कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Maṅkhakośa

मङ्खकोशः Maṅkhakośa

1,015 verses · text only, tagging comes next

रेफान्तवर्गः

राः स्वर्णधनयोः श्रीस्तु शोभालक्ष्मीसमृद्धिषु ।प्रशंसायां पुरे पूः स्याद्गृहे काये स्त्रियामथ ॥ ६७१ ॥
26.671 · p. 49
अनुष्टुप्
धू रथावयवे स्त्री स्यात्तथा वोढव्यमात्रके ।द्रुर्द्रुमे विटपे शौरी नारायणशनैश्चरौ ॥ ६७२ ॥
26.672 · p. 49
अनुष्टुप्
उरुर्महांस्त्रिषु स्त्री भूश्चीरी स्याज्झिल्लिका मृगे ।ना क्लीवे व्रतिनां वस्त्रे वारः काले क्रमे चये ॥ ६७३ ॥
26.673 · p. 49
अनुष्टुप्
छत्त्रौषधावातपत्रे क्लीवे पादे नखौषधौ ।खुरः शरो नडे बाणे दधिसारेथ वायसे ॥ ६७४ ॥
26.674 · p. 49
अनुष्टुप्
वाल्यर्जुनजयन्तेषु स्यादैन्द्रिरथ राक्षसे ।रुरुश्चित्रमृगे गुन्द्रा प्रियङ्गुः सैरिकैरका ॥ ६७५ ॥
26.675 · p. 49
अनुष्टुप्
अक्षमालाग्रफलके मेरुः सुरगिरौ तथा ।अम्ब्लवेतसवृक्षाम्ब्लाम्ब्लाश्चुक्रास्त्रिषु तद्रसे ॥ ६७६ ॥
26.676 · p. 49
अनुष्टुप्
रोमच्छेदककाण्डेक्षू क्षुरौ तीक्ष्णे भवेत्त्रिषु ।शब्दोपतापिनोर्वर्णे षड्जोदात्तादिषु स्वरः ॥ ६७७ ॥
26.677 · p. 49
अनुष्टुप्
गौर्यजातरजाः कन्या पार्वती त्रिषु पाण्डुनि ।पीतेरुणे च राष्ट्रोस्त्री विषये स्यादुपद्रवे ॥ ६७८ ॥
26.678 · p. 49
अनुष्टुप्
मित्रं सुहृदि पुंस्यर्के मरू धन्वधराधरौ ।अद्रयो द्रुमशैलार्काः कारुः कारकशिल्पिनोः ॥ ६७९ ॥
26.679 · p. 49
अनुष्टुप्
गोत्रा भूर्गोसमूहश्च नाद्रौ क्लीवेभिधाकुले ।तिलकालेख्याद्भुतेषु चित्रं त्रिषु तु कर्बुरे ॥ ६८० ॥
26.680 · p. 49
अनुष्टुप्
सुभद्रौषधिभेषु स्त्री क्षेत्रं पत्नीशरीरयोः ।गणितव्यवहारे च तीर्थे केदारयोग्ययोः ॥ ६८१ ॥
26.681 · p. 49
अनुष्टुप्
ज्यैष्ठेग्नौ भार्गवे शुक्रः क्लीवे रेतोक्षिरोगयोः ।गुरुः संस्कारके पुंसि पित्रादौ सुरमन्त्रिणि ॥ ६८२ ॥
26.682 · p. 49
अनुष्टुप्
दुर्जरालघुनोः स्थूल आराध्ये च त्रिलिङ्गकः ।त्रिषु क्षुद्रोल्पकृपणक्रूरगर्ह्येष्वपि स्त्रियाम् ॥ ६८३ ॥
26.683 · p. 49
अनुष्टुप्
