All kośas › Maṅkhakośa
मङ्खकोशः Maṅkhakośa
1,015 verses · text only, tagging comes next
मान्तवर्गः
कुत्साप्रश्नवितर्केषु किं मा लक्ष्मीप्रमाणयोः ।लक्ष्मीर्हरिप्रिया संपच्छोभा ब्राह्मी तु मातृभित् ॥ ५६६ ॥
24.566 · p. 41
अनुष्टुप्
वागोषधिभिदौ ब्रह्मभवादौ तु भवेत्त्रिषु ।रामा योषिद्दाशरथौ जामदग्न्ये हलायुधे ॥ ५६७ ॥
24.567 · p. 41
अनुष्टुप्
मृगभेदे च पुंसि स्यात्कृष्णे चारौ सिते त्रिषु ।भार्गीश्रीपद्मचारिण्यः पद्मा अब्जेस्त्रियां पुमान् ॥ ५६८ ॥
24.568 · p. 41
अनुष्टुप्
संख्यानिधिव्यूहनागभित्क्लीवे गजबिन्दुषु ।स्याद्धर्ममस्त्रियां पुण्ये क्लीवे तत्साधने पुमान् ॥ ५६९ ॥
24.569 · p. 41
अनुष्टुप्
स्वभावदेवभिन्न्याययमाचारेषु सोमपे ।अहिंसोपमयोश्चाथ जामिः स्वसृकुलस्त्रियोः ॥ ५७० ॥
24.570 · p. 41
अनुष्टुप्
काम्ये स्वैरे च कामः स्यादभिलाषे मनोभवे ।अव्ययं त्वभ्यनुज्ञाने सोम ओषधिभेशयोः ॥ ५७१ ॥
24.571 · p. 41
अनुष्टुप्
यमोन्तकः कर्म च यन्नित्यं सहजयोरपि ।क्षितिक्षान्त्योः क्षमा युक्ते क्षमं शक्ते हिते त्रिषु ॥ ५७२ ॥
24.572 · p. 42
अनुष्टुप्
त्रिषु श्यामौ हरित्कृष्णौ स्त्रियां स्याच्छारिवानिशोः ।कान्ता प्रियङ्गुः पालिन्दी वटभेदे तु पुंस्ययम् ॥ ५७३ ॥
24.573 · p. 42
अनुष्टुप्
समा वर्षेनुच्चनीचे त्रिषु सर्वसदृक्षयोः ।गुल्मो रुक्स्तम्बसेनाभिद्रक्षास्थानेषु गह्वरे ॥ ५७४ ॥
24.574 · p. 42
अनुष्टुप्
उष्णे स्वेदाम्भसि ग्रीष्मे घर्मो भावभिदातपे ।त्रिषु तोक्मं हरिन्मात्रे न स्त्रियां हरिते यवे ॥ ५७५ ॥
24.575 · p. 42
अनुष्टुप्
सीमावधौ स्थितौ क्षेत्रे विषये केशभूषणे ।वृक्षमात्रे पारिजाते द्रुमश्चैद्यकुलोद्भवे ॥ ५७६ ॥
24.576 · p. 42
अनुष्टुप्
कुशलं क्षेममस्त्री ना त्वौषधे लब्धरक्षणे ।ग्रामः संवसथे गेयभेदे वृन्दे सपूर्वकः ॥ ५७७ ॥
24.577 · p. 42
अनुष्टुप्
भ्रमिर्मोहस्तक्षभाण्डं स्यादतस्मिंस्तु तद्ग्रहः ।भ्रमो मूर्छा तक्षभाण्डं छत्त्रमम्बुविनिर्गमः ॥ ५७८ ॥
24.578 · p. 42
अनुष्टुप्
रश्मिर्घृणिप्रग्रहयोः स्याद्भङ्गादुर्गयोरुमा ।भीमो रुद्रे सभीष्मस्तु राजभेदे भयानके ॥ ५७९ ॥
24.579 · p. 42
अनुष्टुप्
अध्यात्मं सूक्ष्ममल्पे तु त्रिषु शीते हिमं त्रिषु ।क्लीवे तुषारे भूमिः स्यात्स्थानं पात्रं धरा दशा ॥ ५८० ॥
24.580 · p. 42
अनुष्टुप्
वामा योषित्त्रिषु वल्गौ स्यात्सव्यप्रतिकूलयोः ।वाम्यश्वा हार्यवस्त्वर्थवाहयुग्मकृतेपि सा ॥ ५८१ ॥
