कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

कर्षफल

karṣaphalaपुं · masc.

In 9 kośas: 8 synonym verses, 1 as a nānārtha head word, 1 as a meaning of another word.

नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वनौषधिवर्गः Amarakośa 2.4.92
नाक्षस्तुषः कर्षफलो भूतावासः कलिद्रुमः ।अभया त्वव्यथा पथ्या कायस्था पूतनामृता ॥ ५९ ॥हरीतकी हैमवती चेतकी श्रेयसी शिवा ।
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.153 · p. 265
वहेडुको हार्यफलः पुनः कर्षफलश्च सः ।निम्बः प्रभद्रः कीरेष्टोऽरिष्टोऽरिष्टफलोऽपि च ॥ १५३ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.53 · p. 156
भूतावासश्च शाखोठो भवेत्कर्षफलोऽपि सः ।एतस्य फलमक्षोऽथ पथ्याधात्रीबिभीतकैः ॥ ५३ ॥
अनुष्टुप्
genderपुंmasc.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र वृक्षकाण्डः Nighaṇṭuśeṣa 1.82 · p. 47
संवर्तकः कर्षफलः कल्को हार्यः कलिद्रुमः ।कर्षो दैन्यो मधुबीजो धर्मद्वेषी बिभेदकः ॥ ८२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 धु (wrong syllable)
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि वनस्पतिकायनामानि Suśīlanāmamālā 5.5.2035 · p. 337
कर्षफलो कलिद्रुमो बिभीतको बिभेदकः ।भूतावासस्तुषोऽक्षश्चेति नामानि तुषस्य वै ॥ २०३५ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वनौषधिवर्गप्रकाशः Śabdaratnāvalī 3.4.112 · p. 65
अक्षः कलिद्रुमः कक्षो भूतवासस्तुषोऽपि च ।भूतवासः कर्षफलः कर्षो विभीतकस्त्रिषु ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.465 · p. 61
पारिभद्रस्तु निम्बद्रुर्मन्दारः पारिजातकः ।अक्षस्तुषः कर्षफलः कलिद्रुर्विभीतकः स्यात् त्रिषु भूतवासे ।मधुद्रुमः स्वादुफलो मधूकः स्वादुप्रसूनश्च गुडप्रसूनः ॥ ४६५ ॥
अनुष्टुप्two metres in one verse
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश वनाध्यायः Vaijayantī 3.3.176 · p. 59
विभीदकः कर्षफलो भूतवासो बहेटकः ।दैत्यः पापस्तुषः कल्पः कालेयस्तुमुलाक्षकः ॥ १७६ ॥
अनुष्टुप्
genderपुंmasc.
शिवकोष Śivakoṣa · शिवदत्तमिश्र लच Śivakoṣa 23.3.481 · p. 44
अथ कर्षफलो धात्र्यां बिभीतकतरावपि ।क्षीरवल्ली हेमदुग्धाविदारीक्षीरिणीषु च ॥ ४८१ ॥
अनुष्टुप्

कर्षफल as a meaning in nānārtha verses