चन्द्रक
candrakaपुं · masc.In 13 kośas: 15 synonym verses, 1 as a nānārtha head word, 2 as a meaning of another word.
पेशीकोशोऽण्डे कुलायो नीडे केकी तु सर्पभुक् ।मयूरबर्हिणौ नीलकण्ठो मेघसुहृच्छिखी ॥ १३१९ ॥शुक्लापाङ्गोऽस्य वाक्केका पिच्छं बर्हं शिखण्डकः ।प्रचलाकः कलापश्च मेचकश्चन्द्रकः समौ ॥ १३२० ॥
अनुष्टुप्
genderपुंmasc.
genderपुंmasc.
वाणी केका शिखा चूडा चन्द्रको मेचकः स्मृतः ।प्रचलाकः शिखण्डश्च कलापो वर्ह उच्यते ॥ २४२ ॥
अनुष्टुप्
genderपुंmasc.
सिद्धवेद्यं महावर्णं पुण्डरीकं तु चन्द्रकम् ।दुर्वर्णं रजतं वैण्डि चन्द्रभीरु यमोदरम् ॥ ५९ ॥
अनुष्टुप्
genderक्लीneut.
कृष्णं मृष्टं सर्वहितं कफवैर्यथ तत्सिते ।वश्यंकरं च बहुलं वालकं चन्द्रकं च तत् ॥ १९० ॥
अनुष्टुप्
genderक्लीneut.
रक्ताङ्गो रञ्जनो रेची रेचकश्चन्द्रकश्च सः ।तेजस्विनी तैजनी स्यादश्वघ्ना च महौषधी ॥ ८४ ॥
अनुष्टुप्
genderपुंmasc.
केकी शिखावलश्च स्याच्छिखण्डी च कलापवान् ।केकास्य वाक्चन्द्रकस्तु मेचकोऽस्त्री शिखण्डकः ॥ १२ ॥
अनुष्टुप्
genderपुंmasc.
मेचकश्चन्द्रकस्तुल्यौ कोकिलो वनवल्लभः ।काकपुष्टः पिककः कालकण्ठस्ताम्राक्ष इत्यपि ॥ २२३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
अयुते सूर्यकं चैव सूर्यं निम्बसमुद्भवम् ।रजतं चन्द्रकं चान्द्रं कैलासनगसंभवम् ॥ १४ ॥
अनुष्टुप्
genderक्लीneut.
लाटिका खुरपीठः स्याच्चन्द्रकः परिकीर्तितः ।वडवा वडिवी वामी पार्वती यक्षिणीति च ॥ ३३ ॥
अनुष्टुप्
genderपुंmasc.
कलापः प्रचलाकश्च केकिपिच्छस्य नाम वै ।मयूरपिच्छचन्द्रस्य नाम्नी चन्द्रकमेचकौ ॥ २३९० ॥
अनुष्टुप्
genderपुंmasc.
कुमारवाही दीप्ताङ्गो विचित्राङ्गो भुजङ्गभुक् ।वाणी केका केकिका स्याच्चन्द्रे चन्द्रक-मेचकौ ॥
अनुष्टुप्
genderपुंmasc.
शिखण्डी बर्हिणो बर्ही मयूरो भुजगाशनः ।मेघनादानुलासी द्वौ समौ चन्द्रकमेचकौ ॥ ७८८ ॥
अनुष्टुप्
genderपुंmasc.
ठकारो लाङ्गली चैव दक्षोरुर्वर्त्तुलः पुनः ।पूर्णचन्द्रामृताख्यौ च तथा करतलद्वयम् ।वनजो जीवनो जीवो वृषघ्नश्चन्द्रकः सुधा ॥ ३७ ॥
अनुष्टुप्
genderपुंmasc.
आमोदश्च स्थितिः पाशी अजेशो जाल-चन्द्रकौ ।वामाङ्गुलिगतो नो झङ्कारो झा-र्णसंज्ञकः ॥ २७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
चन्द्रक as a meaning in nānārtha verses
- तन्त्राभिधान चना चामरादिकः कूर्मः शूली चन्द्रक-सायकौ । भूभेत्ता चित्रचारी च चञ्चलश्चा-र्णको मतः ॥ २३ ॥ Tantrābhidhāna 6.23
- तन्त्राभिधान दवामगुल्फस्थितः शूली दात्री दाता कुबेरकः । चन्द्रकश्च हरिद्रान्तो देवेशो दा-र्णकः स्मृतः ॥ ३५ ॥ Tantrābhidhāna 6.35