गन्त्री
gantrīस्त्री · fem.In 12 kośas: 14 synonym verses, 1 as a nānārtha head word, 2 as a meaning of another word.
अनस्तु शकटोऽथ स्याद्गन्त्री कम्बलिबाह्यकम् ॥ ७५३ ॥
अनुष्टुप्
genderस्त्रीfem.
क्लीबेऽनः शकटोऽस्त्री स्याद्गन्त्री कम्बलिवाह्यकम् ॥ ५२ ॥
अनुष्टुप्
genderस्त्रीfem.
अनः शताङ्गः शकटः स्यन्दनः कथ्यते रथः ।गन्त्री कम्बलिवाह्यस्तु कूवरी च निगद्यते ॥ ४४४ ॥
अनुष्टुप्
genderस्त्रीfem.
आश्वोऽश्वैरूह्यमानोऽसौ तैश्चतुर्भिः स चातुरः ।क्लीबेऽनः शकटस्तु स्याद्गन्त्री गान्त्री स्त्रियामुभे ॥ ७० ॥
अनुष्टुप्
genderस्त्रीfem.
गन्त्री कुमारी प्रतिसीरया समंस्यात्तुण्डिकेरी कबरी तथापरा ।दंष्ट्रा करीरी खदिरी च बर्बराजारी विदारी कृशरावरामरा ॥ ६८ ॥
इन्द्रवंशा
genderस्त्रीfem.
डयनं रथगर्भः स्यात्कूवरी रथनाम च ।शकटोऽनोऽथ गन्त्री स्यात्तथा कम्बलिवाह्यकम् ॥ ३६९ ॥
अनुष्टुप्
genderस्त्रीfem.
प्रधिः कम्पिराटिर्दरिः सानिशाणीतरिश्चुल्लिचुण्टी जनिर्मारिमेनी ।तुरी राटिगन्त्र्यौ सनिः पारिकीर्तीशिरोधिर्मरिर्झल्लरिः स्वेदनील्यौ ॥ ६२ ॥
भुजङ्गप्रयातम्
genderस्त्रीfem.
कात्रं कम्बरि(ल?)वाह्यं च गन्त्री कम्बलिवाह्यकम् ।आन्दोलिकायां शिबिका याप्ययानं च सुन्दरम् ॥ ३१० ॥
अनुष्टुप्
genderस्त्रीfem.
अश्वा वामी च वडवा किशोरो बालघोटकः ।अनश्च शकटो गन्त्री शताङ्गः स्यन्दनो रथः ॥ १५७ ॥
अनुष्टुप्
genderस्त्रीfem.
यानं वृषभसंयुक्तं गन्त्री कम्बलिवाह्यकम् ।काम्बलाच्छादितो रथः काम्बलः कथ्यते पुनः ॥ १२२९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 र (wrong syllable)
genderस्त्रीfem.
अनः क्लीबे तु शकटं शकटोऽक्षः पुमानपि ।शकटे वृषवाह्ये तु गन्त्री स्त्री गन्त्रिरित्यपि ॥
अनुष्टुप्
genderस्त्रीfem.
स्त्रीपुंसोरणिराणी स्यातामक्षाग्रकील एवोभौ ।शकटमनः शकटिः स्यात् कम्बलिवाह्यं तु गन्त्री स्त्री ॥ १३१६ ॥
आर्याmetre not read in every line
genderस्त्रीfem.
कर्णीरथं प्रवहणं हयनं रथगर्भके ।गन्त्री स्त्री कूबरं न स्त्री रथे कंबलिवाह्यके ॥ १२७ ॥
अनुष्टुप्
genderस्त्रीfem.
स्यात्पूगावपनी गन्त्री कर्त्तर्युद्वेगकर्तरी ।भवेत्क्षुरसमुद्गन्तु त्रिष्वाकर्णकरन्धके ॥ १०८ ॥
अनुष्टुप्
genderस्त्रीfem.
वाक्पतिस्त्वमुमध्यैष्ट वेश्योरःस्थकिणे भ्रमी ।कुब्जे तु त्रिरथो गन्त्री स्त्रीलिङ्गा शकटान्तरे ॥ ३३९ ॥
अनुष्टुप्
meaningsशकट
गन्त्री as a meaning in nānārtha verses
- नानार्थार्णवसंक्षेप रथीरथी तु गन्त्र्यां स्त्री रथ्या पुनः स्त्री रथसंहतौ । विशिखामार्गयोः स्यात् तु रथस्य त्रिषु वोढरि ॥ १०८५ ॥ Nānārthārṇavasaṃkṣepa 2.5.1085
- नानार्थार्णवसंक्षेप कूबरकूबरस्त्वस्त्रियां गन्त्रीसमाख्ये स्याद्रथान्तरे । युगन्धराख्ये तु रथावयवे स्यान्नृलिङ्गकः ॥ ५६२ ॥ Nānārthārṇavasaṃkṣepa 4.562