All kośas › Maṅkhakośa
मङ्खकोशः Maṅkhakośa
1,015 verses · text only, tagging comes next
धान्तवर्गः
ऋद्धिरोषधिभिल्लक्ष्मीः प्रभावोतिशयः स्त्रियाम् ।कुष्ठाख्यायामोषधौ च व्याधिः पुंस्यामये तथा ॥ ४०८ ॥
18.408 · p. 30
अनुष्टुप्
वसन्तदैत्यभिच्चैत्रमधूका मधवो मधु ।मद्यं पुष्परसः क्षौद्रं मधुरे वाच्यलिङ्गकः ॥ ४०९ ॥
18.409 · p. 30
अनुष्टुप्
बन्धको व्यसनं चेतःपीडाधिष्ठानमाधयः ।विधुर्विष्णुः शशी बाधा द्वयोर्दुःखनिषेधयोः ॥ ४१० ॥
18.410 · p. 30
अनुष्टुप्
नददेशबिदोरब्धौ सिन्धुर्ना सरिति स्त्रियाम् ।द्वयोर्विधौ प्रकारे च गजान्ने वेतने विधा ॥ ४११ ॥
18.411 · p. 30
अनुष्टुप्
वधूर्जाया स्नुषा स्त्री च प्रियङ्गुस्पृक्कयोरपि ।निधी निक्षेपगूढार्थौ स्थानं श्रद्धादरः स्पृहा ॥ ४१२ ॥
18.412 · p. 30
अनुष्टुप्
क्लीवे तमोम्भसोरन्धमदृष्टौ वाच्यलिङ्गकः ।संधा प्रतिज्ञा मर्यादा मक्कोलामृतयोः सुधा ॥ ४१३ ॥
18.413 · p. 30
अनुष्टुप्
विधिर्विधायके वाक्ये दैवे स्रष्टृविधानयोः ।हव्यकव्यविधौ श्राद्धं त्रिषु श्रद्धासमन्विते ॥ ४१४ ॥
18.414 · p. 30
अनुष्टुप्
संधिर्भगे सुरुङ्गायां संधानगुणभेदयोः ।गोधा तले निहाकायां बुधा विद्वद्ग्रहामराः ॥ ४१५ ॥
18.415 · p. 30
अनुष्टुप्
राधा तु कृष्णजायायां शरव्ये कर्णमातरि ।मूलाधिकेर्थे वृद्धिः स्याद्वर्धनौषधिभेदयोः ॥ ४१६ ॥
18.416 · p. 30
अनुष्टुप्
सिद्धिरोषधिनिष्पत्त्योर्बन्धः स्नेहाधिबन्धने ।वृन्ते च रचनायां च वातादिनियतावधौ ॥ ४१७ ॥
18.417 · p. 30
अनुष्टुप्
अंसे महीपतौ स्कन्धस्तरुजङ्घासमूहयोः ।लताविटपयोर्वीरुत्खण्डोर्धोर्धं समेंशके ॥ ४१८ ॥
18.418 · p. 31
अनुष्टुप्
दोषज्ञे सुगते बुद्धः शुद्धस्त्रिष्वेकपूतयोः ।पण्डिते स्थविरे वृद्धस्त्रिषु साधुस्तु शोभने ॥ ४१९ ॥
18.419 · p. 31
अनुष्टुप्
वार्द्धुषौ सज्जने सिद्धे देवे निष्पन्नपूज्ययोः ।विषलिप्ते शरे दिग्धो लिप्तमात्रे त्रिलिङ्गकः ॥ ४२० ॥
18.420 · p. 31
अनुष्टुप्
मुग्धं मनोहरे मूढे त्रिषु योषिति तु स्त्रियाम् ।विद्धं सूच्यादिभिर्भिन्ने सादृश्ये ज्ञे त्रिलिङ्गकः ॥ ४२१ ॥
18.421 · p. 31
अनुष्टुप्