व्यङ्गा नटी शीलहीना सरघा कण्टकारिका ।वरो विवाह्ये देवादेः प्रार्थिते स्वीकृतौ गवि ॥ ६८४ ॥
26.684 · p. 50
अनुष्टुप्
श्रेष्ठे त्रिष्वोषधौ स्त्री स्यान्मनागिष्टेव्ययं पुनः ।क्लीवे च कुङ्कुमे पारी पात्रं पारा नदीभिदि ॥ ६८५ ॥
26.685 · p. 50
अनुष्टुप्
तीरात्तीरान्तरे क्लीवं समाप्तौ सर्वसंग्रहे ।तन्त्रं प्रधाने सिद्धान्ते तन्तुवाने परिच्छदे ॥ ६८६ ॥
26.686 · p. 50
अनुष्टुप्
आयत्तश्लेषशास्त्रोक्तप्रक्रियाशब्दसिद्धिषु ।स्वमण्डलादिचिन्तायामौषधादावुपस्करे ॥ ६८७ ॥
26.687 · p. 50
अनुष्टुप्
वीणादीनां गुणे नाड्यां तन्त्री स्यादात्मनः पृथक् ।युक्तश्च दूरश्रेष्ठारिपूर्वान्या भेद्यवत्पराः ॥ ६८८ ॥
26.688 · p. 50
अनुष्टुप्
शारोनिले द्यूतभाण्डे त्रिषु वर्णे तु कर्बुरे ।गर्तदूषणयोश्छिद्रं रन्ध्रं च विवरं तथा ॥ ६८९ ॥
26.689 · p. 50
अनुष्टुप्
मुक्ताशुद्धौ स्वरेत्युच्चे स्यात्तारः शुद्धमौक्तिके ।देवीभनेत्रमध्ये स्त्री क्लीवे रूप्ये त्रिषूद्भटे ॥ ६९० ॥
26.690 · p. 50
अनुष्टुप्
अश्र्युत्कर्षाम्बुवेगाश्वगतिभेदेषु संततौ ।अग्रस्कन्धे तु सैन्यस्य धारोस्रोंशौ गवि द्वयोः ॥ ६९१ ॥
26.691 · p. 50
अनुष्टुप्
दम्भराष्ट्रायुध -- चक्रं सेनारथाङ्गयोः ।पुटभेदे चये शिल्पिभाण्डे चक्राह्वये पुमान् ॥ ६९२ ॥
26.692 · p. 50
अनुष्टुप्metre not read in every line
परिच्छदाल्पमानेषु धने कर्णविभूषणे ।तालाङ्गेप्यक्षरांशे स्त्री मात्रं कार्त्स्न्येवधारणे ॥ ६९३ ॥
26.693 · p. 50
अनुष्टुप्
यमानिलेन्द्रचन्द्रार्कविष्णुसिंहांशुवाजिषु ।शुक्राहिकपिभेकेषु हरिर्ना कपिले त्रिषु ॥ ६९४ ॥
26.694 · p. 50
अनुष्टुप्
पुरोधिकमुपर्यग्रं भिक्षाभेदप्रधानयोः ।गजाग्रजङ्घयोः शक्तौ गात्रमङ्गे कलेवरे ॥ ६९५ ॥
26.695 · p. 50
अनुष्टुप्
उग्रः शूद्रासुते क्षत्रादुत्कटे त्रिषु ना शिवे ।दीक्षितस्याधिदैवे च व्याघ्री प्राण्योषधी द्वयोः ॥ ६९६ ॥
26.696 · p. 50
अनुष्टुप्
नागानां जननी कद्रूः कद्रुस्तु त्रिषु पिङ्गले ।विपुले नकुलेग्नौ च बभ्रुः स्यात्पिङ्गले त्रिषु ॥ ६९७ ॥
26.697 · p. 50
अनुष्टुप्
नेत्रं पट्टे मन्थगुणे तरुमूले विलोचने ।वस्तिनाड्यां चाथ पोत्रं मुखाग्रे हलकोलयोः ॥ ६९८ ॥
