All kośas › Maṅkhakośa
मङ्खकोशः Maṅkhakośa
1,015 verses · text only, tagging comes next
सान्तवर्गः
भा रश्मिदीप्त्योर्न पुमान्वासौ रतगृहौकसी ।देवा देवभिदोग्निश्च योक्त्रांशू च वुके वसुः ॥ ९१८ ॥
31.918 · p. 66
अनुष्टुप्
भासि रत्ने धने क्लीवे पाठारास्नाभुवो रसाः ।मांसे नाट्ये देहधातौ वीर्ये रागे द्रवे विषे ॥ ९१९ ॥
31.919 · p. 66
अनुष्टुप्
स्वादेम्ब्लादौ चर्वणे ना ध्वनौ क्लीवे तु पारते ।खगयोगिभिदोर्हंसो निर्लोभनृपसूर्ययोः ॥ ९२० ॥
31.920 · p. 66
अनुष्टुप्
विष्णौ प्राणे चात्मनि च ज्योतिर्भद्युतिदृष्टिषु ।पुत्रादौ तर्णके वर्षे वत्सः क्लीवे सु वक्षसि ॥ ९२१ ॥
31.921 · p. 66
अनुष्टुप्
ध्वान्ते राहौ गुणे शोके तमो वेधा विधातरि ।विष्णौ विदुषि चाथार्चिर्ज्वालाभासोर्न पुंस्ययम् ॥ ९२२ ॥
31.922 · p. 67
अनुष्टुप्
सरित्प्रवाहे खद्वारे स्रोतः स्यात्करिणः करे ।वर्चांसि रूपविड्भासो रहः सुरतगुह्ययोः ॥ ९२३ ॥
31.923 · p. 67
अनुष्टुप्
एनोपराधे दुरितेप्यागः पापापराधयोः ।रजो गुणे च रेणौ च योषितामार्तवेपि च ॥ ९२४ ॥
31.924 · p. 67
अनुष्टुप्
द्वारोर्ध्वदारु नासा स्यान्नासिका चाथ यौवनम् ।देहावस्था वयः पक्षी मह उत्सवतेजसोः ॥ ९२५ ॥
31.925 · p. 67
अनुष्टुप्
छन्दः पद्येभिलाषे च वेदे चौजो बले रुचौ ।गृहं सदाश्रयश्चौकः पयः क्षीरे जलेपि च ॥ ९२६ ॥
31.926 · p. 67
अनुष्टुप्
तेजः प्रभावो दीप्तिश्च बलशुक्रासहिष्णुताः ।नमो वर्षाः श्रावणोभ्रमन्तरिक्षे नपुंसकम् ॥ ९२७ ॥
31.927 · p. 67
अनुष्टुप्
सहो दीप्तौ बले मार्गशीर्षहेमन्तयोः पुमान् ।तपास्तु शिशिरे माघे क्लीवं कृच्छ्रादिके व्रते ॥ ९२८ ॥
31.928 · p. 67
अनुष्टुप्
चौर्यादिकर्म हिंसा स्याद्वधश्च जननी प्रसूः ।अश्वा चाथ स्त्रियामाशीर्हिताशंसाहिदंष्ट्रयोः ॥ ९२९ ॥
31.929 · p. 67
अनुष्टुप्
स्त्र्युषाः संध्या प्रभाते तु क्लीवे भासः प्रभांशवः ।मणिदोषो भयं त्रासः सर्पिर्होतव्ययोर्हविः ॥ ९३० ॥
31.930 · p. 67
अनुष्टुप्
नाग्नौ क्लीवे कुशे बर्हिरुरः श्रेष्ठेपि वक्षसि ।असिः खड्गे तथा चापे शुभाकारे तनौ वपुः ॥ ९३१ ॥
31.931 · p. 67
अनुष्टुप्
अदः परस्मिन्नत्रापि शंसोक्तौ स्तुतिवाञ्छयोः ।आत्मज्ञे पण्डिते विद्वान्क्लीवे द्यौर्भूश्च रोदसी ॥ ९३२ ॥
31.932 · p. 67
अनुष्टुप्
पुनरर्थेव्ययं भूयोतिवह्वर्थे त्रिलिङ्गकः ।[प्रशस्तवृद्धयोर्ज्यायानुत्कर्षार्थे त्रिलिङ्गकः] ॥ ९३३ ॥
