प्रसन्न
prasannaवि · adj.In 9 kośas: 9 synonym verses, 2 as a nānārtha head word, 5 as a meaning of another word.
genderविadj.
genderविadj.
व्यक्तं पूर्णं प्रसन्नं च सुकुमारमलङ्कृतम् ।समं सुरक्तं सुश्लक्ष्णं विक्रुष्टं मधुरं तथा ॥ ४२ ॥
अनुष्टुप्
genderक्लीneut.
प्रसन्नमच्छं विमलं कलुषेऽनच्छमाविलम् ।पिच्छिलं स्याद्विजयिनं द्राग्भृतं तत्क्षणोद्धृतम् ॥ऋक्षरं वारिधारा स्याद्घर्घरो वारिनिःस्वनः ।देशं विनाद्भिरन्वीतमन्वीपं भेद्यलिङ्गकम् ॥पारावारः समुद्रो जलनिधिरुदधिर्वीचिमाली समीचःपारापारश्च पारीस्तिमिरपि पुरणः स्यात्सरस्वानुदन्वान् ।गङ्गानाथो नदीनोदरथि-कधि-महाकच्छ-शीतांशुताता-कूपारावारपारा भुविरविष-पयो एगप्से(?)पांपतिश्च ॥ १५ ॥
स्रग्धराmetre not read in every linenearly स्रग्धरा: pāda 2, syllable 16 ग (wrong syllable)
genderविadj.
प्रसन्नाच्छेऽप्यथानच्छमाविलं कलुषं समे ।प्रालेयतुहिने तुल्ये अवश्यायो नरि स्मृतः ॥ ३४९ ॥
अनुष्टुप्
genderविadj.
अच्छं जलं प्रसन्नं स्यादनच्छं कलुषाऽविले ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स्तु (wrong syllable)
genderविadj.
जलसेचनके पात्रे सेकपात्रन्तु सेचनम् ।त्रिषु चागाधपर्यन्तुं प्रसन्नोऽच्छस्तु निर्मले ॥
अनुष्टुप्
genderविadj.
प्रसन्नमच्छं कलुषमनच्छं चाविलं त्रिषु ।कासारः सरसी सरः कमलिनी पद्माकरो दीर्घिकावाणी द्वौ तु महाजलौ हृदनदौ क्षुद्रा सरित्कृत्रिमा ॥ ३५५ ॥
अनुष्टुप्two metres in one verse
genderविadj.
सर्वस्वभूतः पञ्चेषोः शृङ्गारः शुचिरुज्वलः ।स्निग्धं निष्पन्दमन्दस्तिमितविहसितन्यञ्चिताकुञ्चितानिस्मेरानन्दिप्रसन्नस्थिरमसृणमहीत्यश्रुविष्फारितानि ।प्रेङ्खोलोल्लासिलोलप्रणयिविलुलितप्रेमगर्भत्रिभङ्गि-व्यासङ्गिस्फीतकान्तीन्यलसमदनकह्लादिरूक्षाञ्चितानि ॥ ९६४ ॥
अनुष्टुप्two metres in one verse
genderविadj.
