कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Maṅkhakośa

मङ्खकोशः Maṅkhakośa

1,015 verses · text only, tagging comes next

जान्तवर्गः

अब्जो धन्वन्तरौ चन्द्रे शङ्खे पद्मे नपुंसकम् ।त्रिषु कुब्जेधोमुखे च न्युब्जो बीजं तु रेतसि ॥ १४४ ॥
8.144 · p. 11
अनुष्टुप्
हेतावङ्कुरकार्ये च दन्तविप्राण्डजा द्विजाः ।स्त्री करेण्वोषधौ व्याजो दोषे दम्भापदेशयोः ॥ १४५ ॥
8.145 · p. 11
अनुष्टुप्
छागोजो ब्रह्मविष्ण्वीशा गोष्ठाध्वनिवहा व्रजाः ।समे क्ष्मांशे रणेप्याजिः प्रजा स्यात्संततौ जने ॥ १४६ ॥
8.146 · p. 11
अनुष्टुप्
ध्वजश्चिह्ने पताकायां स्वके नित्ये निजं त्रिषु ।खनौ सुरागृहे गञ्जा भाण्डागारे पुमानथ ॥ १४७ ॥
8.147 · p. 11
अनुष्टुप्
कुञ्जोस्त्री गहने दन्ते गुञ्जा स्यात्काकचिञ्चिका ।वाद्यभाण्डे च वाणिज्ये तज्जीविन्यपि ना वणिक् ॥ १४८ ॥
8.148 · p. 11
अनुष्टुप्
निसर्गे च सहोत्थे च सहजं त्रिष्वथाण्डजाः ।मीनपक्ष्यहयः सामजाते हस्तिनि सामजः ॥ १४९ ॥
8.149 · p. 11
अनुष्टुप्
बलजे क्षेत्रपूर्द्वारे त्रिषु स्याद्वल्गुदर्शने ।अङ्गजो मन्मथे पुत्रे शोणिते तु नपुंसकम् ॥ १५० ॥
8.150 · p. 11
अनुष्टुप्
केकितार्क्ष्यावहिभुजावग्रजो भ्रातृविप्रयोः ।लाक्षा स्त्रियां स्यात्क्रिमिजा पट्टवस्त्रे नपुंसकम् ॥ १५१ ॥
8.151 · p. 11
अनुष्टुप्
करजो नक्तमाले स्यान्नखे च निचुलोम्बुजः ।पद्मे क्लीवं विप्रवरे द्विजराजः शशिन्यपि ॥ १५२ ॥
8.152 · p. 12
अनुष्टुप्
धर्मराजः प्रेतराजे षडभिज्ञे युधिष्ठिरे ।ग्रहराजौ चन्द्रसूर्यौ शूद्रनीचौ जघन्यजौ ॥ १५३ ॥
8.153 · p. 12
अनुष्टुप्