All kośas › Maṅkhakośa
मङ्खकोशः Maṅkhakośa
1,015 verses · text only, tagging comes next
ढान्तवर्गः
शक्तस्थूलौ त्रिषु दृढौ व्यूढौ विन्यस्तसंहतौ ।जडतन्द्रितयोर्मूढो रूढोङ्कुरितलग्नयोः ॥ २०३ ॥
13.203 · p. 15
अनुष्टुप्
भृशप्रतिज्ञयोर्बाढं लीढं स्वादितम्लिष्टयोः ।गाढौ विलोडितदृढावूढौ धृतविवाहीतौ ॥ २०४ ॥
13.204 · p. 15
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 5 त (wrong syllable); pāda 4, syllable 7 ही (wrong syllable)
उदूढावूढपृथुलावुद्गाढं भृशकृच्छ्रयोः ।उपोढमूढमात्रे स्यात्समासन्नेपि च त्रिषु ॥ २०५ ॥
13.205 · p. 15
अनुष्टुप्
आषाढो व्रतिनां दण्डे मासभूधरभेदयोः ।शिलष्टस्पृष्टास्वादिते त्रिष्वालीढं चापभृत्स्थितौ ॥ २०६ ॥
13.206 · p. 15
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
अतिक्रमेत्यूर्ध्वगमे चात्यारूढं नपुंसकम् ।अध्यारूढः सहेवाके त्रिषु पृष्ठगते तथा ॥ २०७ ॥
13.207 · p. 15
अनुष्टुप्