विदारिते प्रसन्ना तु स्त्री सुरायामथ त्रिषु ।अनाविलेऽथ प्रसवोन्मुखायां सुरभौ स्त्रियाम् ॥ ११११ ॥
अनुष्टुप्
meaningsअनाविल
तोदनं व्यथने तोत्रे दंशनं वर्मदंशयोः ।दर्शनं दर्पणे शास्त्रे नयनस्वप्नबुद्धिषु ॥दमनः कुसुमे वीरे उपशान्तेऽपि कुत्रचित् ।दशनः शिखरे दन्ते कवचे तु नपुंसकम् ॥दहनो दुष्टचेष्टाग्निभल्लाते चित्रकेऽपि च ।दृशानं तेजसि क्लीबं स्यात्पुमांस्तु विरोचने ॥देवनन्तु जिगीषायां स्यात्क्रीडाव्यवहारयोः ।अक्षेषु देवनः पुंसि सेवायामपि देवना ॥ध्वजी रथे च भूदेवे भये सर्पे धराधरे ।धन्वी ककुभवृक्षे स्यादर्जुने च धनुर्धरे ॥धन्व क्लीबे स्थले चापे धन्वा ना मरुदेशके ।धमनो नालभेदे भस्त्राध्मापकक्रूरयोस्त्रिषु ॥धमनी च शिराहट्टविलासिन्योरपि स्त्रियाम् ।धावनन्तु गतौ शुद्धै पृश्नीपर्ण्यान्तु धावनी ॥धाम गेहे तनौ रश्मौ स्थाने प्रभावजन्मनोः ।नन्दनं वासवोद्यानं पुमानात्यजहर्षयोः ॥नन्दी हरद्वारपाले कन्दवाले वटद्रुमे ।नन्दिन्युमाधेनुभेदगङ्गाननान्दृषु स्त्रियाम् ॥नलिन्याकाशगङ्गायां पद्मिन्यां कमलाकरे ।अम्भोरुहे तु न पुमान् नीलिकायां नपुंसकम् ॥निदानं वत्सदामादिकारणे क्षयकारणे ।निधनं नाशकुलयोः प्रधनं युधि दारुणे ॥पवनं स्यात्कुम्भकारपाकस्थाने नपुंसकम् ।स्यात्पुमांस्तु जगत्प्राणे निष्पावे प्रयतेऽपि च ॥प्रधानं प्रकृतिप्रज्ञामहामात्यपरात्मसु ।एकत्वे चोत्तमे क्लीबं वाच्यलिङ्गन्तु कुत्रचित् ॥पद्मिनी स्त्रीविशेषे स्यात्पद्मसङ्घे सरोऽम्बुजे ।प्रसन्ना स्त्री सुरायां स्यात्सन्तुष्टामलयोस्त्रिषु ॥प्रसूनं पुष्पफलयोः क्लीबं जाते तु वाच्यवत् ।पत्री पत्ररथे श्येनेऽत्रिकाण्डे रथिके त्रिषु ॥पर्व स्यादुत्सवे ग्रन्थौ प्रस्तावचिह्नभेदयोः ।स्याद्दर्शप्रतिपत्सन्धौ विषुवत्प्रभृतिष्वपि ॥पक्ष्मसूत्रांशमुद्रादिकिञ्जल्कनेत्ररोमसु ।पाठीनः पाठके मीनभेदे च गुग्गुलुद्रुमे ॥
metre not recognisednearly अनुष्टुप्nearly अनुष्टुप्: pāda 2, syllable 3 प्र (wrong syllable)nearly अनुष्टुप्: pāda 4, syllable 3 न (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 व (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 ल्क (wrong syllable); pāda 4, syllable 3 च (wrong syllable)
प्रसन्न as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् अच्छप्रसन्ने भल्लुकेऽप्यच्छो गुच्छः स्तबकहारयोः । Amarakośa 3.3.58
- कोषकल्पतरु ?जङ्घायां तु स्त्री स्यात्परवन्नम्रे प्रसन्ने च । स्याद्वेगितेऽथ भद्रे सत्ये चान्त्ये प्रियोक्तौ तु ॥ ९६ ॥ Koṣakalpataru 6.16.96
- कोषकल्पतरु वरदस्याद्याम्यदिग्दन्तिवधूगतः स्त्री शान्तान्तरे स्याद्वरदः प्रसन्ने । कन्यापगाभेदगतः स्त्रियां स्या- दामोद उक्तः सुरभौ च हर्षे ॥ Koṣakalpataru 6.19.17
- नानार्थार्णवसंक्षेप आयासआराम स्यादुपवने विरामे परिकीर्तितः । आयासस्तु प्रसन्ने स्यात् क्लेशे चायामवाक् पुनः ॥ २६ ॥ Nānārthārṇavasaṃkṣepa 3.2.26
- नानार्थार्णवसंक्षेप वरदवल्गुवाग्वाग्मिनोश्चापि वरदन्तु समर्धके । प्रसन्ने वल्लभस्तु स्यादध्यक्षे दयितेऽपि च ॥ ४७ ॥ Nānārthārṇavasaṃkṣepa 3.4.47