24.581 · p. 42
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 षु (wrong syllable)
कुटिले मन्दके जिह्मो दमौ दण्डेन्द्रियग्रहौ ।श्रमः प्रयत्ने खेदे च क्रिमिः स्यात्कीटरोगयोः ॥ ५८२ ॥
24.582 · p. 42
अनुष्टुप्
परिपाटी क्रमः कल्पः पादक्षेपः परंपरा ।आनन्तर्यं पदसंधिः शमी शिम्बा द्रुभित्स्त्रियाम् ॥ ५८३ ॥
24.583 · p. 42
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 द (wrong syllable)
कूर्मी भवेद्द्वयोः प्राणी यमिनामासनेस्त्रियाम् ।नेमिः स्त्री रथचक्रान्ते कूपाङ्गे तिनिशे तु ना ॥ ५८४ ॥
24.584 · p. 42
अनुष्टुप्
शान्तिर्हस्तः शमो राज्ञां व्यवस्था निजमण्डले ।आमो रोगे त्रिष्वपक्वे स्तोमः संघेध्वरे स्तुतौ ॥ ५८५ ॥
24.585 · p. 42
अनुष्टुप्
पाणेर्मध्याङ्गुलिर्दृष्टरजाः कन्या च मध्यमा ।गीतस्वरे देहमध्ये देशराजभिदोः पुमान् ॥ ५८६ ॥
24.586 · p. 43
अनुष्टुप्
अन्यूनानतिरिक्ते च तथा मध्यभवे त्रिषु ।भयसंवेगादरेषु संभ्रमोथ परिश्रमे ॥ ५८७ ॥
24.587 · p. 43
अनुष्टुप्
व्यायामः पौरुषे कृत्ये विद्रुमो वृक्षरत्नयोः ।यन्त्रणायां प्रतिज्ञायां नियमो निश्चये व्रते ॥ ५८८ ॥
24.588 · p. 43
अनुष्टुप्
हेलाभ्रान्त्योर्विभ्रमः स्याच्छक्तौ क्रान्तौ च विक्रमः ।तलिमः कुट्टिमे तल्पे शास्त्रे ग्रहण आगमः ॥ ५८९ ॥
24.589 · p. 43
अनुष्टुप्
गत्यभावद्रुदुर्गेष्वगमो बुद्धस्तु गौतमः ।मुनौ द्वयोः संगमस्तु नदीसंभेदसङ्गयोः ॥ ५९० ॥
24.590 · p. 43
अनुष्टुप्
आश्रमो ब्रह्मचर्यादौ मठे स्थाने तपस्विनाम् ।वणिक्पथः पुरं वेदो निगमास्त्रिष्वतो वणिक् ॥ ५९१ ॥
24.591 · p. 43
अनुष्टुप्
नैगमो नागरो विप्रः श्रेष्ठः साधुश्च सत्तमः ।आद्ये प्रधाने प्रथमोथाधमौ न्यूनगर्हितौ ॥ ५९२ ॥
24.592 · p. 43
अनुष्टुप्
बुध्नस्थश्चावमोप्येवमग्रिमोग्र्यप्रधानयोः ।उत्कृष्टे परमश्चाप्यभ्यनुज्ञानेव्ययं पुनः ॥ ५९३ ॥
24.593 · p. 43
अनुष्टुप्
ललामं पुच्छपुण्ड्राश्वभूषाप्राधान्यकेतुषु ।रत्ने शृङ्गे श्वेतगुणे तिलके स्याल्ललाम च ॥ ५९४ ॥
24.594 · p. 43
अनुष्टुप्
निष्क्रमो निर्गमो बुद्धिसंपच्चाथ परिश्रमः ।व्यायामयत्नखेदेषु युद्धे त्वभ्यागमो भवेत् ॥ ५९५ ॥
24.595 · p. 43
अनुष्टुप्
आभिमुख्यागतौ चोपशमः शान्तिर्विनीतता ।उपक्रमश्चिकित्सायामारम्भोपधयोरपि ॥ ५९६ ॥
24.596 · p. 43
अनुष्टुप्
अङ्गीकृतावुपगमः समीपगमनेपि च ।जीर्णं च परिभुक्तं च यातयामं भवेत्त्रिषु ॥ ५९७ ॥
24.597 · p. 43
अनुष्टुप्