All kośas › Śivakoṣa
शिवकोष Śivakoṣa
587 verses · 4,629 words tagged · 786 marked doubtful (dashed)
वान्ताः · वद्विः
इति लान्ताः ।
महानिम्बेऽपि जीवा स्याज्जीवन्तीवचयोरपि ।दार्वी दारुहरिद्रायां गोजिह्वायामपि स्त्रियाम् ॥ ४९६ ॥
24.1.496 · p. 45
अनुष्टुप्
देवी कुमारिकास्पृक्काजयन्तीतेजिनीषु च ।विद्धकर्णीपीलुपर्णीवन्ध्याकर्कोटकीष्वपि ॥ ४९७ ॥
24.1.497 · p. 45
अनुष्टुप्
धवो भरोद्वहे धूर्ते ध्रुवः शङ्खे वटेऽपि च ।ध्रुवा मूर्वाशालिपर्ण्योः प्लवः प्लक्षे शिलारसे ॥ ४९८ ॥
24.1.498 · p. 45
अनुष्टुप्
विकङ्कते च वृक्षाम्ले भेलके कुलकेऽपि च ।कैवर्तिमुस्तके गन्धतृणेऽपि स्यान्नपुंसकम् ॥ ४९९ ॥
24.1.499 · p. 45
अनुष्टुप्
मृद्वी द्राक्षातिविषयोर्यवाश्वप्रियइन्द्रियोः ।लट्वाऽलक्ते करञ्जेऽपि विश्वा विश्वं च नागरे ॥ ५०० ॥
24.1.500 · p. 46
अनुष्टुप्
क्लीबं गन्धरसे चोपविषाशङ्खाह्वयोः स्त्रियाम् ।शिवः पुरे पुण्डरीके बकुले सैन्धवे शिवम् ॥ ५०१ ॥
24.1.501 · p. 46
अनुष्टुप्
शिवा कुम्भ्यभयाधात्रीभूमिधात्रीशमीषु च ।शिम्बिर्भूर्जे च बकुले स्वाद्वी श्रेणीरसालयोः ॥ ५०२ ॥
24.1.502 · p. 46
अनुष्टुप्