All kośas › Maṅkhakośa
मङ्खकोशः Maṅkhakośa
1,015 verses · text only, tagging comes next
लान्तवर्गः
चूडा किरीटं केशाश्च संहता मौलयस्त्रयः ।मातृभेदे क्षारकीटे काली दुर्गानवाब्दयोः ॥ ७८९ ॥
27.789 · p. 57
अनुष्टुप्
पालिन्दी पाटला कृष्णाजाजी कालापि नीलिनी ।तिन्दुकेद्रौ यमे मृत्यौ समये नासिते त्रिषु ॥ ७९० ॥
27.790 · p. 57
अनुष्टुप्
मूलान्याद्यशिफाभान्ताः कलहेन्त्ययुगे कलिः ।करोपहारदैत्येषु बलिर्ना गात्रजे स्त्रियाम् ॥ ७९१ ॥
27.791 · p. 57
अनुष्टुप्
स्थौल्यसामर्थ्यसैन्येषु बलं ना काकसीरिणोः ।दैत्यभेदे च वलिनि त्रिष्वोषधिभिदि स्त्रियाम् ॥ ७९२ ॥
27.792 · p. 57
अनुष्टुप्
भेद्यलिङ्गः शठे व्यालो द्वयोः शार्दूलसर्पयोः ।कुटीग्रामकयोः पल्लिः स्त्र्यस्त्री शूलं रुगायुधम् ॥ ७९३ ॥
27.793 · p. 57
अनुष्टुप्
तच्छिखा वंधकं काष्ठं शूला वारविलासिनी ।ज्वालाशङ्कू द्वयोः कीलौ कूर्परः प्रहतं रते ॥ ७९४ ॥
27.794 · p. 57
अनुष्टुप्
कर्णाधो भाजने प्रान्ते पालिः स्त्र्यश्र्यङ्कपङ्क्तिषु ।कलनाकालशिल्पेषु वृद्धौ मूलधनस्य च ॥ ७९५ ॥
27.795 · p. 57
अनुष्टुप्
इन्द्वंशेंशे तालगुरौ निवृत्त्यादौ छले कला ।शक्तावव्यक्तमधुरे ध्वाने त्रिषु मनोहरे ॥ ७९६ ॥
27.796 · p. 58
अनुष्टुप्
आल्यनर्थे सखीपङ्क्त्योः सेतौ ना वृश्चिके फलम् ।सस्यादौ फलके लाभ आयुधाग्रे कणेकृते ॥ ७९७ ॥
27.797 · p. 58
अनुष्टुप्
अब्ध्यम्बुविकृतौ वेला मर्यादा गिरिकालयोः ।फालो हलाग्रोत्प्लवयोर्लोलश्चलसतृष्णयोः ॥ ७९८ ॥
27.798 · p. 58
अनुष्टुप्
लीला विलासेनुकृतौ दलं दण्डार्धयोश्छदे ।सुगन्धपत्त्रोपादानहेत्वो रन्ध्रगुहे बिलम् ॥ ७९९ ॥
27.799 · p. 58
अनुष्टुप्
पण्यौषधिभिदो रागद्रव्ये नील्यथ झिल्लिका ।नीला त्रिषु प्राणिगुणे कपिरत्नभिदोस्तु ना ॥ ८०० ॥
27.800 · p. 58
अनुष्टुप्
मलोस्त्री पापविट्किट्टे कृपणे मलिने त्रिषु ।आणवादावशुद्धौ च कालिम्नि स्याद्वसादिषु ॥ ८०१ ॥
27.801 · p. 58
अनुष्टुप्
गवाक्षे कोरके वृन्दे दम्भे मत्स्यादिवन्धने ।धूर्तकृत्ये च जालं स्याच्छीलं वृत्तस्वभावयोः ॥ ८०२ ॥
27.802 · p. 58
अनुष्टुप्
तलं गोधास्वरूपाधःपृष्ठेष्वस्त्री पुमान्द्रुभित् ।चपेटे च वितस्तौ च व्याजस्खलितयोश्छलम् ॥ ८०३ ॥
27.803 · p. 58
अनुष्टुप्
