कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Maṅkhakośa

मङ्खकोशः Maṅkhakośa

1,015 verses · text only, tagging comes next

भान्तवर्गः

नक्षत्रे भं प्रभायां स्त्री कुम्भी स्यात्कट्फले द्वयोः ॥ ५५२ ॥
23.552 · p. 40
जलादिभाण्डे ना हस्तिकटराशिभिदोस्तथा ।सावष्टम्भे ग्रहे कुम्भा शंभुरर्हन्विधिः शिवः ॥ ५५३ ॥
23.553 · p. 40
अनुष्टुप्
विभुः स्वामी व्यापकश्च डिम्भौ तु शिशुवालिशौ ।स्तम्भाः स्थूणागर्वभावाः स्वभूर्गोविन्दवेधसोः ॥ ५५४ ॥
23.554 · p. 40
अनुष्टुप्
कुक्षिभ्रूणाशया गर्भा बालकाभ्यन्तरेपि च ।जृम्भा विकासे प्रसरे व्यादाने वदनस्य तु ॥ ५५५ ॥
23.555 · p. 40
अनुष्टुप्
त्रिषु गात्रविरामेजे शुभो भद्रे नपुंसकम् ।क्षत्रिये विजिगीषौ च ना प्राण्यवयवे पुनः ॥ ५५६ ॥
23.556 · p. 40
अनुष्टुप्
नाभिः स्त्री चक्रमध्येपि निभो व्याजे समे त्रिषु ।संसद्गोष्ठ्योर्गृहे द्यूते सभा जम्भो रयेशने ॥ ५५७ ॥
23.557 · p. 40
अनुष्टुप्
दैत्यभेदे मुखे शक्तस्वामिनोस्तु प्रभुस्त्रिषु ।रम्भाप्सरोभित्कदली दण्डे स्याद्वैणवे पुमान् ॥ ५५८ ॥
23.558 · p. 41
अनुष्टुप्
वीणाप्रसेवे ककुभो गेयभेदेर्जुनद्रुमे ।गीतस्वरे वलीवर्दे श्रेष्ठे च ऋषभः पुमान् ॥ ५५९ ॥
23.559 · p. 41
अनुष्टुप्
कनिष्ठामणिबन्धान्तरोष्ट्रयोः करभोथ गौः ।सुरभिः स्री काभधेनुः सल्लकी चैलवालुकी ॥ ५६० ॥
23.560 · p. 41
अनुष्टुप्
सुरायां स्यात्सुगन्धौ तु मनोज्ञे त्रिषु ना मधौ ।ना भेर्यां दुन्दुभिः स्त्री स्यादक्षबिन्दुत्रिकद्वये ॥ ५६१ ॥
23.561 · p. 41
अनुष्टुप्
स्यान्महारजने क्लीवे कुसुम्भं करके पुमान् ।पुनर्नवायां वर्षाभूः स्त्री वर्षाभ्वी द्वयोः प्लवे ॥ ५६२ ॥
23.562 · p. 41
अनुष्टुप्
विस्तारे प्रतिबिम्बे च विष्कम्भो नाटकांशके ।वल्लभो दयितेध्यक्षे हये च प्रणये पुनः ॥ ५६३ ॥
23.563 · p. 41
अनुष्टुप्
स्यादाश्वासे च विस्रम्भो वृषभो द्रव्यभिद्गवोः ।आलम्भौ स्पर्शनवधावारम्भौ तु क्रमोद्यमौ ॥ ५६४ ॥
23.564 · p. 41
अनुष्टुप्
जनाभ्यन्तरयोः पुंसि विदर्भस्त्रिषु निष्कुशे ।विप्रलम्भो विसंवादो विरहो वञ्चना तथा ॥ ५६५ ॥
23.565 · p. 41
अनुष्टुप्