कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

द्वितीया

dvitīyāस्त्री · fem.

In 16 kośas: 14 synonym verses, 7 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.513 · p. 23
सुवासिनी वधूटी स्याच्चिरिण्ट्यथ सधर्मिणी ।पत्नी सहचरी पाणिगृहीती गृहिणी गृहाः ॥ ५१२ ॥दारा क्षेत्रं वधूर्भार्या जनी जाया परिग्रहः ।द्वितीयोढा कलत्रं च पुरंध्री तु कुटुम्बिनी ॥ ५१३ ॥
अनुष्टुप्
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह मनुष्यवर्गः Amarakośa 2.6.6
पत्नी पाणिगृहीती च द्वितीया सहधर्मिणी ॥ ५ ॥भार्या जायाऽथ पुंभूम्नि दाराः स्यात्तु कुटुम्बिनी ।पुरन्ध्री सुचरित्रा तु सती साध्वी पतिव्रता ॥ ६ ॥
अनुष्टुप्
genderस्त्रीfem.
गणितनाममाला Gaṇitanāmamālā · हरदत्त राश्यंशकलासंज्ञा Gaṇitanāmamālā 23.94 · p. 6
एकादशी तिथिर्नन्दा षष्ठी च प्रतिपत्तथा ।द्वितीया सप्तमी भद्रा गदिता द्वादशी बुधैः ॥ ९४ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.44 · p. 25
भार्या दाराः पुंसि भूम्नि स्यादेकत्वे स्त्रियामियम् ।पत्नी पाणिगृहीती च पुरन्ध्रिश्च पुरन्ध्र्यपि ।अन्या पाणिगृहीता स्यात् द्वितीया सहधर्मिणी ॥ ४४ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ कालवर्गः Koṣakalpataru 1.4.52 · p. 45
नवाहः पुंसि वृद्धिः स्त्री प्रतिपत्पक्षतिर्भवेत् ।वत्सरादिश्चैत्रशुक्ला साऽथ कार्त्तिकशुक्लगा ॥असौ बलिदिनं नावरात्रिकी त्विषशुक्लगा ।सुमङ्गलपदा ब्राह्मी द्वितीया युग्मनामिका ॥ ५२ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.13 · p. 203
भार्या जाया च गृहिणी द्वितीयोढा जनी वधूः ।क्षेत्रं परिग्रहो भूम्नि दाराः पुंसि गृहा गृहम् ॥ १३ ॥
अनुष्टुप्
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.180 · p. 124
द्वितीयोढा कलत्रं स्यात्कुटुम्बिन्यां पुरन्ध्र्यपि ।भ्रातृजाया प्रजावत्यां पुत्रभार्या जनी स्नुषा ॥ १८० ॥
अनुष्टुप्
genderस्त्रीfem.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति अङ्गवर्गः Śāradīyākhyanāmamālā 2.1.9 · p. 20
ऊढा पाणिगृहीता च कलत्रं गृहिणी वधूः ।दयिता च प्रियतमा द्वितीया च सधर्मिणी ॥ ९ ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.803 · p. 116
सधर्मचारिणी भार्या द्वितीया सहधर्मिणी ।ऊढा क्षेत्रं कलत्रं च करात्ती गृहिणी जनी ॥ ८०३ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.118 · p. 91
कृताभिषेका राजस्त्री महिष्यन्या च भोगिनी ।पत्नी सधर्मिणी भार्या द्वितीया सहधर्मिणी ।जाया पाणिगृहीती च धर्मचारिण्यपि क्वचित् ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण कालाध्यायः Śabdaratnākara 1.8.241 · p. 33
निपक्षतिर्द्वितीया स्याद् भूतेष्टा तु चतुर्दशी ।स्त्रीपुंसे तु तिथिः पौर्णमासी पूर्णा च पूर्णिमा ॥ २४१ ॥
अनुष्टुप्
genderस्त्रीfem.
पितामहो द्विठान्तो भूः क्रिया कान्तिश्च सम्भवः ।द्वितीया मानदा काशी विघ्नराजः कुजो वियत् ।स्वरान्तकश्च हृदयमङ्गुष्ठो भगमालिनी ॥ ११ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश ज्योतिरध्यायः Vaijayantī 2.1.70 · p. 22
पक्षतिश्चाथ पाटूरो भूतेष्टा च चतुर्दशी ।निपक्षतिर्द्वितीया स्याद्दर्शोऽमावास्यमावसी ॥ ७० ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश भूताध्यायः Vaijayantī 4.4.34 · p. 175
समानोदर्यसोदर्यौ सगर्भः सोदरः समाः ।भार्या जाया सहचरी द्वितीया सहधर्मिणी ॥ ३४ ॥
अनुष्टुप्
genderस्त्रीfem.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध अनेकार्थकाण्डम् Abhidhānaratnamālā (Halāyudha) 5.802 · p. 92
पत्न्यामपि द्वितीया दर्भेऽपि पवित्रमवधिरवटेऽपि ।प्रकृतावपि प्रधानं विवक्षितं शोभनेऽपि स्यात् ॥ ८०२ ॥
आर्या
धरणिकोश Dharaṇikośa · धरणिदास यार्धश्लोकः Dharaṇikośa 25.2.25 · p. 154
द्वितीया कथ्यते जाया पूरणी स्याच्च यद्द्वयोः ।अभिख्या कीर्तिता कीर्तावभिख्या नामशोभयोः ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ यान्ताः Koṣakalpataru 6.26.85 · p. 299
भवेदहल्याप्सरसां विशेषे[42b]स्याद्गोतमस्यापि मुनेः कलत्रे ।पत्न्यां द्वितीया तिथिभेदके चद्वयोः पुनः पूरणकेऽन्यवत्स्यात् ॥ ८५ ॥
उपजातिःmetre not read in every line
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.929 · p. 128
स्त्री तु द्वितीया भार्यायामजदैवतके तिथौ ।द्वितीयस्यां विभक्तौ च द्विजिह्वस्तु त्रि सूचके ॥ ९२९ ॥
अनुष्टुप्
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास दकारादयः Paramānandīyanāmamālā 5.16.241 · p. 193
द्रविणं द्युम्नवद्द्रव्ये सङ्घौषधपराक्रमे ।द्वितीया गेहिनीतिथ्योर्दारदः पारदे विषे ॥ २४१ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश यान्ताः Śabdaratnāvalī 7.26.42 · p. 261
जरायुस्तत्र विहगे भवेद्गर्भाशये पुमान् ।तपस्यः फाल्गुणे पुंसि व्रतचर्यास्वपि स्त्रियाम् ॥द्वितीया तिथिपत्न्योः स्त्री पूरणे तु द्वयोस्त्रिषु ।देवयुर्ना सुरे धर्मशीलेऽभिमातृके(?)ऽन्यवत् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 भि (wrong syllable)
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.315 · p. 201
द्वितीया तिथिभित्पत्न्योः पार्थेऽग्नौ च धनञ्जयः ।निकायौ सङ्घनिलयौ नित्ये सततशाश्वते ॥ ३१५ ॥
अनुष्टुप्