चेलं वस्त्रे त्रिष्वधमे पलमुन्मानमांसयोः ।त्रिषु स्थूले जडे पीने हेलावज्ञाविलासयोः ॥ ८०४ ॥
27.804 · p. 58
अनुष्टुप्
गीतकालक्रियामाने मध्याङ्गुष्ठमिते तरौ ।तालः करतले चाथ तुला सादृश्यमानयोः ॥ ८०५ ॥
27.805 · p. 58
अनुष्टुप्
गृहाणां दारुबन्धार्थपीठिका सदृशं तथा ।जलोदञ्चनभाण्डे च राशिभेदे घटे द्वयोः ॥ ८०६ ॥
27.806 · p. 58
अनुष्टुप्
जलं तोयं त्रिषु जडे त्रिषु बालोर्भकाज्ञयोः ।क्लीवे ह्रीवेरके नाङ्गरुहे गोत्रे गृहे तथा ॥ ८०७ ॥
27.807 · p. 58
अनुष्टुप्
कुलं सजातीयगणे संघे शास्त्रशरीरयोः ।क्लिन्नाक्षे त्रिषु चुल्लोक्ष्णि क्लीवे चुल्ली तु पाकभूः ॥ ८०८ ॥
27.808 · p. 58
अनुष्टुप्
खलं भूस्थानकर्णेषु क्रूरपामरयोस्त्रिषु ।सैन्यस्य पश्चिमे भागे कूलमन्तिकतीरयोः ॥ ८०९ ॥
27.809 · p. 58
अनुष्टुप्
शिला द्वाराधरं दारु दृशच्च करका तथा ।प्राकारवृक्षयोः सालः सर्जे चाथ प्लवे किरे ॥ ८१० ॥
27.810 · p. 59
अनुष्टुप्
कोलः क्लीवे बदर्यां स्यात्कणा कोलाथ भूरिला ।वाक्स्वःस्त्री गौर्द्रुशाखायां गेहे गेदैकदेशयोः ॥ ८११ ॥
27.811 · p. 59
अनुष्टुप्
शाला स्याद्दर्दुरे भेलो भीरुके वाच्यलिङ्गकः ।तूलिश्चित्रोपकरणे शलाकातूलशय्ययोः ॥ ८१२ ॥
27.812 · p. 59
अनुष्टुप्
खेला क्रीडा विलासाक्षे त्रिषु दोला तु दोलिनी ।प्रेङ्खा स्थाली पाकभाण्डं पाटलास्त्री तु भाजने ॥ ८१३ ॥
27.813 · p. 59
अनुष्टुप्
शिली गण्डूपदी भेका शिलोञ्छेषु शिलश्च ना ।प्राण्यङ्गे तृणकाण्डे च ना नाली धमनौ स्त्रियाम् ॥ ८१४ ॥
27.814 · p. 59
अनुष्टुप्
न ना नालाब्जादिकाण्डे त्रिषु स्याज्जलनिर्गमे ।कमला श्रीर्मृगे पुंसि क्लीवे स्यात्पद्मतोययोः ॥ ८१५ ॥
27.815 · p. 59
अनुष्टुप्
सास्नायां नागभेदे चाप्यूर्णावाससि कम्बलः ।वातूलः पुंसि वात्यायां वाते वातासहे त्रिषु ॥ ८१६ ॥
27.816 · p. 59
अनुष्टुप्
वातलो वातुलश्चैवमाभीलं भीमकृच्छ्रयोः ।बहुलाः कृत्तिका गाव एलाः पुंस्यग्निपक्षयोः ॥ ८१७ ॥
27.817 · p. 59
अनुष्टुप्
प्रभूते च प्रायिके च शितौ च स्यात्त्रिलिङ्गकः ।उपलेक्षुविकारे स्याच्छर्करायां च नाश्मनि ॥ ८१८ ॥
27.818 · p. 59
अनुष्टुप्
रत्ने चाथामृते तोये कीलालं मण्डरक्तयोः ।छदिर्नेत्ररुजोः क्लीवे समूहे पटलं न ना ॥ ८१९ ॥
27.819 · p. 59
अनुष्टुप्
पुष्पादिभाण्डे नाध्याये प्रियङ्गुर्महिला वधूः ।पातालमौर्वाग्निरसातलयोः शङ्कुभिश्चिते ॥ ८२० ॥