घ्राणग्राह्याल्पयोर्गन्धो द्रव्ये संबन्धमात्रके ।लुब्धः स्पृहावान्मृगयुः क्षत्रियायां तु वैश्यजः ॥ ४२२ ॥
18.422 · p. 31
अनुष्टुप्
वन्दी च मागधः स्त्री स्यात्पिप्पली यूथिका तथा ।व्यामो वटश्च न्यग्रोधो न्यग्रोधी चोपचित्रिका ॥ ४२३ ॥
18.423 · p. 31
अनुष्टुप्
प्रबोधौ जागरोद्घाटावुत्सेधौ वपुरुन्नती ।पर्याहाराध्वभारेषु विवधो वीवधोपि च ॥ ४२४ ॥
18.424 · p. 31
अनुष्टुप्
परिधिर्यज्ञियतरोः शाखायामुपसूर्यके ।समाधिर्ध्याननीवाकनियमेषु समर्थने ॥ ४२५ ॥
18.425 · p. 31
अनुष्टुप्
प्रणिधी प्रार्थनचरौ परिच्छेदे बिलेवधिः ।अगाधमतलस्पर्शे त्रिषु गर्ते नपुंसकम् ॥ ४२६ ॥
18.426 · p. 31
अनुष्टुप्
व्याजे रथाङ्गेप्युपधिर्विबुधौ सुरपण्डितौ ।वाद्यं मृदङ्गाद्यानद्धं बद्धमात्रे त्रिलिङ्गकम् ॥ ४२७ ॥
18.427 · p. 31
अनुष्टुप्
उपाधिर्धर्मचिन्ता च कुटुम्बव्यापृतेपि च ।विशेषणोपार्जनयोः प्रबुद्धो ज्ञानिजाग्रतोः ॥ ४२८ ॥
18.428 · p. 31
अनुष्टुप्
सम्यक्सिद्धौ स्वभावे स्त्री संसिद्धिः संनिधिस्तु ना ।प्रत्यक्षे संनिधाने च निरोधो नाशरोधयोः ॥ ४२९ ॥
18.429 · p. 31
अनुष्टुप्
निषधः कठिने देशे राजभेदे नगान्तरे ।तोये कबन्धं ना रक्षोभेदे शिरसि न स्त्रियाम् ॥ ४३० ॥
18.430 · p. 31
अनुष्टुप्
भृशार्थदोषावाबाधौ संबाधौ योनिसंकटौ ।अतस्त्रिषु तु विस्रब्धो विश्वस्ते प्रोद्भटे तथा ॥ ४३१ ॥
18.431 · p. 31
अनुष्टुप्
आविद्धी कुटिलोत्क्षिप्तौ प्रसिद्धौ ख्यातभूषितौ ।विरुद्धौ वैरिविगुणौ दुर्विधौ खलदुर्गतौ ॥ ४३२ ॥
18.432 · p. 32
अनुष्टुप्
अविदूरस्त्ववष्टब्धो बद्धश्चाप्यवलम्बितः ।ब्रह्मबन्धुरधिक्षेपे निर्देशे ब्राह्मणस्य च ॥ ४३३ ॥
18.433 · p. 32
अनुष्टुप्
दोषोत्पादेनुबन्धः स्यात्प्रकृत्यादेर्विनश्वरे ।मुख्यानुयायिनि शिशौ प्रकृतस्यानुवर्तने ॥ ४३४ ॥
18.434 · p. 32
अनुष्टुप्
कर्णिकारः परिव्याधो जलवेतस इत्यपि ।तमालः श्यामखदिरः कालस्कन्धोपि तिन्दुकः ॥ ४३५ ॥
18.435 · p. 32
अनुष्टुप्
इक्षुगन्धा विदारी स्यात्कोकिलो गोक्षुरोपि च ।महौषधं प्रतिविषा लशुनं नागरं विषम् ॥ ४३६ ॥
18.436 · p. 32
अनुष्टुप्
अजमोदोग्रगन्धा स्याद्वचा गन्धोत्कटे त्रिषु ।
18.30 · p. 32