26.698 · p. 51
अनुष्टुप्
जरा रुग्भङ्गयोरस्री वप्रः प्राकाररोधसोः ।केदारे सीसके स्वर्णे क्लीवे पितरि ना पुनः ॥ ६९९ ॥
26.699 · p. 51
अनुष्टुप्
स्नुह्योषधौ विद्युति च वज्रोस्त्री हीरके पवौ ।स्नुह्यां सक्तास्रुणोरस्रं पुंसि केशे दरो भये ॥ ७०० ॥
26.700 · p. 51
अनुष्टुप्
गर्ते दरी गुहाल्पार्थे त्वव्ययं पर्वते धरः ।धरा भूमावथ क्रूरो नृशंसे कठिने तथा ॥ ७०१ ॥
26.701 · p. 51
अनुष्टुप्
भयंकरे चाथ सत्त्रं यज्ञेरण्ये च साधने ।सदादाने च दम्भे च धनाच्छादनयोरपि ॥ ७०२ ॥
26.702 · p. 51
अनुष्टुप्
धारार्तिकोणेष्वश्रिः स्त्री कारा बन्धे च तद्गृहे ।राजग्राह्ये पुमान्भागेथाङ्घ्रिः पादद्रुमूलयोः ॥ ७०३ ॥
26.703 · p. 51
अनुष्टुप्
करिणां बन्धनोर्व्यां स्त्री वारिस्तोये नपुंसकम् ।सारं न्याय्ये वस्तुनि च पुमान्मज्ज्ञि स्थिरे बले ॥ ७०४ ॥
26.704 · p. 51
अनुष्टुप्
त्रिषूत्कृष्टे वस्तुनि तु दुर्वहेतिशयान्विते ।वीवधे द्विसहस्रे च पलानां भार इक्षुभित् ॥ ७०५ ॥
26.705 · p. 51
अनुष्टुप्
चित्रकं देशभेदश्च पुण्ड्रः पत्त्रं तु वाहने ।पर्णे पक्षे चाथ धात्री स्तनदा क्ष्मामलक्यपि ॥ ७०६ ॥
26.706 · p. 51
अनुष्टुप्
योग्यभाजनयोः पात्रं नदीकूलद्वयान्तरे ।स्रुगादौ नाट्यविषये शास्त्रं ग्रन्थनिदेशयोः ॥ ७०७ ॥
26.707 · p. 51
अनुष्टुप्
कृच्छ्रं दुःखं तपोभेदः शस्त्रमायुधलोहयोः ।हस्तिभेदे वृषे भद्रो भद्रं शर्म सति त्रिषु ॥ ७०८ ॥
26.708 · p. 51
अनुष्टुप्
रास्नायां स्त्री शारिरक्षे पक्षिपर्याणभेदयोः ।पीलौ गिरियकक्रीडागुलके पर्वते गिरिः ॥ ७०९ ॥
26.709 · p. 51
अनुष्टुप्
ताम्रं शुल्बे त्रिषु गुणे तन्द्री निद्राप्रमीलयोः ।व्यापृताकुलयोर्व्यग्रस्त्रिषु भाण्डं हविश्चरुः ॥ ७१० ॥
26.710 · p. 51
अनुष्टुप्
चक्राद्यश्रौ शीघ्रगे च त्रिषु क्लीवे त्वरं द्रुतौ ।बलौ मेघोपले हस्तिहस्ते पाणौ करोंशुषु ॥ ७११ ॥
26.711 · p. 51
अनुष्टुप्
क्षारं रसविशेषे च पुंसि स्यात्काचभस्मनोः ।ध्वान्तदैत्यारयो वृत्रा अभ्रमाकाशमेधयोः ॥ ७१२ ॥
26.712 · p. 52
अनुष्टुप्
स्त्रीभेदे कातरे भीरुः स्वरुर्यूपाङ्गवज्रयोः ।क्षीरं दुग्धाम्बुनोश्चन्द्रं स्वर्णं कम्पिल्यके तु ना ॥ ७१३ ॥
