कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Maṅkhakośa

मङ्खकोशः Maṅkhakośa

1,015 verses · text only, tagging comes next

पान्तवर्गः

ओड्रपुष्पे जपा मन्त्रावृत्तौ ना भयवेपथू ॥ ५३२ ॥
20.532 · p. 39
स्वरभिद्वरुणः कम्पो भावभेदश्च सात्त्विकः ।ग्रन्थावृत्तौ पशौ शब्दे नाटकादिस्वभावयोः ॥ ५३३ ॥
20.533 · p. 39
अनुष्टुप्
सौन्दर्याकारयो रूपं रङ्गसीसकयोस्त्रपु ।कल्पः शास्त्रे विधौ न्याय्ये संवर्ते ब्रह्मणो दिने ॥ ५३४ ॥
20.534 · p. 39
अनुष्टुप्
गर्तोदपानयोः कूपस्तथा स्याद्गुणवृक्षके ।क्षेपणावज्ञयोः क्षेपो लेपो लेपनमृत्क्रिये ॥ ५३५ ॥
20.535 · p. 39
अनुष्टुप्
आक्रोशे शपथे शापः पुष्पमार्तवसूनयोः ।द्वयोर्गोपी वल्लवी स्त्री शारिवा पातरीश्वरे ॥ ५३६ ॥
20.536 · p. 39
अनुष्टुप्
गोष्ठाध्यक्षे ग्रामवृन्दपतौ गोपो भवेत्त्रिषु ।तल्पं शय्याट्टदारेषूपर्याधारेषु वेश्मनः ॥ ५३७ ॥
20.537 · p. 39
अनुष्टुप्
तापद्रव्यभिदौ धूपौ वपा विवरमेदसोः ।वाष्पावूष्मास्रुणी सूपो व्यञ्जने सूपकारके ॥ ५३८ ॥
20.538 · p. 39
अनुष्टुप्
ग्रन्थिपर्णे तु शष्पं स्याद्व्रीहौ रूढे हरित्तृणे ।शाखायां विस्तृतौ स्तम्बे विटपं पुंनपुंसकम् ॥ ५३९ ॥
20.539 · p. 39
अनुष्टुप्
आक्षेपौ भर्त्सनाकर्षावुडुपः प्लवचन्द्रयोः ।आवाप आलवाले स्यात्प्रक्षेपे वलये तथा ॥ ५४० ॥
20.540 · p. 39
अनुष्टुप्
रूढप्रधानयोर्नीतितन्त्रे स्यादथ कल्पने ।वेशे चाकल्प आच्छादनान्ने कशिपु ते पृथक् ॥ ५४१ ॥
20.541 · p. 39
अनुष्टुप्
कुतपो वाद्यविन्यासे दर्भकालप्रभेदयोः ।छागरोममये वस्त्रे कूर्मी वीणा च कच्छपी ॥ ५४२ ॥
20.542 · p. 39
अनुष्टुप्
कलापः संहतौ वर्हे काञ्चीतूणीरयोरपि ।प्रतापावातपख्याती सुरूपो बुधरूपिणोः ॥ ५४३ ॥
20.543 · p. 39
अनुष्टुप्
प्राप्तरूपाभिरूपौ चावलेपौ मदगर्हणे ।परिच्छदे परीवापो वपने सलिलस्थितौ ॥ ५४४ ॥
20.544 · p. 40
अनुष्टुप्
वृषाकपी विष्णुशिवावग्निरिन्द्रो दिवाकरः ।हेमपुष्पी तु दुःस्पर्शा बिम्बिका पीतयूथिका ॥ ५४५ ॥
20.545 · p. 40
अनुष्टुप्
श्रीवासः सिल्हकश्च स्याद्वृकधूपोथ वेतसे ।जले च मेघपुष्पं स्यादुपक्षेप उपक्रमे ॥ ५४६ ॥
20.546 · p. 40
अनुष्टुप्