कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Maṅkhakośa

मङ्खकोशः Maṅkhakośa

1,015 verses · text only, tagging comes next

ठान्तवर्गः

पुंसि कोष्ठोन्तर्जठरं कुसूलोन्तर्गृहं तथा ॥ १८२ ॥
11.182 · p. 14
दिक्कालोत्कर्षमर्यादाः काष्ठाः क्लीवे तु दारुणि ।समीपगलशब्देषु कण्ठोथर्क्षभिदि स्त्रियाम् ॥ १८३ ॥
11.183 · p. 14
अनुष्टुप्
मासभेदे पुमाञ्ज्येष्ठस्त्रिषु वृद्धप्रशस्ययोः ।गोस्थानाङ्गनयोर्गोष्ठं कुष्ठमोषधिरोगयोः ॥ १८४ ॥
11.184 · p. 14
अनुष्टुप्
निष्ठा निष्पत्तिनाशान्ताः पार्ष्णिगप्रसभौ हठौ ।पाठः पुमानध्ययने स्त्रियां स्यादोषधीभिदि ॥ १८५ ॥
11.185 · p. 14
अनुष्टुप्
देशभेदे महादेवे श्रीकण्ठः संकरोद्भवे ।अम्बष्ठो यूथिकापाठाचाङ्गेरीषु स्त्रियां भवेत् ॥ १८६ ॥
11.186 · p. 14
अनुष्टुप्
प्रतिष्ठास्पदमर्यादादेवादिस्थापनेष्वथ ।अतिविस्तीर्णवरयोर्वरिष्ठं स्यात्त्रिलिङ्गकम् ॥ १८७ ॥
11.187 · p. 14
अनुष्टुप्
कमठौ मानभित्कूर्मौ कनिष्ठातियुवाल्पयोः ।नीलकण्ठः शिवो वर्ही कलकण्ठौ सुवाक्पिकौ ॥ १८८ ॥
11.188 · p. 14
अनुष्टुप्
चाङ्गेरी स्याद्दन्तशठा ना जम्बीरकपित्थयोः ।
11.8 · p. 14