31.933 · p. 67
अनुष्टुप्
मृत्सौषधिः प्रशस्ता मृद्दासी वीरुच्च नर्तकी ।भृत्ये द्वयोर्वरासी तु वरखड्गोच्चशाटकौ ॥ ९३४ ॥
31.934 · p. 67
अनुष्टुप्
लालसे प्रार्थनौत्सुक्ये तद्वति स्यात्त्रिलिङ्गकः ।[आशंसा वचनं वाञ्छा स्तुतिः संभावना तथा] ॥ ९३५ ॥
31.935 · p. 67
अनुष्टुप्
स्तुतिः प्रशंसा श्लाघा च दिवौकाश्चातके सुरे ।उदर्चिरुत्प्रभे वह्नौ रभसो हर्षवेगयोः ॥ ९३६ ॥
31.936 · p. 68
अनुष्टुप्
वतंसोस्त्री कर्णपूर उत्तंसश्चापि शेखरे ।सुमनाः स्त्री पुष्पजात्योर्देवपण्डितयोः पुमान् ॥ ९३७ ॥
31.937 · p. 68
अनुष्टुप्
सारसः खगभेदे स्यात्क्लीत्रे तु सरसीरुहे ।त्रिषु धानुष्क इष्वासो भवेत्क्लीवे तु कार्मुके ॥ ९३८ ॥
31.938 · p. 68
अनुष्टुप्
व्योम्न्यस्त्रियां विहायः स्यात्पुंवहुत्वे पतत्रिषु ।बलात्कारकृतं कर्म साहसं दण्डभित्तथा ॥ ९३९ ॥
31.939 · p. 68
अनुष्टुप्
बीभत्सो विकृते क्रूरे निन्द्ये च त्रिषु फल्गुने ।पुंसि नाट्यरसे च स्याज्जुगुप्सायां नपुंसकम् ॥ ९४० ॥
31.940 · p. 68
अनुष्टुप्
वरीयानतिविस्तीर्णे तथा वरतरे त्रिषु ।बाढसाध्वोरतिशये साधीयान्वाच्यलिङ्गकः ॥ ९४१ ॥
31.941 · p. 68
अनुष्टुप्
युवाल्पयोरतिशये कनीयानपि भेद्यत्रत् ।पाठा हरीतकी हस्तिपिप्पली श्रेयसी त्रिषु ॥ ९४२ ॥
31.942 · p. 68
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 7 द्य (wrong syllable)
शस्तेथ पायसं दुग्धसंस्कृते बलिभिद्यापि ।श्रीवासे नौषधिभिदि राक्षसी रक्षसि द्वयोः ॥ ९४३ ॥
31.943 · p. 68
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 7 द्या (wrong syllable)
तद्भवादौ त्रिष्वभुक्तावुपवासो व्रतस्थितौ ।मूर्वाद्राक्षे मधुरसे मृद्वीका च शतावरी ॥ ९४४ ॥
31.944 · p. 68
अनुष्टुप्
काकोली परिहासः स्यात्क्रीडोपहसनं तथा ।शेखरे कर्णपूरे चावतंसं पुंनपुंसकम् ॥ ९४५ ॥
31.945 · p. 68
अनुष्टुप्
जले सान्द्रे च निर्यासे भवेट्घनरसोस्त्रियाम् ।कादम्बे राजहंसे च कलहंसो द्वयोर्भवेत् ॥ ९४६ ॥
31.946 · p. 68
अनुष्टुप्
चन्द्रहासो रावणासावसिमात्रेथ संस्कृतौ ।धूपमन्त्रादिभिर्वासेप्यधिवासः पुमानयम् ॥ ९४७ ॥
31.947 · p. 68
अनुष्टुप्
निःश्रेयसं शिवे मोक्षे सूर्यवह्नी विभावसू ।निम्बे स्याद्धिङ्गुनिर्यासस्तथा हिङ्गुतरुद्रवे ॥ ९४८ ॥
31.948 · p. 68
अनुष्टुप्