26.713 · p. 52
अनुष्टुप्
कर्पूरेन्द्वोश्च कुटजे शक्रः स्याद्वासवे तथा ।मर्त्ये नरो देवभेदे भरोतिशयभारयोः ॥ ७१४ ॥
26.714 · p. 52
अनुष्टुप्
चारे चरस्त्रिषु चले भूरि स्वर्णे बहौ त्रिषु ।प्रस्थाने वर्तनोपाये यात्रा देवोत्सवेपि च ॥ ७१५ ॥
26.715 · p. 52
अनुष्टुप्
सालपर्ण्यां स्थिरा भूमौ दृढे स्थास्नौ च भेद्यवत् ।खरस्तीक्ष्णे त्रिषु क्रूरे गर्दभे तु खरी द्वयोः ॥ ७१६ ॥
26.716 · p. 52
अनुष्टुप्
रक्षोभेदे पुमान्द्वारमुपायप्रतिहारयोः ।इरा भूवाक्सुरान्नापोप्सराश्चाथ पुरं पुरि ॥ ७१७ ॥
26.717 · p. 52
अनुष्टुप्
न ना देहे सर्वभद्रयागे क्लीवे गृहेपि च ।धीरं स्यात्कुङ्कुमे सूरौ गम्भीरसहयोस्त्रिषु ॥ ७१८ ॥
26.718 · p. 52
अनुष्टुप्
मारी भृशमृतौ कामे मरणे मारणे पुमान् ।चारी ताण्डवचेष्टायां नृपतिप्रणिधौ पुमान् ॥ ७१९ ॥
26.719 · p. 52
अनुष्टुप्
संधानाच्छादने वस्त्रे शुभ्रौ दीप्तसितौ त्रिषु ।संकरो मार्जनक्षिप्ते मेलने लोमजे त्रिषु ॥ ७२० ॥
26.720 · p. 52
अनुष्टुप्
उच्चारः पाठशकृती उद्भवे मार्गगे त्रिषु ।इन्द्रद्रुर्देवदारुः स्याल्लकुचः कुटजार्जुनौ ॥ ७२१ ॥
26.721 · p. 52
अनुष्टुप्
मन्दारः सुरवृक्षे स्यात्पारिभद्रकरम्भयोः ।मयूरस्तुत्थको दीप्योप्यपामार्गश्च वर्हिणः ॥ ७२२ ॥
26.722 · p. 52
अनुष्टुप्
कुक्कुरं ग्रन्थिपर्णे स्याद्द्वयोः शुन्यथ बर्बरः ।अजगन्धा बर्द्धकद्रुः शाकभेदे तु बर्बरा ॥ ७२३ ॥
26.723 · p. 52
अनुष्टुप्
चिकुरः केशपाशे स्त्री भ्रूलये चपले त्रिषु ।पश्चाज्जङ्घा न नेमस्यावरा दक्षिणदिक्स्त्रियाम् ॥ ७२४ ॥
26.724 · p. 52
अनुष्टुप्
परान्यानन्तरोनाश्च त्रिष्वेवमपरोप्यरौ ।पश्चिमायामेव दिशि चतुरो वेगिदक्षयोः ॥ ७२५ ॥
26.725 · p. 52
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 मे (wrong syllable)
किञ्चल्केस्त्री केसरो ना पुंनागे नागकेसरे ।सटाबकुलयोर्नीचः पाण्डुरोगी च पामरः ॥ ७२६ ॥
26.726 · p. 53
अनुष्टुप्
सौवीरमञ्जनं कोलं काञ्चिकं त्रिषु देशजे ।जम्भीरः स्याद्दन्तशठे मरुवे हस्तिपिप्पली ॥ ७२७ ॥
26.727 · p. 53
अनुष्टुप्
