All kośas › Maṅkhakośa
मङ्खकोशः Maṅkhakośa
1,015 verses · text only, tagging comes next
दान्तवर्गः
हृन्मनोवक्षसोः क्लीवे स्त्री भिद्दारणभेदयोः ।वन्दी तु पणबन्धः स्यान्नारी चापि हठाहृता ॥ ३८४ ॥
17.384 · p. 28
अनुष्टुप्
व्यवसाये परित्राणे स्थाने वस्त्त्रपदेशयोः ।पादतन्मुद्रयोश्चिह्ने पदं न्यासेक्षशब्दयोः ॥ ३८५ ॥
17.385 · p. 28
अनुष्टुप्
पादा रश्म्यङ्घ्रितुर्यांश ऋगंशाद्र्यन्तपर्वताः ।वृक्षमूलं चाथ संवित्संकेते ज्ञानकालयोः ॥ ३८६ ॥
17.386 · p. 28
अनुष्टुप्
संभाषणे क्रियाकारे प्रतिज्ञाचारनामसु ।दृशन्निष्पेषणशिला शिला चाथ विदारणे ॥ ३८७ ॥
17.387 · p. 28
अनुष्टुप्
उपजापे विशेषे च भेदः स्यात्तु गदो हरेः ।भ्राता व्याधिश्चायुधे तु स्त्री संपच्छ्रीस्तथोच्छ्रयः ॥ ३८८ ॥
17.388 · p. 28
अनुष्टुप्
मूलसूरणयोः कन्दः पर्णौष्ठगरुतश्छदाः ।ह्रदस्तोयाशयः स्रोतो बिन्दुर्वेदितृविप्रुषोः ॥ ३८९ ॥
17.389 · p. 28
अनुष्टुप्
दन्तक्षतेर्थप्रकृतौ शून्ये भ्रूमध्यतेजसि ।त्रिष्विष्टमधुरौ स्वादू मृदू चातीक्ष्णकोमलौ ॥ ३९० ॥
17.390 · p. 29
अनुष्टुप्
अभिप्रायवशौ छन्दावब्दौ जीमूतवत्सरौ ।घर्मस्वेदनयोः स्वेदः सात्त्विके भावभिद्यपि ॥ ३९१ ॥
17.391 · p. 29
अनुष्टुप्
छेदो विरामे खण्डे च शादो जम्बालशष्पयोः ।विमर्दचूर्णयोः क्षोदो नादः स्यात्प्राणशब्दयोः ॥ ३९२ ॥
17.392 · p. 29
अनुष्टुप्
स्त्री शरद्वत्सरर्त्वोः स्यात्क्रव्यान्मांसाशिरक्षसोः ।सूदः सूपे सूपकरे देशे चोषरभूमिके ॥ ३९३ ॥
17.393 · p. 29
अनुष्टुप्
भ्रमे भवेत्पुमान्कुन्दः पुष्पभेदे नपुंसकम् ।मन्दोपटौ शनैरर्थे मूढे च त्रिषु पुंसि तु ॥ ३९४ ॥
17.394 · p. 29
अनुष्टुप्
सौरेभजात्योः स्यात्क्षैव्ये गर्वे हर्षेबदानयोः ।मदो मद्ये राजलिङ्गे पृष्ठाङ्गश्रेष्ठयोः ककुत् ॥ ३९५ ॥
17.395 · p. 29
अनुष्टुप्
दायादौ बान्धवसुतावामोदो हर्षगन्धयोः ।निषादो लुब्धके गीतस्वरे संकरजन्मनि ॥ ३९६ ॥
17.396 · p. 29
अनुष्टुप्
प्रधाने राजलिङ्गे च पृष्ठाङ्गे ककुदोस्त्रियाम् ।मर्यादा धारणासीम्नोर्विषदो व्यक्तशुक्लयोः ॥ ३९७ ॥
17.397 · p. 29
अनुष्टुप्
गोष्ठाध्यक्षे च विष्णौ च गोविन्दः कपिनागयोः ।कुमुदो जलजे क्लीवं कुसूदं वृद्धिजीवने ॥ ३९८ ॥
17.398 · p. 29
अनुष्टुप्
कुसेवके त्रिषु ज्ञाने तिथौ च प्रतिपत्स्त्रियाम् ।स्यात्प्रसादोनुग्रहेपि नैर्मल्यप्रीतिदानयोः ॥ ३९९ ॥
17.399 · p. 29
अनुष्टुप्
सारावे रुदिते त्रातर्याक्रन्दो दारुणे रणे ।पश्चाद्राजविशेषे च गोष्पदे मानसेविते ॥ ४०० ॥
17.400 · p. 29
अनुष्टुप्
त्रिष्वधृष्टे नवे शुद्धे शारदोपि शरद्भवे ।अस्त्री संवत्सरे सप्तपर्णे ना शारदी पुनः ॥ ४०१ ॥
17.401 · p. 29
अनुष्टुप्
लाङ्गली शारदा देवी कुविन्दौ भ्रमिवायकौ ।प्रमदा तरुणी ना तु हर्षेधिकमदे त्रिषु ॥ ४०२ ॥
17.402 · p. 29
अनुष्टुप्
धर्मे रहस्युपनिषद्वेदान्ते च शतह्रदा ।विद्युद्भेदे विद्युति च वह्नीन्द्वर्कास्तमोनुदाः ॥ ४०३ ॥
17.403 · p. 29
अनुष्टुप्
मर्यादासहितेभ्यर्णे समर्यादं त्रिलिङ्गकम् ।अववादौ तु निन्दाज्ञे देशे जनपदो जने ॥ ४०४ ॥
17.404 · p. 30
अनुष्टुप्
गङ्गा विष्णुपदी क्लीवे हर्यङ्घ्र्याकाशविष्टपे ।अभिमर्दौ युद्धपीडे धृष्टो ज्ञश्च विशारदः ॥ ४०५ ॥
17.405 · p. 30
अनुष्टुप्
त्रिषु कोकनदं रक्तकुमुदे रक्तवारिजे ।निर्वादे वादनोपाये परिवादोथ हेमनि ॥ ४०६ ॥
17.406 · p. 30
अनुष्टुप्
अष्टापदं शारिफले स्त्रियां तु पशुगर्भिणी ।अपवादस्तु गर्हायां बाधके बाधनेपि च ॥ ४०७ ॥
17.407 · p. 30
अनुष्टुप्