किरीट
kirīṭaक्ली · neut.In 15 kośas: 17 synonym verses, 5 as a meaning of another word.
नायकस्तरलो हारान्तर्मणिर्मुकुटं पुनः ॥ ६५० ॥मौलिः किरीटकोटीरमुष्णीषं पुष्पदाम तु ।मूर्ध्नि माल्यं माला स्रक्स्वगर्भकः केशमध्यगम् ॥ ६५१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 मा (wrong syllable)
genderक्लीneut.
अलङ्कारस्त्वाभरणं परिष्कारो विभूषणम् ॥ १०१ ॥मण्डनं चाथ मुकुटं किरीटं पुन्नपुंसकम् ।
अनुष्टुप्
genderपुंक्लीm. n.
आहुः किरीटमुष्णीषं कोटीरं मुकुटं समम् ।राढा शोभा विभूषा स्यादभिख्या सुषमा समाः ॥ ५६५ ॥
अनुष्टुप्
genderक्लीneut.
कवरी कवरश्च स्यात् शिखण्डक(शिखण्डिका?)शिखण्डकौ ।मूकुटं मुकुटं तुल्ये किरीटं स्यात् किरीटकम् ॥ १८६ ॥
अनुष्टुप्
genderक्लीneut.
गारुडं तारुडं यक्षं रक्षगं नरजीवनम् ।अग्निशुक्लं लोहवरं किरीटं सर्वमङ्गलम् ॥ ५७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 लो (wrong syllable)
genderक्लीneut.
अस्त्री किरीटं मुकुटमुष्णीषमवतंसकम् ।कोटीरमपि कौटीरस्तथैव शेखरोऽपि च ॥ २५० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 व (wrong syllable)
genderपुंक्लीm. n.
न स्त्री किरीट-कोटीरोष्णीषाणि मुकुटं तथा ।मकुटं नरि मौलिः स्यात्पत्रपाश्या ललाटिका ॥[91b]बालपाश्या पारितथ्या शङ्खचर्चापि सा मता ।कर्णपूरोऽवतंसोऽस्त्री कर्णिका कर्णभूषणम् ॥ ६९ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कव(वा)टं कपटं खेटं कर्पटं पिष्टकोष्टवत् ।चटु चाटु किरीटं च अगलःटं( ? )मकुटं कुटम् ॥ ४२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 1 अग (syllable split)
genderपुंक्लीm. n.
हारमध्यस्थिते तस्मिन्नायकस्तरलः समौ ।कोटीरमुकुटे मौलिः किरीटोष्णीष इत्यपि ॥ ३०१ ॥
अनुष्टुप्
genderक्लीneut.
नटः किरीटः कुटकर्पटौ चकूटारकूटौ विटकोट्टकुष्ठाः ।खेटाट्टपिष्टानि कटश्च लोष्टःप्रोक्तौ तथा त्र्यङ्गटकालकूटौ ॥ १३५ ॥
उपजातिः
genderपुंक्लीm. n.
मौलिः किरीटं कोटीरमुष्णीषं मुकुटं तथा ।आपीडः शेखरोत्तंसावतंसाः शिरसः स्रजि ॥ ४५ ॥
अनुष्टुप्
genderक्लीneut.
उष्णीषं मुकुटं मौलिः किरीटं मकुटस्तथा ।कोटीरं चेति नामानि मन्यते मुकुटस्य हि ॥ १०५४ ॥
अनुष्टुप्
genderक्लीneut.
कौटीरकञ्च कौटीरं किरीटं पुनपुंसकम् ।चूडामणिः शिरोरत्नं शिरोमणिरपि द्वयोः ॥
अनुष्टुप्
genderपुंक्लीm. n.
श्रीवेष्टः श्रीपिष्टकश्च कोटीरे मुकुटोऽस्त्रियाम् ।मुकुटोऽपि किरीटं स्तात् तिरीटं पुष्पदाम तु ॥ २०८ ॥
अनुष्टुप्
genderक्लीneut.
कोटीरो ना किरीटोऽस्त्री मौलिर्ना मकुटं न ना ।कर्णिका कुण्डलं तालपत्रं ताटङ्कमस्त्रियाम् ॥ ११६० ॥
अनुष्टुप्
genderपुंक्लीm. n.
आकाशकुञ्जकुतपौदनवारवाणप्रस्थावतंसनखमण्डपकच्छपुच्छाः ।कान्तारकङ्कणतडागकिरीटराष्ट्रतीर्थव्रणस्तबकसङ्क्रमपीठकानि ॥ १२ ॥
वसन्ततिलका
genderपुंक्लीm. n.
वालिका कर्णपृष्ठस्था कुण्डलं कर्णवेष्टनम् ।मौलिः कोटीर उष्णीषं किरीटं मकुटोऽस्त्रियाम् ॥ १३५ ॥
अनुष्टुप्
genderक्लीneut.
किरीट as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् मौलिचूडा किरीटं केशाश्च संयता मौलयस्त्रयः ॥ १९३ ॥ Amarakośa 3.3.193
- नामलिङ्गानुशासनम् उष्णीषपक्षः सहायेऽप्युष्णीषः शिरोवेष्टकिरीटयोः । Amarakośa 3.3.425
- कोषकल्पतरु उष्णीषउष्णीषमस्त्रीह किरीटमूर्ध- वेष्टाह्वये लक्षणभिद्यपि स्यात् । तरीतरि(?) स्यात्त्रितये तरीषो रम्याकृतौ पुंसि तु भेलके स्यात् ॥ ५० ॥ Koṣakalpataru 6.30.50
- शब्दरत्नावली मौलिमौलिः किरीटे चूडायां धम्मिल्लाशोकवृक्षयोः । लीलाशृङ्गारचेष्टायां स्त्रियां केलिविलासयोः ॥ Śabdaratnāvalī 7.28.33
- शब्दरत्नावली उष्णीषअध्यक्षोऽधिकृते पुंसि प्रत्यक्षेऽतिप्रधानके ॥ अभीषुः प्रग्रहे कामकिरणानुरागेषु ना । उष्णीषोऽस्त्री शिरोवेष्टे किरीटचिह्नभेदयोः ॥ Śabdaratnāvalī 7.31.18