All kośas › Maṅkhakośa
मङ्खकोशः Maṅkhakośa
1,015 verses · text only, tagging comes next
गान्तवर्गः
स्वर्गेषुपशुवाग्वज्रदिङ्नेत्रघृणिभूजले ॥ १०३ ॥
4.103 · p. 8
लक्ष्यदृष्ट्या स्त्रियां पुंसि गौः सङ्गः श्लेषरोधयोः ।भगः श्रीकाममाहात्म्यवीर्ययत्नार्ककीर्तिषु ॥ १०४ ॥
4.104 · p. 8
अनुष्टुप्
मोक्षविज्ञानवैराग्ययोनिधर्मेष्वथो मृगः ।मृगशीर्षे हस्तिजातौ कुरङ्गे मार्गणे पशौ ॥ १०५ ॥
4.105 · p. 8
अनुष्टुप्
सषडङ्गुलयोनौ तु नायिकायां भवेन्मृगी ।सर्गः स्वभावनिर्मोक्षनिश्चयाध्यायसृष्टिषु ॥ १०६ ॥
4.106 · p. 8
अनुष्टुप्
पालनेभ्यवहारे च निर्वेशे च पणस्त्रियः ।भोगः स्याद्वित्तसुखयोरहेश्च फणकाययोः ॥ १०७ ॥
4.107 · p. 8
अनुष्टुप्
योगः संनहनोपायध्यानसंगतियुक्तिषु ।अलब्धलाभे भैषज्ये शरे विस्त्रब्धघातिनि ॥ १०८ ॥
4.108 · p. 8
अनुष्टुप्
मासान्वेषणयोर्मार्गस्तथा मृगमदाध्वनोः ।द्वयोरहौ गजे नागः क्लीवे सीसकरङ्गयोः ॥ १०९ ॥
4.109 · p. 8
अनुष्टुप्
संघगूवाकयोः पूगः शैलवृक्षौ नगावगौ ।रागः क्लेशादेके सङ्गे पानके लोहीतादिषु ॥ ११० ॥
4.110 · p. 9
अनुष्टुप्metre not read in every line
यानाद्यङ्गे युगः पुंसि युगं युग्मे कृतादिषु ।चतुर्हस्तप्रमाणे च शरार्कविहगाः खगाः ॥ १११ ॥
4.111 · p. 9
अनुष्टुप्
सांख्योक्तप्रकृतौ बुद्धौ लिङ्गं स्याच्चिह्नशेपसोः ।उपकारिण्युपायेङ्गं गात्रे ना त्वङ्गवत्यथ ॥ ११२ ॥
4.112 · p. 9
अनुष्टुप्
नृत्तयुद्धखले रागे रङ्गः क्लीवे त्रपुण्यथ ।धनुर्मात्रे विष्णुचापे शार्ङ्गं भृङ्गस्तु षट्पदे ॥ ११३ ॥
4.113 · p. 9
अनुष्टुप्
धूम्राटे च त्वचे क्लीवे शृङ्गं स्वाम्याद्रिकूटयोः ।क्रीडाम्बुपात्रे पश्वङ्गे भागो भाग्यैकदेशयोः ॥ ११४ ॥
4.114 · p. 9
अनुष्टुप्
भेदोर्मिभाक्तिकौटिल्यभीषु भङ्गः स्त्रियां शणे ।वेगः प्रवाहजवयोर्भङ्गिर्भक्तितरंगयोः ॥ ११५ ॥
4.115 · p. 9
अनुष्टुप्
गिरीशभास्करौ भर्गौ खड्गोसौ गण्डकेपि च ।वर्गः पक्षे समूहे च त्यागस्त्यजनदानयोः ॥ ११६ ॥
4.116 · p. 9
अनुष्टुप्
वङ्गं त्रपुणि ना राज्ञि तद्देशे तत्सुते बहुः ।भृगुः प्रपातो मुनिभित्तत्सुते पुंसि भूमनि ॥ ११७ ॥
4.117 · p. 9
अनुष्टुप्
तुङ्गाजगन्धा पुंनागे नोच्चे त्रिष्वल्पमोघयोः ।काकोदुम्बरिकायां ना फल्गुरिङ्गं नरीङ्गिते ॥ ११८ ॥
4.118 · p. 9
अनुष्टुप्
क्लीवं जगति रक्ताङ्गः कम्पिल्येङ्गारके तथा ।आशुगौ वायुविशिखौ भुजंगः शिड्गसर्पयोः ॥ ११९ ॥
4.119 · p. 9
अनुष्टुप्
गन्धमाल्योपहारे स्यादायोगो व्यापृतावपि ।परागः कौसुमे रेणौ स्नानीयादौ रजस्यपि ॥ १२० ॥
4.120 · p. 9
अनुष्टुप्
कलिङ्गः स्यादिन्द्रयवे शाके धूम्याटदेशयोः ।चातके हरिणे पुंसि सारङ्गः शवले त्रिषु ॥ १२१ ॥
4.121 · p. 9
अनुष्टुप्
शालिप्रभेदे शलभे पतंगः पक्षिसूर्ययोः ।मातङ्गाविभचण्डालौ निषङ्गः सङ्गतूणयोः ॥ १२२ ॥
4.122 · p. 9
अनुष्टुप्
वराङ्गं मस्तके योनौ त्वचेथ कपभेकयोः ।प्लवगो लोचनान्ते स्यादपाङ्गस्तिलकेपि च ॥ १२३ ॥
4.123 · p. 9
अनुष्टुप्
रते भोगे च संभोगः प्रियङ्गुः क्रङ्कुसस्ययोः ।निर्माणे च स्वभावे च निसर्गो द्रुभिदग्र्ययोः ॥ १२४ ॥
4.124 · p. 10
अनुष्टुप्
पुंनागोथ विसर्गः स्यात्त्यागे बिन्दुद्वये तथा ।सामान्यविधिरुत्सर्गः प्रचारस्त्याग एव च ॥ १२५ ॥
4.125 · p. 10
अनुष्टुप्
समङ्गा गण्डकाल्याख्यशाकमञ्जिष्ठयोर्भवेत् ।स्यादुद्वेगः पुमान्खेदे क्लीवे पूगफले पुनः ॥ १२६ ॥
4.126 · p. 10
अनुष्टुप्
त्रिवर्गो धर्मकामार्थाः स्थानं वृद्धिः क्षयस्तथा ।रतान्विती संप्रयोगाभिषङ्गः पराभवे ॥ १२७ ॥
4.127 · p. 10
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 सं (syllables merged)
आक्रोशशापयोश्चापवर्गो मोक्षे क्रियाफले ।त्यागे चाथोपरागः स्यादुपरक्तौ विधुंतुदे ॥ १२८ ॥
4.128 · p. 10
अनुष्टुप्
व्यसनेथ वृके काव्यभेद ईहामृगः पुमान् ।पदभेदे तूपसर्गः पीडोपद्रवयोपरि ॥ १२९ ॥
4.129 · p. 10
अनुष्टुप्
उपयोगस्तु भोगे स्याद्विद्याया ग्रहणे तथा ।कथाप्रसङ्गः संलापक्षणे गारुडिके तथा ॥ १३० ॥
4.130 · p. 10
अनुष्टुप्