दंष्ट्रा
daṃṣṭrāस्त्री · fem.In 10 kośas: 15 synonym verses, 4 as a meaning of another word.
दाढिका दंष्ट्रिका दाढा दंष्ट्रा जम्भो द्विजा रदाः ॥ ५८३ ॥रदना दशना दन्ता दंशखादनमल्लकाः ।
अनुष्टुप्
genderस्त्रीfem.
भोगोऽहिकायो दंष्ट्राशीर्दर्वी भोगः फटः स्फटः ।फणोऽहिकोशे तु निर्ल्वयनी निर्मोककञ्चुकाः ॥ १३१५ ॥
अनुष्टुप्
genderस्त्रीfem.
अहेः शरीरं भोगः स्यादाशीर्दंष्ट्राभिधीयते ।भवेत्तिलित्सो गोनासो वाहसोऽजगरः शयुः ॥ ६४२ ॥
अनुष्टुप्
genderस्त्रीfem.
धारा परम्परा गुन्द्रा छत्रा दंष्ट्रा च भस्त्रया ।प्रतिसीरा च मथुरा मात्रा भद्रा च मन्दुरा ॥ २७ ॥
अनुष्टुप्
genderस्त्रीfem.
रदनो रागचूर्णश्च हालुः स्याद्रुचकं तथा ।दन्तूलो दन्तवान्राजदन्तौ मध्यगताविमौ ।दाढा दंष्ट्राथ मिथुने काकुः स्याद्रसना न ना ॥ १७ ॥
अनुष्टुप्
genderस्त्रीfem.
गन्त्री कुमारी प्रतिसीरया समंस्यात्तुण्डिकेरी कबरी तथापरा ।दंष्ट्रा करीरी खदिरी च बर्बराजारी विदारी कृशरावरामरा ॥ ६८ ॥
इन्द्रवंशा
genderस्त्रीfem.
यावानिति समुच्चयो कश्चिद्यस्त्रान्तः शब्दः स नपुंसके बोद्धव्यः । पुत्रमन्त्रश्वित्रशब्दान् वर्जयित्वेत्यर्थः । यथा । सूत्रं शस्त्रं शास्त्रं मित्रं पत्रं पवित्रं च । गात्रं पोत्रं पात्रं दात्रं सत्रं परित्रं चेत्यादि । अयं पुत्रः सुतः । अयं मन्त्रो होमवाच्यो वेदश्च । हि शब्दोऽनुक्तसमुच्चयार्थः ।तेन छत्रछात्रविष्णुमित्रादीनां पुंस्त्वप्राप्तेः सिद्धिः । अयं छत्रो नर्त्तकः आतपवारणवाचकस्य छत्रशब्दस्य नपुंसकतैव । इदं छत्रं वर्षातपवारणम् । अयं छत्रोऽध्येता । अयं विष्णुमित्रः कश्चित्पुरुषः ।यात्रामात्राभस्त्रादंष्ट्रा विद्यात् स्त्रियां वरत्रा च ।इदूदन्तं यच्चैकाच् शरद्दरद्दृषत्प्रावृषश्चैव ॥ १२ ॥
metre not recognised
genderस्त्रीfem.