अपामार्गोब्धिलवणं वसिरो बदरी द्रुभित् ।कर्पासी तत्फले क्लीवे कवरी केशपाशभित् ॥ ७२८ ॥
26.728 · p. 53
अनुष्टुप्
कडारस्त्रिषु कल्माष उद्धारः संग्रहर्णयोः ।भुक्तोच्छिष्टे परावर्त उत्क्षेपे चाथ वर्करः ॥ ७२९ ॥
26.729 · p. 53
अनुष्टुप्
युवमेषे द्वयोः सोपहासे स्याद्वाच्यलिङ्गकः ।युवराजे शिशौ स्कन्दे कुमारोश्वानुचारके ॥ ७३० ॥
26.730 · p. 53
अनुष्टुप्
द्वीपे कुमारो ना स्त्री तु कन्यकौषधिभेदयोः ।मत्सरोन्यशुभद्वेषे तद्वत्कृपणयोस्त्रिषु ॥ ७३१ ॥
26.731 · p. 53
अनुष्टुप्
संगराः स्युः क्रियाकाराविपदाजिप्रतिश्रवाः ।क्लीवे शमीफलेथेभहस्ताग्रे व्योम्नि पङ्कजे ॥ ७३२ ॥
26.732 · p. 53
अनुष्टुप्
वाद्यभाण्डमुखे नीरे तीर्थौषधिविशेषयोः ।असेः फले पुष्करं स्यादन्तरं त्वन्यभेदयोः ॥ ७३३ ॥
26.733 · p. 53
अनुष्टुप्
अवकाशेवधौ मध्ये व्यवधानपिधानयोः ।परिधानात्मरन्ध्रेषु स्थानावसरयोरपि ॥ ७३४ ॥
26.734 · p. 53
अनुष्टुप्
तादर्थ्यस्वकबाह्येषु मध्यगेप्यभिधेयवत् ।अजिरं प्राङ्गणे काये रूपादिविपये तथा ॥ ७३५ ॥
26.735 · p. 53
अनुष्टुप्
सैरन्ध्री परवेश्मस्था स्ववशा शिल्पकारिका ।वर्णसंकरजाता च संस्तरौ स्रस्तराध्वरौ ॥ ७३६ ॥
26.736 · p. 53
अनुष्टुप्
प्रकरः संहतौ पुष्पोपकारेथोत्तरा दिशि ।भे पार्थवध्वां चोदीच्यानन्तरोर्ध्वेषु भेद्यवत् ॥ ७३७ ॥
26.737 · p. 53
अनुष्टुप्
श्रेष्ठप्रधानयोश्चापि प्रतिवाक्ये नपुंसकम् ।विराटतनये पुंसि द्वापरौ युगसंशयौ ॥ ७३८ ॥
26.738 · p. 53
अनुष्टुप्
स्याद्वाद्यभेदे सुशिरं गर्ते गर्तान्विते त्रिषु ।नडे तु सुशिराभीरुः शतावर्यभये त्रिषु ॥ ७३९ ॥
26.739 · p. 53
अनुष्टुप्
शिशिरोस्त्री ऋतौ शीते त्रिषु क्लीवे हिमे भवेत् ।वंशाङ्कुरे करीरोस्त्री तरुभेदे घटे च ना ॥ ७४० ॥
26.740 · p. 54
अनुष्टुप्
इक्षोर्विकारः सूक्ष्माश्मा रोगभेदश्च शर्करा ।विष्टरः कुशमुष्टौ च पीठपादपयोरपि ॥ ७४१ ॥
26.741 · p. 54
अनुष्टुप्
गायत्री खदिरे मन्त्रे छन्दोभेदे त्रिलिङ्गकः ।उदारो दातृमहतोर्दक्षिणोद्भटयोस्त्रिषु ॥ ७४२ ॥
26.742 · p. 54
अनुष्टुप्
शाक्वरोनडुहि च्छन्दोभेदे त्रिष्वथ रोगभित् ।प्रदरः शरभङ्गौ च केदारः क्षेत्रतीर्थयोः ॥ ७४३ ॥
