All kośas › Maṅkhakośa
मङ्खकोशः Maṅkhakośa
1,015 verses · text only, tagging comes next
अव्ययवर्गः
आ प्रगृह्यः स्मृतो वाक्य आश्चित्रे कोपपीडयोः ।आङीषदर्थे व्याप्तौ च मर्यादायां क्रियान्वये ॥ ९७५ ॥
34.975 · p. 70
अनुष्टुप्
इ दुःखभावने कोप उदाह्वाने विसर्जने ।पापकुत्सेषदर्थे कु धिङ् निर्भर्त्सननिन्दयोः ॥ ९७६ ॥
34.976 · p. 70
अनुष्टुप्
चोन्वाचये समाहारेतरेतरसमुच्चये ।विनियोगे तुल्यकाले हेतौ यद्यर्थ एव च ॥ ९७७ ॥
34.977 · p. 71
अनुष्टुप्
स्वित्प्रश्ने च वितर्के च तुर्विशेषेवधारणे ।यद्वाक्योपक्रमे हेतौ यदायद्यर्थयोरपि ॥ ९७८ ॥
34.978 · p. 71
अनुष्टुप्
तद्धेतावुपसंहारे तदातर्ह्यर्थथोरपि ।सकृत्सहैकवारार्थे सदार्थे चाथ मङ्गले ॥ ९७९ ॥
34.979 · p. 71
अनुष्टुप्
स्वस्त्वाशीःक्षेमपुण्यादौ प्रकर्षे लङ्घनेप्यतिः ।प्रतिच्यां चरमे पश्चादाराद्दूरसमीपयोः ॥ ९८० ॥
34.980 · p. 71
अनुष्टुप्
विकल्पप्रश्नसत्यार्थेषूतासत्याविकल्पयोः ।पुनः सह सदा शश्वत्साक्षात्प्रत्यक्षतत्त्वयोः ॥ ९८१ ॥
34.981 · p. 71
अनुष्टुप्
खेदानुकम्पासंतोषविस्मयामन्त्रणे वत ।हन्त हर्षे कृपादाने वाक्यारम्भविषादयोः ॥ ९८२ ॥
34.982 · p. 71
अनुष्टुप्
प्रतिः प्रतिनिधौ वीप्सालक्षणादौ प्रयोगतः ।इति हेतुप्रकरणप्रकर्षादिसमाप्तिषु ॥ ९८३ ॥
34.983 · p. 71
अनुष्टुप्
मतस्वरूपैवमर्थविवक्षानियमादिषु ।यावत्तावच्च साकल्ये हेतौ मानेवधारणे ॥ ९८४ ॥
34.984 · p. 71
अनुष्टुप्
संप्रत्यवधिभाव्यर्थेष्वीर्ष्यापीडाप्रतिश्रवे ।पुरस्तात्प्रथमं प्राच्यामानन्तर्येग्रतोपि च ॥ ९८५ ॥
34.985 · p. 71
अनुष्टुप्
देशे कालेपि चाधस्ताद्दक्षिणेधोभवेपि च ।किमुत स्यादतिशये प्रश्नमध्यविकल्पयोः ॥ ९८६ ॥
34.986 · p. 71
अनुष्टुप्
मङ्गलानन्तरारम्भप्रश्नकार्त्स्न्येष्वथो अथ ।अङ्गीकारेधिकारे च स्याद्वितर्कविकल्पयोः ॥ ९८७ ॥
34.987 · p. 71
अनुष्टुप्
वृथा निरर्थकाविध्योः सादृश्ये प्रक्रमे यथा ।प्रकारयोग्यतावीप्सापदार्थानतिलङ्घने ॥ ९८८ ॥
34.988 · p. 71
अनुष्टुप्
तथातिदेशेनुज्ञाने प्रकारेपि समुच्चये ।नः पृच्छायां वितर्के च पश्चात्सादृश्ययोरनु ॥ ९८९ ॥
34.989 · p. 71
अनुष्टुप्
दैर्ष्ये च लक्षणादौ च तत्त्वाख्यानेप्यथो ननु ।प्रश्नावधारणानुज्ञानुनयामन्त्रणोत्तरे ॥ ९९० ॥
34.990 · p. 71
अनुष्टुप्
आक्षेपेच्छानिश्चयेषु वाक्यादिप्रतिवाक्ययोः ।गर्हासमुच्चयप्रश्नशङ्कासंभावनास्वपि ॥ ९९१ ॥