27.820 · p. 59
अनुष्टुप्
श्वभ्रे कुकूलं पुंसि स्यात्तुषाग्नावथ केवलम् ।निर्णीते त्रिषु कृत्स्ने स्यादसहायेथ शिक्षिते ॥ ८२१ ॥
27.821 · p. 59
अनुष्टुप्
कुशलस्त्रिषु पर्याप्ते क्लीवे स्यात्क्षेमपुण्ययोः ।वीणादण्डे प्रवालोस्त्री विद्रुमे नवपल्लवे ॥ ८२२ ॥
27.822 · p. 59
अनुष्टुप्
देवीभेदे करालोच्चे त्रिषु स्याद्व्याप्तभीमयोः ।खण्डेस्त्री शकलं वल्के रागभेदेस्थिभिद्यपि ॥ ८२३ ॥
27.823 · p. 59
अनुष्टुप्
मृदौ स्निग्धे त्रिषु भवेद्दक्षे चारौ च पेशलः ।मण्डली स्यान्न ना संघे देशबिम्बे च मण्डलः ॥ ८२४ ॥
27.824 · p. 60
अनुष्टुप्
त्रिषु वृत्ते स्थानके तु परिधौ तु नपुंसकम् ।कर्माङ्गेप्युपलेपादौ कुष्ठं नीलब्जमुत्पलम् ॥ ८२५ ॥
27.825 · p. 60
अनुष्टुप्
उषणा पिप्पली ना तु तरुवस्त्राच्छिदाभिदोः ।क्लीवे जले स्यात्कुद्दालः खनित्रे कोविदारके ॥ ८२६ ॥
27.826 · p. 60
अनुष्टुप्
संकुलं व्याकुले व्याप्तेविस्पष्टार्थवचस्यपि ।यवाग्वां तरला रत्ने पुंसि दीप्ते चले त्रिषु ॥ ८२७ ॥
27.827 · p. 60
अनुष्टुप्
पललं तिलकल्के स्यान्मांसे च जगलस्त्रिषु ।मेचके पिष्टमद्ये ना मेखला खड्गबन्धने ॥ ८२८ ॥
27.828 · p. 60
अनुष्टुप्
काञ्च्यद्रिदेशमौञ्जीषु कपालं कर्परे त्रिषु ।उत्तमाङ्गास्थ्नि भक्ष्ये तु शष्कुली कर्णपुत्रिका ॥ ८२९ ॥
27.829 · p. 60
अनुष्टुप्
तुमुलं व्याकुले शब्दे त्रिषु स्यात्संकुले रणे ।पाटला त्रिषु वर्णे स्याद्व्रीहौ ना कुसुमे न ना ॥ ८३० ॥
27.830 · p. 60
अनुष्टुप्
जाङ्गलो निर्जले देशे पिशिते स्यान्नपुंसकम् ।दुगूलं तनुवासः स्यात्क्षौमं च चपला तडित् ॥ ८३१ ॥
27.831 · p. 60
अनुष्टुप्
कुलटे स्याद्द्वयोर्ना तु पारते चञ्चले त्रिषु ।तण्डुलो धान्यसारे स्याद्विडङ्गे कदली स्त्रियाम् ॥ ८३२ ॥
27.832 · p. 60
अनुष्टुप्
मृगभेदे ध्वजे रम्भास्तम्भे स्यादथ मञ्जुलः ।मधुरे भेद्यलिङ्गो ना जलरङ्कुपतत्रिणि ॥ ८३३ ॥
27.833 · p. 60
अनुष्टुप्
काकोलो द्रोणकाके स्याद्विषे चाप्योषधौ स्त्रियाम् ।धवलं सुन्दरे शुक्ले त्रिषु यूनि गवि द्वयोः ॥ ८३४ ॥
27.834 · p. 60
अनुष्टुप्
अचलोद्रौ स्त्रियां भूमौ देहोन्मानौ तु बाहुलौ ।कार्त्तिकः कोमला वृत्तिः स्निग्धे तुल्ये त्रिषु त्रिषु ॥ ८३५ ॥
27.835 · p. 60
अनुष्टुप्
