टुप्
क्रियासुरतसंवेगलीलातात्पर्यवस्तुषु ।स्थायिसात्त्विकसंचारिविभावेषु च पूज्यवत् ॥ ८५५ ॥
28.855 · p. 62
अनुष्टुप्
शब्दप्रवृत्तिहेतौ च योन्यैश्वर्योदयेषु च ।ध्रुवा भभित्स्थाणुकीला निश्चले शाश्वते त्रिषु ॥ ८५६ ॥
28.856 · p. 62
अनुष्टुप्
सत्यनिश्चितयोः क्लीवे गीतिस्रुग्भेदयोः स्त्रियाम् ।सालपर्ण्यां क्षवस्तु स्यादासुर्यी क्षवथौ तथा ॥ ८५७ ॥
28.857 · p. 62
अनुष्टुप्
अभयामलकी गौरी शमी क्रोष्टा शिवा पुमान् ।हरे कीले च कल्याणे क्लीवे तद्वति तु त्रिषु ॥ ८५८ ॥
28.858 · p. 62
अनुष्टुप्
पक्वं विनाशाभिमुखं तथा परिणते त्रिषु ।रहस्ये कलहे दुःखे द्वंद्वं मिथुनयुग्मयोः ॥ ८५९ ॥
28.859 · p. 62
अनुष्टुप्
क्लीवो नपुंसके शण्डे दैन्ययुक्ते जने त्रिषु ।वक्रोपायश्चान्तिकं च पार्श्वं कुक्ष्यङ्गभित्तथा ॥ ८६० ॥
28.860 · p. 62
अनुष्टुप्
ज्या जीवा जीविते न स्त्री पुमाञ्जन्तौ बृहस्पतौ ।अत्यध्वगोतिप्रणतः प्राध्वः क्लीवे तु बन्धने ॥ ८६१ ॥
28.861 · p. 62
अनुष्टुप्
उशनाः काव्यकृद्विद्वान्कविर्नाश्वाङ्गगा कवी ।केलौ स्रवे द्रवो-पे छेदेल्पे च कणे लवः ॥ ८६२ ॥
28.862 · p. 62
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
विश्वं जगच्च शुण्ठी च सर्वस्मिन्वाच्यलिङ्गकः ।स्त्रियां प्रतिविषायां च पुंबहुत्वे च देवभित् ॥ ८६३ ॥
28.863 · p. 62
अनुष्टुप्
स्त्रीकटीवस्त्रबन्धे स्यान्नीविः परिपणे स्त्रियाम् ।आयव्ययविशुद्धे च धने कारागृहे तथा ॥ ८६४ ॥
28.864 · p. 62
अनुष्टुप्
मनः सत्यत्वात्मभावे पिशाचादौ गुणे बले ।द्रव्यासुव्यवसायेषु सत्त्वमस्त्री तु जन्तुषु ॥ ८६५ ॥
28.865 · p. 62
अनुष्टुप्
क्रमनिम्ने भुवो भागे भेकपक्षिभिदोः प्लवः ।प्लवनोडुपवचण्डालेष्वोषधौ स्यान्नपुंसकम् ॥ ८६६ ॥
28.866 · p. 63
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
देवी मूर्वा द्वयो राजतत्स्त्रियोर्दैवते तथा ।मन्त्री सहायः सचिवौ प्रभवः स्थानमूलयोः ॥ ८६७ ॥
28.867 · p. 63
अनुष्टुप्
स्यादुत्पादे फले पुष्पे प्रसवो गर्भमोचने ।अपत्येप्यथाविश्वासे निकृतौ चापि निह्नवः ॥ ८६८ ॥
28.868 · p. 63
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 था (wrong syllable)
अपलापेप्यथाधारानतिरेके च संभवः ।जन्मोपपत्तिसंघेषु गाण्डीवं गाण्डिवं तथा ॥ ८६९ ॥
28.869 · p. 63
अनुष्टुप्
जिष्णोर्धनुषि कोदण्डे वैशाखे माधवो हरौ ।वसन्ते चाथ राजीवो मृगभिन्मीनभेदयोः ॥ ८७० ॥
28.870 · p. 63
अनुष्टुप्
क्लीवे पद्मेथ वडवा स्त्रीविशेषो हयी तथा ।कुम्भदासी पल्लवोस्त्री विटपे क्षेत्रपत्त्रयोः ॥ ८७१ ॥
28.871 · p. 63
अनुष्टुप्
वस्त्रैकदेशे रहसि सैन्धवो लवणाश्वयोः ।अभावौ निधनासत्ते व्याजे द्यूते च कैतवम् ॥ ८७२ ॥
28.872 · p. 63
अनुष्टुप्
उत्सेकामर्षयोरिच्छाप्रसरे मह उत्सवः ।विप्रौर्वाश्वा वाडवाः स्युर्वल्लवो गोपसूदयोः ॥ ८७३ ॥
28.873 · p. 63
अनुष्टुप्
विप्लवौ रणनिर्बाधावुत्सवो यदुरुद्धवः ।धतूरे ना वञ्चकस्तु कितवो द्यूतकृत्त्रिषु ॥ ८७४ ॥
28.874 · p. 63
अनुष्टुप्
सामुद्रलवणेक्षीवो महानिम्बे च गन्धके ।नील्यां त्रिषु निरुन्मादे कारवी कृण्णजीरके ॥ ८७५ ॥
28.875 · p. 63
अनुष्टुप्
हिङ्गुपर्ण्यां प्रसेवस्तु भस्त्रादौ ककुभे तथा ।कैरवं जलजेरौ ना देवरागभिदोर्द्वयोः ॥ ८७६ ॥
28.876 · p. 63
अनुष्टुप्
भैरवी त्रिषु भीमे स्याद्गन्धर्वो मृगदेवभित् ।ऐरण्डाश्वौ गायनश्च राहूत्पातावुपप्लवौ ॥ ८७७ ॥
28.877 · p. 63
अनुष्टुप्
अनाश्वासोपलापश्च स्नेहश्च स्यादपह्नवः ।अनुभावः प्रभावे च सतां च मतिनिश्चये ॥ ८७८ ॥
28.878 · p. 63
अनुष्टुप्
सवने मद्यसंधाने स्नाने चाभिषवः पुमान् ।क्लीवे पारशवं शस्त्रे वर्णभेदे त्रिलिङ्गकम् ॥ ८७९ ॥
28.879 · p. 63
अनुष्टुप्