All kośas › Maṅkhakośa
मङ्खकोशः Maṅkhakośa
1,015 verses · text only, tagging comes next
ञान्तवर्गः
ज्ञः सौम्ये त्रिषु सूरौ त्रिष्वज्ञौ मूर्खेर्भके द्वयोः ।ज्ञे प्राज्ञस्त्रिषु धीः प्रज्ञा संज्ञाश्चिन्नामसूचनाः ॥ १५४ ॥
9.154 · p. 12
अनुष्टुप्
शिवबुद्धौ तु सर्वज्ञौ दोषज्ञा वैद्यवित्खलाः ।पुंस्यात्मनि प्रवीणे तु क्षेत्रज्ञो वाच्यलिङ्गकः ॥ १५५ ॥
9.155 · p. 12
अनुष्टुप्