शृङ्खला पुंस्कटीकाञ्च्यां बन्धने चायसादिके ।रसाला मधुरा भाषा भोज्यं ना त्विक्षुचूतयोः ॥ ८३६ ॥
27.836 · p. 60
अनुष्टुप्
निचुलो वेतसे चापादिकोशे - - - र्गला ।न पुमान्यन्त्रणायां च कपिलागुरुशिंशपा ॥ ८३७ ॥
27.837 · p. 60
अनुष्टुप्metre not read in every line
हरेण्वाख्यौषधिर्गोश्च मुनौ ना तद्गुणे त्रिषु ।धतूरो मातुलो मातुर्भ्राता भार्यास्य मातुली ॥ ८३८ ॥
27.838 · p. 61
अनुष्टुप्
[दारिकाबीजमाज्यं च राजसर्षप एव च ] ।श्रद्धालुर्दोहदवती श्रद्धाशीले भवेत्त्रिषु ॥ ८३९ ॥
27.839 · p. 61
अनुष्टुप्
नीलिन्यां श्रीफली बिल्वे नेभरोगे तु पाकलः ।कुष्ठे क्लीवं फेनिलं तु कुवलेरिष्टपादपे ॥ ८४० ॥
27.840 · p. 61
अनुष्टुप्
ना फेनयुक्ते त्रिषु च लाङ्गली गर्भपातनी ।तोयपिप्पल्यथ स्पष्टोशठश्च सरलस्त्रिषु ॥ ८४१ ॥
27.841 · p. 61
अनुष्टुप्
त्रिवृत्स्त्री ना तु पीतद्रौ पिच्छिलागुरुशिंशपा ।मोचातरुस्त्रिषु स्निग्धे तिनिशशोकवेतसाः ॥ ८४२ ॥
27.842 · p. 61
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श (wrong syllable)
वञ्जुलाः कन्दली वीरुत्तद्भेदमृगभेदयोः ।कपालमूलयोः क्लीवे निष्कला विगतार्तवा ॥ ८४३ ॥
27.843 · p. 61
अनुष्टुप्
विमले मन्त्रदेवादौ त्रिषु वाद्ये नपुंसकम् ।विकङ्कतः करीरश्च संनिवेशविशेषवान् ॥ ८४४ ॥
27.844 · p. 61
अनुष्टुप्
खड्गादिश्च ग्रन्थिलः स्याच्छमलं कल्मषं शकृत् ।पुंभूम्नि केशे देशे च द्वयोस्तत्स्थे च कुन्तली ॥ ८४५ ॥
27.845 · p. 61
अनुष्टुप्
मधुपात्रे भवेत्क्लीवे मरालौ हंसविस्तृतौ ।स्यान्मङ्गलः कुजे क्लीवे शुभे देव्यां स्त्रियामपि ॥ ८४६ ॥
27.846 · p. 61
अनुष्टुप्
एकाष्ठीला तु पाठायां ना वुके नडकाशयोः ।भवेत्पोटगलो गन्धफला चम्पकमालिका ॥ ८४७ ॥
27.847 · p. 61
अनुष्टुप्
प्रियङ्गुः स्यात्पुष्पफलः कूष्माण्डककपित्थयोः ।धूम्रे त्रिषु महाकालः किंपाके प्रमथे शिवे ॥ ८४८ ॥
27.848 · p. 61
अनुष्टुप्
यमतद्दूतयोः पुंसि चक्रवालं तु मण्डले ।लोकालोके पुमान्स्यात्तु विमर्दे परिशीलने ॥ ८४९ ॥
27.849 · p. 61
अनुष्टुप्
अत्युत्कृष्टे परिमलो गन्धे जनमनोहरे ।मत्तः करी मदफलस्त्रिषु चाव्यक्तवाङ्मदात् ॥ ८५० ॥
27.850 · p. 61
अनुष्टुप्
ऐरावणे गणेशे च हस्तिमल्लोथ यज्वनि ।मदिराक्रयशिल्पे च त्रिषु स्यादासुतीबलः ॥ ८५१ ॥
27.851 · p. 61
अनुष्टुप्