कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Maṅkhakośa

मङ्खकोशः Maṅkhakośa

1,015 verses · text only, tagging comes next

शान्तवर्गः

द्वौ विशौ वैश्यमनुजौ संततौ स्त्री जने बहु ।दृग्बुद्धौ दर्शनोक्ष्णि स्त्री दिगुपाये निदर्शने ॥ ८८० ॥
29.880 · p. 64
अनुष्टुप्
मार्गे ककुभि च स्त्री स्याद्द्वौ चराभिसरौ स्पशौ ।द्वौ राशी पुञ्जमेषाद्यौ लब्धव्ये गणिते च ना ॥ ८८१ ॥
29.881 · p. 64
अनुष्टुप्
ईशो महेश्वरः स्वामी पृष्ठ्यास्थ्यस्यादिमध्यभूः ।वंशोन्वयः समूहश्च काण्डं वेणुरथो दशा ॥ ८८२ ॥
29.882 · p. 64
अनुष्टुप्
अवस्था वर्तिरन्ते तु वाससो भूमनि स्त्रियाम् ।कुशा वल्गा कुशी फालो दर्भेस्त्री क्लीवमम्बुनि ॥ ८८३ ॥
29.883 · p. 64
अनुष्टुप्
निधनानुपलम्भौ तु नाशौ क्लीवे पलायने ।पशुर्मृगादौ छगले दर्शनार्थे तदव्ययम् ॥ ८८४ ॥
29.884 · p. 64
अनुष्टुप्
रुजायां स्पर्शके स्पर्शो दानस्पर्शनयोरपि ।आशा ककुभि तृष्णायां दर्शः सूर्येन्दुसंगमे ॥ ८८५ ॥
29.885 · p. 64
अनुष्टुप्
कृष्णपक्षान्तयागे च पाशोक्षे बन्धने तथा ।रज्ज्वादिवलयच्छिद्रे प्रशस्ते तु सपूर्वकः ॥ ८८६ ॥
29.886 · p. 64
अनुष्टुप्
त्रिष्वायत्ते यन्त्रणेच्छा प्रभावः प्रभुता वशः ।शुन्यां वेश्यावन्ध्यगवीस्त्रीकरेणुषु तु स्त्रियाम् ॥ ८८७ ॥
29.887 · p. 64
अनुष्टुप्
पेश्यां धने तद्नृहे च चषके पट्टयोनिषु ।दिव्ये च कोशः पुष्पादिकुट्मलासिपिधानयोः ॥ ८८८ ॥
29.888 · p. 64
अनुष्टुप्
कायावृतौ द्वयोः पद्मकर्णिकायां समाश्रये ।वेश्यानां वेश आकल्पे दुःस्पर्शा कण्टकारिका ॥ ८८९ ॥
29.889 · p. 64
अनुष्टुप्
यवाशे पुंसि परुषे निर्दये च भवेत्त्रिषु ।रहःप्रकाशौ वीकाशौ निर्वेशो भृतिभोगयोः ॥ ८९० ॥
29.890 · p. 64
अनुष्टुप्
प्रसरे चाथ निर्देश आज्ञायां कथने तथा ।कृतान्ते पुंसि कीनाशः क्षुद्रकार्षकयोस्त्रिषु ॥ ८९१ ॥
29.891 · p. 64
अनुष्टुप्
राक्षसे किंशुके पर्णे पलाशो हरिते त्रिषु ।शटीपर्णे भवेत्क्लीवमभींशुः प्रग्रहे करे ॥ ८९२ ॥
29.892 · p. 64
अनुष्टुप्
विवशः स्यादवश्यादौ त्रिलिङ्गोनिष्टदुष्टधीः ।कर्कशः स्यात्साहसिके दुःस्पर्शे कठिनेदये ॥ ८९३ ॥
29.893 · p. 64
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त्सा (wrong syllable)
कम्पिल्ये च प्रदेशस्तु मानभित्स्थानभेदयोः ।वागीशो देवताभेदे ना जीवे हयमूर्धनि ॥ ८९४ ॥
29.894 · p. 65
अनुष्टुप्
ब्रह्मणि ज्ञे त्रिषु भवेत्कलशोस्त्री त्वपां निधौ ।दधिमन्थनकुम्भ्यां च कलशी कलशिः स्त्रियौ ॥ ८९५ ॥
29.895 · p. 65
अनुष्टुप्
निवेशौ शिविरोद्वाहौ वालिशौ मूर्खशावकौ ।त्रिषु स्फुटे प्रसिद्धे च प्रकाशो भासि पुंस्ययम् ॥ ८९६ ॥
29.896 · p. 65
अनुष्टुप्
संध्यङ्गभिद्विमर्शो ना स्यात्परामर्शबाधयोः ।निस्त्रिंशोसौ त्रिषु क्रूरे नगेशोद्रिपतौ शिवे ॥ ८९७ ॥
29.897 · p. 65
अनुष्टुप्
भूमिस्पृशो नरा वैश्या व्यपदेशोभिधा छलम् ।अपदेशौ व्याजहेतू जीवितेशौ यमप्रियौ ॥ ८९८ ॥
29.898 · p. 65
अनुष्टुप्
वार्त्ताहरे सहाये च पुरोगे च प्रतिष्कशः ।पतने स्यादपभ्रंशो भाषाभेदापशब्दयोः ॥ ८९९ ॥
29.899 · p. 65
अनुष्टुप्