34.991 · p. 72
अनुष्टुप्
आक्षेपादौ पदार्थे च वर्जने गर्हणेप्यपः ।उपः समीप आधिक्ये हीनत्वेङ्गीकृतावपि ॥ ९९२ ॥
34.992 · p. 72
अनुष्टुप्
किं पृच्छायां जुगुप्सायामाक्षेपेल्पावसानयोः ।हुं वितर्के परिप्रश्ने प्रक्रान्तोक्तिनिवारणे ॥ ९९३ ॥
34.993 · p. 72
अनुष्टुप्
भयादौ भर्त्सने कोपेनिच्छायामथ कं जले ।मूर्धनिन्दासुखेषु स्यादां सत्यार्थे स्मृतौ तथा ॥ ९९४ ॥
34.994 · p. 72
अनुष्टुप्
अमा सह समीपे स्यात्सामि त्वर्घे जुगुप्सने ।तूष्णीमर्थे सुखे जोषं नूनं तर्केर्थनिश्चये ॥ ९९५ ॥
34.995 · p. 72
अनुष्टुप्
उपांशु वचने तूष्णीमेवमित्थंतथार्थयोः ।निर्देशे चोपदेशे च निश्चये च प्रतिश्रवे ॥ ९९६ ॥
34.996 · p. 72
अनुष्टुप्
नाम प्राकाश्यसंभाव्यक्रोधोपगमकुत्सने ।विस्मयस्मृत्यलीकेषु समं तुल्यसहार्थयोः ॥ ९९७ ॥
34.997 · p. 72
अनुष्टुप्
अलं भूषणपर्याप्तिसामर्थ्येषु निवारणे ।सांप्रतं वर्तमानार्थे युक्तार्थेनन्तरं तथा ॥ ९९८ ॥
34.998 · p. 72
अनुष्टुप्
मध्येन्तिके च समया निर्निश्चयनिषेधयोः ।स्वर्गे परे च लोके स्वर्भेदाप्रथमयोः पुनः ॥ ९९९ ॥
34.999 · p. 72
अनुष्टुप्
प्रातः प्रभाते स्वार्थे च मध्ये बाह्येन्तरित्यपि ।स्यात्प्रबन्धे चिरातीते निकटागामिफे पुरा ॥ १००० ॥
34.1000 · p. 72
अनुष्टुप्
ऊर्युरर्युरुरी चैते विस्तारेङ्गीकृतावपि ।किल संभाव्यवार्त्तार्थहेत्वलीकारुचिष्वथ ॥ १००१ ॥
34.1001 · p. 72
अनुष्टुप्
निषेधवाक्यालंकारजिज्ञासानुनये खलु ।-- ल शंसानिश्चययोर्वा विकल्पोपमानयोः ॥ १००२ ॥
34.1002 · p. 72
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
द्वंद्वे समुच्चये च स्यादेवौपम्येवधारणे ।अवज्ञायां मनागर्थ उत्प्रेक्षातर्कयोरपि ॥ १००३ ॥
34.1003 · p. 72
अनुष्टुप्
तिरोन्तर्धो तिर्यगर्थे मिथोन्योन्यं रहस्यपि ।जन्मप्राकाश्ययोः प्रादुरधो बुधनिकारयोः ॥ १००४ ॥
34.1004 · p. 72
अनुष्टुप्
नमः पूजाप्रह्वतयोस्तत्त्वं मुख्यत्वमञ्जसा ।कष्टे क्षतौ हशब्दः स्यादा - - र्थस्य सूचने ॥ १००५ ॥
34.1005 · p. 73
अनुष्टुप्metre not read in every line
दुःखे शोके विषादे [ हा ] - - - - - ।हिशब्दः स्याद्विशेषा - - - - चावधारणे ॥ १००६ ॥
34.1006 · p. 73
metre not recognised
अह क्षेपे विनियोगेहह खेदेद्भुत - - - ॥
34.33 · p. 73
अभ्यादानेभ्युपगमे तूष्णींभावे समर्चने ।दानप्रतिग्रहादौ स्यादोंकारोपि च मङ्गले ॥ १००७ ॥
34.1007 · p. 73
अनुष्टुप्