26.743 · p. 54
अनुष्टुप्
ओष्ठोधरोनूर्ध्वहीने त्रिषु दम्भे मृगेसुरे ।मायायां शम्बरः पुंसि जले क्लीवेथ गत्वरे ॥ ७४४ ॥
26.744 · p. 54
अनुष्टुप्
सृमरस्त्रिषु पुंस्येणे कलत्रं श्रोणिभार्ययोः ।तमस्तमिस्रं सतमा रात्रिः स्त्री गजसज्जनम् ॥ ७४५ ॥
26.745 · p. 54
अनुष्टुप्
शृङ्गारो रसराजश्च तूवरोश्मश्रुणि त्रिषु ।अजातशृङ्गे छागे च सामुद्रं देहलक्षणे ॥ ७४६ ॥
26.746 · p. 54
अनुष्टुप्
लवणादौ समुद्रस्याथाकाराविङ्गिताकृती ।प्रकारे मुखरागादावाह्वाने वर्णभिद्यपि ॥ ७४७ ॥
26.747 · p. 54
अनुष्टुप्
अम्बरे वसनाकाशौ सुगन्धिद्रव्यमाश्रयः ।वाप्यालवाले चाधारो विस्तारौ तज्ज्ञविस्तृतौ ॥ ७४८ ॥
26.748 · p. 54
अनुष्टुप्
विटपेस्त्री भास्वरा स्यात्पाठा त्रिषु तु भासुरे ।औशीरं चामरे दण्डे सहिते शयनासने ॥ ७४९ ॥
26.749 · p. 54
अनुष्टुप्
इन्द्रध्वजे विशीर्णे च सच्छिद्रे चापि जर्जरः ।उर्वरा सर्वसस्याढ्या भूस्तथा भूमिमात्रकम् ॥ ७५० ॥
26.750 · p. 54
अनुष्टुप्
खपुरो लसकः पूगो विहारः सुगतालये ।परिक्रमक्रीडनयोः संस्कारः शास्त्रजो गुणः ॥ ७५१ ॥
26.751 · p. 54
अनुष्टुप्
वासना प्रतियत्नश्चाथाकरो निकरे खनौ ।आसारः स्यात्प्रसरणे वेगाद्वर्षे सुहृद्बले ॥ ७५२ ॥
26.752 · p. 54
अनुष्टुप्
निकारः परिभावे च धान्यस्योत्क्षेपणेपि च ।प्रस्तरा मणिपाषाणशय्यास्त्रिषु मनोहरे ॥ ७५३ ॥
26.753 · p. 54
अनुष्टुप्
स्वादौ च मधुरो नीचपरयोरितरस्त्रिषु ।व्यायामे प्रसरो वेगे प्रपञ्चे प्रणये तथा ॥ ७५४ ॥
26.754 · p. 55
अनुष्टुप्
गोपुरं द्वारि पूर्द्वारि तथा दाशपुरौषधौ ।दुर्भिक्षादिकृते दुःखे कान्तारं दुर्गमे पथि ॥ ७५५ ॥
26.755 · p. 55
अनुष्टुप्
माणिक्यमुज्ज्वलं शृङ्गमूर्ध्वाग्रं शिखरत्रयम् ।गुहादम्भनिकुञ्जेषु गह्वरं स्यात्तु चत्वरम् ॥ ७५६ ॥
26.756 · p. 55
अनुष्टुप्
चतुष्पथे प्राङ्गणे च नरेन्द्रौ नृपदैशिकौ ।उदरे जठरं क्लीवे कठिने वाच्यलिङ्गकः ॥ ७५७ ॥
26.757 · p. 55
अनुष्टुप्
कन्दे राजकशेर्वाख्ये शुण्ठ्यामपि च नागरम् ।पूर्भवे वाच्यलिङ्गं स्यात्कुहरं गह्वरे बिले ॥ ७५८ ॥
26.758 · p. 55
