कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Maṅkhakośa

मङ्खकोशः Maṅkhakośa

1,015 verses · text only, tagging comes next

षान्तवर्गः

त्विट् शोभा रुक्च तृड्लिप्सा तर्षो विड्मलगूथयोः ।ऋषिर्वेदे वसिष्टादौ भवेद्घोषो गवां गणे ॥ ९०० ॥
30.900 · p. 65
अनुष्टुप्
गोपपल्लौ गह्वरे च स्वरे मेघादिनिःस्वने ।उपयुक्तेतरच्छेपं त्रिषु ना नागसीरिणोः ॥ ९०१ ॥
30.901 · p. 65
अनुष्टुप्
प्रसादान्निजनिर्माल्यदाने स्त्री स्याद्वृषो गवि ।शुक्रले मूषके श्रेष्ठे शृङ्गीवाशिकयोः शुभे ॥ ९०२ ॥
30.902 · p. 65
अनुष्टुप्
झषा नागबला ना तु मत्स्ये स्याद्वत्सरेस्त्रियाम् ।वर्षो वृष्टौ लोकधातावुषा बाणसुता निशा ॥ ९०३ ॥
30.903 · p. 65
अनुष्टुप्
दोषो गुणेतरे रात्रौ स्त्री भ्रेषो नाशगर्हयोः ।करीषाप्नौ पुमान्कर्षूस्त्रिषु कृष्यल्पकुल्ययोः ॥ ९०४ ॥
30.904 · p. 65
अनुष्टुप्
शुषिः शोषे बले क्लीवे विषं क्ष्वेडे जले तथा ।स्त्रियां प्रतिविषायां स्याच्छोषस्तानवरोगयोः ॥ ९०५ ॥
30.905 · p. 65
अनुष्टुप्
तुषो विभीतको दोषो धान्यचर्मावृतौ धने ।तद्गृहे पट्टयोन्यादौ कोषः शान्तश्च कैश्चन ॥ ९०६ ॥
30.906 · p. 65
अनुष्टुप्
शैलूषो नर्तके बिल्वे मनीषा धिषणेच्छयोः ।अभींषुः प्रग्रहे रश्मौ पुरुषा स्रात्मसाधनः ॥ ९०७ ॥
30.907 · p. 65
अनुष्टुप्
पञ्चहस्तप्रमाणे च कल्माषौ कृष्णकर्बुरौ ।रोहिषं रक्तकत्तृणं मत्स्यभिद्धरिणान्तरम् ॥ ९०८ ॥
30.908 · p. 66
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 त्तृ (wrong syllable)
शुण्डाग्रभागे गण्डूषा द्वयोश्च मुखपूरणे ।प्रसृतोन्मित उष्णीषः शिरोवेष्टकिरीटयोः ॥ ९०९ ॥
30.909 · p. 66
अनुष्टुप्
पुंसः कृत्यविशेषे स्यात्पौरुषं तन्मिते त्रिषु ।आमिषे पललोत्कोचावामिषी स्यात्तु मल्लकी ॥ ९१० ॥
30.910 · p. 66
अनुष्टुप्
पीयूषममृते नूत्नदुग्धक्वाथे घने द्वयोः ।व्यक्तौ भेदे विशेषः स्यात्प्रदोषो दोषिकालयोः ॥ ९११ ॥
30.911 · p. 66
अनुष्टुप्
त्रिष्वाविले स्यात्कलुषं पापे च महिषी प्रभोः ।स्त्रियां द्वयोः पशावंहस्यपराधे च किल्विषम् ॥ ९१२ ॥
30.912 · p. 66
अनुष्टुप्
आकर्षः शारिफलक आक्षेपे पाशके तथा ।निष्ठुरे वचने रूक्षे परुषं कर्बुरे त्रिषु ॥ ९१३ ॥
30.913 · p. 66
अनुष्टुप्
सदृशे च जिगीषा स्याज्जयेच्छाव्यवसाययोः ।संघर्षौ कषणस्पर्धे उपासाश्रवणेच्छयोः ॥ ९१४ ॥
30.914 · p. 66
अनुष्टुप्
शुश्रूषानिमिषा मत्स्याः सुराः शम्यां तु न स्त्रियाम् ।कपिशीर्षे भित्तिशृङ्गे रथाधो दारु कर्षणम् ॥ ९१५ ॥
30.915 · p. 66
अनुष्टुप्
अनुकर्षमनुतर्षोभिलाषश्चषकः सुरो ।परिवेषस्तु वलने परिधौ मण्डले तथा ॥ ९१६ ॥
30.916 · p. 66
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 नु (wrong syllable)
कालमेषी तु मञ्जिष्ठा बृहती सोमराजिका ।पलंकषा भवेल्लाक्षा गोक्षुरो गुग्गुलुस्तथा ॥ ९१७ ॥
30.917 · p. 66
अनुष्टुप्