यात्रामात्रादिकान् शब्दान् स्त्रियां स्त्रीलिङ्गे विद्याज्जानीयादित्यर्थः । इयं यात्रा तीर्थादिगमनम् । इयं मात्राऽक्षरावयवस्तोकं च । इयं भस्त्रा लोहधमनी । इयं दंष्ट्रा दशनविशेषः । इयं वरत्रा त्रिगुणीकृता रज्जुः । वरत्रादीनामापि त्रान्तत्वान्नपुंसकत्वे प्राप्ते । ब्रूमः । त्रप्रत्ययाभावात्तद्व्यवस्थाभावादिति । भावान्तं त्र च । भाववाचकाद्धातोस्त्रप्रत्ययः स्यात् । ईच्च ऊच्च ईदूतौ तावन्ते यस्य तदिदं शब्दरूपमीदूदन्त अन्तःशब्दः प्रत्येकमभिसम्बध्यते । द्वन्द्वान्ते श्रूयमाणं पदं प्रत्येकमभिसम्बध्यते इत्युक्तत्वात् । एकोऽच् यस्य तत् एकाच् एकस्वरमित्यर्थः । ईदूदन्तं यच्चैकाच् स्त्रियां तच्छब्दरूपं भवति । इयं स्त्री योषित् । इयं श्रीर्देवताविशेषः प्रभुशक्तिश्च । इयं भ्रूरक्ष्णोरुपरिरेखा । एकाजिति किम् । सेनानीः । ग्रामणीः । शरदादयोऽपि स्त्रियाम् । इयं शरत् ऋतुविशेषः । इयं दरत् ग्रीवास्थानम् । इयं दृषत् शिला । इयं प्रावृट् जलधरसमयः । चकारः समुच्चयार्थः । एवकारोऽवधारणे ।स्थूणोर्णे स्त्रीयोगे स्तो गृहशशपूर्वकयोर्नपुंसकता ।सर्वस्याक्षिनाम्नो जलनाम्नश्चैव मुक्त्वापः ॥ १३ ॥
metre not recognised
genderस्त्रीfem.
भोगोऽहिदेहो दंष्ट्राशीर्भोगो दर्वी फटः स्फटः ।फणा स्त्रीपुंसलिङ्गे स्यात्फटाशब्दः स्त्रियामपि ॥ २१४ ॥
अनुष्टुप्
genderस्त्रीfem.
मासुरी मुखरोम स्याद्दंष्ट्रा दाढा च दाढिका ।रदा दन्ता द्विजा दंशा रदना दशना अपि ॥ २४८ ॥
अनुष्टुप्
genderस्त्रीfem.
प्रतिसीरा दशा भद्रा भस्त्रा छत्रा कशा कुशा ।यात्रा मात्रा बला माला दंष्ट्रा लीला च शङ्कुला ॥ ५५ ॥
अनुष्टुप्
genderस्त्रीfem.
genderस्त्रीfem.
हस्तिनः शिरसि दन्तौ दंष्ट्रा शुनवराहयोः ।मेघो मत्स्यो भुजङ्गमो वेणुर्मौक्तिकयोनयः ॥ १८५३ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 सि (wrong syllable); pāda 3, syllable 7 ङ्ग (wrong syllable)
genderस्त्रीfem.
कैलासैलापत्रश्वेतमुखाः स्युर्भुजंगमप्रवराः ।फणिनः कुण्डलचक्रे वेष्टनमाशीस्तु दंष्ट्रायाम् ॥ ३०२ ॥
आर्या
genderस्त्रीfem.
मध्यदन्ता राजदन्ता दंष्ट्रा तत्पार्श्वयोर्द्वयोः ।तत्पार्श्वयोः स्थिता दन्ता जंभास्तालु तु काकुदम् ॥ ८९ ॥
अनुष्टुप्
genderस्त्रीfem.
दंष्ट्रा as a meaning in nānārtha verses
- धरणिकोश आशिस्आशीरभीप्सिताशंसा दंष्ट्राशीरनिलाशिनाम् । पनसः कण्टकीफलः पनसो वानरान्तरम् ॥ Dharaṇikośa 31.2.11
- कोषकल्पतरु दाढाराढा तु देशान्तरशोभयोः स्त्री दाढा तु दंष्ट्रासु मनोरथे च । माढिस्तु दैन्यप्रकटीकृतौ स्त्री पत्रादिकानां रचनाविशेषे ॥ ९६ ॥ Koṣakalpataru 6.14.96
- कोषकल्पतरु राक्षसीभुजंगदंष्ट्रासु च तादृगासीः स्याद्राक्षसी रात्रिमटाङ्गनायाम् । दंष्ट्रार्थिका चाप्यथ तामसी स्या- न्महानिशायामपि भद्रकाल्याम् ॥ १४ ॥ Koṣakalpataru 6.31.14
- परमानन्दीयनाममाला दाढादंष्ट्राभिलाषयोर्दाढा दोग्धा बल्लववत्सयोः । द्रोणः काकान्तरे भूध्रकृपीपत्योर्द्रुणः शरे ॥ २३५ ॥ Paramānandīyanāmamālā 5.16.235