अनुष्टुप्
शार्वरं त्वन्धतमसे घातुकेभे त्रिलिङ्गकः ।वर्णे मोक्षे परब्रह्मण्यक्षरं त्रिषु चाक्षये ॥ ७५९ ॥
26.759 · p. 55
अनुष्टुप्
आण्डीरो बालके पुंसि सुवर्णे तु नपुंसकम् ।मन्दिरं नगरे गेहे पिठिरं चरुपस्तयोः ॥ ७६० ॥
26.760 · p. 55
अनुष्टुप्
किंशारू व्रीहिशूकेषू विकारौ वैरवैकृते ।ऋषौ मन्त्रे कुशे देवे पवित्रं पाविते त्रिषु ॥ ७६१ ॥
26.761 · p. 55
अनुष्टुप्
सुवर्णे कर्बुरं पापे कल्माषे तु त्रिलिङ्गकः ।बन्धुरं संनते रम्ये खर्जूरं फलरूप्ययोः ॥ ७६२ ॥
26.762 · p. 55
अनुष्टुप्
ना द्रुमेनाकुले तु स्यादेकाग्रं तत्परे त्रिषु ।आहारः स्वीकृतौ भुक्तौ छन्दःकाञ्च्योस्तु शक्वरी ॥ ७६३ ॥
26.763 · p. 55
अनुष्टुप्
तुषारस्तु कणे क्लीवे तुहिने शीतले त्रिषु ।कठोरः कठिनेपक्वे संहारो नाशसंघयोः ॥ ७६४ ॥
26.764 · p. 55
अनुष्टुप्
प्रत्याहारे संग्रहे च तथा नारकभूभिदि ।कर्पूरे पुंसि नासीरो भवेदग्रसरे त्रिषु ॥ ७६५ ॥
26.765 · p. 55
अनुष्टुप्
कालसूत्रं कृष्णसूत्रे तथा नारकभूभिदि ।विद्याधरी देवभेदे द्वयोर्विद्यावति त्रिषु ॥ ७६६ ॥
26.766 · p. 55
अनुष्टुप्
विद्याधरः शक्तिधरः स्कन्दः शक्तिमति त्रिषु ।तुण्डिकेरी तु कर्पासी बिम्बी च पितृकाननम् ॥ ७६७ ॥
26.767 · p. 55
अनुष्टुप्
करवीरः पुष्पभिच्चोपचित्रा पृश्निपर्णिका ।दन्ती दण्डधरो राजा यमो दण्डभृति त्रिषु ॥ ७६८ ॥
26.768 · p. 56
अनुष्टुप्
चतुरश्रश्चतुःस्रक्तिस्त्रिषु कालोपयुक्तिवित् ।द्युतयुद्धादिविश्रान्तौ ग्राहाभिख्ये च यादसि ॥ ७६९ ॥
26.769 · p. 56
अनुष्टुप्
निमन्त्रणोपनेतव्येवहारोथ परिच्छदे ।प्रगाढगात्रिकाबन्धे पर्यङ्कारम्भयोरपि ॥ ७७० ॥
26.770 · p. 56
अनुष्टुप्
समूहे स्यात्परिकरः स्यात्तु प्रतिसरोस्त्रियाम् ।हस्तसूत्रे चमूपश्चाद्भागे यागादिके पुमान् ॥ ७७१ ॥
26.771 · p. 56
अनुष्टुप्
आरक्षे मण्डने च स्यान्नियोज्ये वाच्यालिङ्गकः ।उपकारस्तूपकृतौ कुसुमप्रकरेपि च ॥ ७७२ ॥
26.772 · p. 56
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 5 च्या (wrong syllable); pāda 3, syllable 5 स्तू (wrong syllable)
दुरोदरो द्यूतकरे पणे द्यूते नपुंसकम् ।उदुम्बरो वृक्षभेदे देहल्यां चाप्यरुष्करः ॥ ७७३ ॥
26.773 · p. 56
अनुष्टुप्
व्रणकृद्वृक्षभेदश्च क्लीवे तु स्यात्सरोरुहे ।शतपत्त्रं पुमान्दार्वाघाटे स्यादथ सागरे ॥ ७७४ ॥
26.774 · p. 56
अनुष्टुप्
अकूवारः कूवरे स्त्री भुवि विश्वंभरोच्युते ।आडम्बरोस्त्री संरम्भे रवे च गजतूर्ययोः ॥ ७७५ ॥
26.775 · p. 56
अनुष्टुप्
अभिहारोभियोगे च चौर्ये संनहनेपि च ।शिशुमारो जलोद्भूतजन्तौ तारागमाच्च्युते ॥ ७७६ ॥
26.776 · p. 56
अनुष्टुप्
परिवारः परिजने खड्गकोशेप्युपह्वरः ।विविक्ते च समीपे च महामात्रो महर्द्धिके ॥ ७७७ ॥
26.777 · p. 56
अनुष्टुप्
हस्त्यारोहाधिपे चाभिसरः स्वबलसाध्वसे ।युद्धे च व्यभिचारः स्याद्धिंसायामप्यसंभवे ॥ ७७८ ॥
26.778 · p. 56
अनुष्टुप्
संकरे व्यसने वृत्तान्तेपि व्यतिकरः कृतौ ।तीर्थेवतारो देवादेरंशे स्यादवरोहणे ॥ ७७९ ॥
26.779 · p. 56
अनुष्टुप्
वर्धापके पूर्णपात्रं पात्रे पूर्णे जलादिना ।प्रतीहारो द्वारि तत्स्थे द्वयोर्गुह्येप्यवस्करः ॥ ७८० ॥
26.780 · p. 56
अनुष्टुप्
वर्चस्के चापचारस्तु दुष्कृतभ्रंशयोरपि ।आचारे परिचर्यायां प्राभृतारोपयोरपि ॥ ७८१ ॥
26.781 · p. 56
अनुष्टुप्
उपचारः सहचरी भार्यापत्योः परस्परम् ।लताभेदे द्वयोर्मित्रे सार्धसंचारिणि त्रिषु ॥ ७८२ ॥
26.782 · p. 57
अनुष्टुप्
अर्धचन्द्रा तु पालिन्दी गलहस्ते पुमाञ्शरे ।नखक्षतविशेषे च हंसभित्कौरवस्तथा ॥ ७८३ ॥
26.783 · p. 57
अनुष्टुप्
धार्तराष्ट्रः कृष्णशारः शवले त्रिषु ना मृगे ।पारिभद्रः पारिजाते बदर्यां सुरदारुणि ॥ ७८४ ॥
26.784 · p. 57
अनुष्टुप्
ब्रह्मपुत्रो द्विजसुतो विषभिन्नारदादयः ।सुकुमारस्त्रिषु मृदौ घृतभेदे नपुंसकम् ॥ ७८५ ॥
26.785 · p. 57
अनुष्टुप्
उपस्करो वेशवारो गृहभाण्डाद्यथाम्बुदे ।पयोधरः स्तनेपि स्यादुपस्कारो गुणाहितौ ॥ ७८६ ॥
26.786 · p. 57
अनुष्टुप्
अध्याहारे वैकृते च दीर्घसूत्रश्चिरक्रियः ।तन्तौ च विस्तृते क्लीवे दीर्घनिद्रा मृतिस्तथा ॥ ७८७ ॥
26.787 · p. 57
अनुष्टुप्
अतिस्वापरतिश्चाथ काव्यमण्डलवेश्मभित् ।निम्बश्च सर्वतोभद्रो व्यूहः कल्याणवांस्त्रिषु ॥ ७८८ ॥
26.788 · p. 57
अनुष्टुप्