कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

पृष्ठ

pṛṣṭhaक्ली · neut.

In 17 kośas: 19 synonym verses, 3 as a nānārtha head word, 1 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.601 · p. 26
रीढकः पृष्ठवंशः स्यात्पृष्ठं तु चरमं तनोः ॥ ६०१ ॥
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह मनुष्यवर्गः Amarakośa 2.6.136
उरो वत्सं च वक्षश्च पृष्ठं तु चरमं तनोः ।
अनुष्टुप्
genderक्लीneut.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.528 · p. 60
क्रोडमङ्कस्तथोत्सङ्गः प्राग्भागो वपुषः स्मृतः ।पृष्ठं स्यात्पश्चिमो भागः कटौ च कटिशीर्षकौ ॥ ५२८ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.192 · p. 41
क्लीबे वत्सं च वक्षश्च स्तनाधो जठरोपरि ।क्लीबे पृष्ठं च पृष्ठिश्च पृष्ठी च द्वे इमे स्त्रियौ ॥ १९२ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धीवर्गः Koṣakalpataru 1.5.67 · p. 61
सामभागविशेषः स्यादुक्थमुद्गीथ आदिमे ।पृष्ठं स्तोत्रविशेषः स्याद्विरिब्धस्तु स्वरः स्मृतः ।निघातस्त्वनुदात्तः स्यात्समाहारः समश्रुतिः ॥ ६७ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.75 · p. 127
रीढकः पृष्ठवंशः स्यात्पृष्ठं तु चरमं तनोः ।पूर्वभाग उपस्थोऽङ्कः क्रोड उत्सङ्ग इत्यपि ॥ ७५ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नपुंसकाधिकारः Koṣakalpataru 4.3.97 · p. 106
चीनपिष्टं च शृङ्गाट स्यात्फाण्टं मोरटं पिटम् ।तिरीटं पृष्ठ-गोष्ठे च क्ष्वेडं धामार्गवार्थकम् ॥ ९७ ॥
अनुष्टुप्
genderक्लीneut.
कण्ठस्तनबाहूनां सञ्ज्ञा पुंसि स्त्रियां भवेद्ग्रीवा ।पृष्ठललाटांशोदरजत्रूणि नपुंसकानि स्युः ॥ १५ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
कण्ठसञ्ज्ञाः स्तनसञ्ज्ञाः बाहुसञ्ज्ञाश्च पुंसि भवन्ति । अयं कण्ठः । गल इत्यादिः । स्तनसञ्ज्ञाश्च । अयं स्तनः कुचः पयोधर इत्यादिः । बाहुसञ्ज्ञाश्च भुजस्तरणः धरणः चालन इत्यादिः । कण्ठसञ्ज्ञत्वाद्ग्रीवाशब्दस्यापि पुंसि प्रयोगः प्राप्नोतीत्याह । स्त्रियां भवेद्ग्रीवा । ग्रीवाशब्दस्य स्त्रीलिङ्गता भवति । इयं ग्रीवा शिरोधरा कन्धरा इत्येवमादयः । पृष्ठादयः शब्दा नपुंसके स्युः । तद्यथा । इदं पृष्ठं पार्श्वयोर्यष्टिः । इदं ललाटं भ्रुवोरुपरिस्थानम् । इदमंसः[श] स्तनयोरुपरिस्थानम् । इदमुदरं जठरः । इदं जत्रु स्कन्धसम्बन्धि । इत्येवमादयः ।ऊर्म्मिध्वन्यञ्जलयः पुंस्योष्ठकपोलगुल्फसञ्ज्ञाश्च ।घञ्चैरच्च ऋदोरप्च स्याद्बहुलमन्धकारश्च ॥ १६ ॥
metre not recognised
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास नपुंसकलिङ्गसंग्रहः Paramānandīyanāmamālā 6.3.88 · p. 222
बीजं पिञ्जं चोचफाण्टे ललाटंव्युष्टं रिष्टं चीनपिष्टं कृपीटम् ।इष्टं गोष्ठं पृष्ठपिङ्गाणके चत्राणं तीक्ष्णं कार्मणं कारणं च ॥ ८८ ॥
शालिनी
genderक्लीneut.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त मनुष्यमरीचिः Pañcatattvaprakāśa 1.1.88 · p. 7
पृष्ठवंशो मेरुदण्डः पृष्ठं पृष्ठस्थलं त्रिकम् ।कुचस्तनो हृदयजो नीलवक्त्रः पयोधरः ॥ ८८ ॥
अनुष्टुप्
genderक्लीneut.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति अङ्गवर्गः Śāradīyākhyanāmamālā 2.1.39 · p. 23
त्रिवलिस्तूदरे रेखा नाभिः स्यात्तुन्दकूपिका ।अङ्कस्तु क्रोड उत्सङ्गः पृष्ठं वंशस्त्रिकं तथा ॥ ३९ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.967 · p. 147
रीढकः पृष्ठवंशश्च स्यात् पृष्ठचरमस्तनोः ॥ ९६७ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि तेजस्कायनामानि Suśīlanāmamālā 5.3.1925 · p. 316
भरथो नाचिकेतश्च पर्परीकश्च पावकः ।पृष्ठः छागरथोऽप्पित्तं हुतवहो विरोचनः ॥ १९२५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 व (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.285 · p. 101
अथ वक्षश्च वत्सं स्यादुरो वक्षःस्थले त्रयम् ।पृष्ठं पृष्ठिस्तु पृष्ठी च पश्चाद्भागे त्रयं तनौ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.177 · p. 203
वियामः पृष्ठवंशे तु रीढको रीढयुग्मतः ।पृष्ठं वर्गद्वितीयाप्तमुत्सङ्गेऽङ्को नपुंसके ॥ १७७ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण मनुष्याध्यायः Śabdaratnākara 3.1.1068 · p. 132
चरमं वपुषः पृष्ठं पिचण्डजठरोदरम् ।तुन्दं कुक्षिर्न ना क्रोडं वत्सो वक्ष उरः समे ॥ १०६८ ॥
अनुष्टुप्
genderक्लीneut.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव लिङ्गादिसंग्रहः Trikāṇḍaśeṣa 4.6 · p. 271
क्लीबे कलत्रविषबीजकुटुम्बरत्नतल्पोक्थकुङ्कुमप्रवीणतृणाक्षराणि ।शृङ्गादपीठगृहभेषजपृष्ठकिण्वदैवाण्डभाण्डचिवुकोडुपसाहसानि ॥ ६ ॥
वसन्ततिलकाmetre not read in every line
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश भूताध्यायः Vaijayantī 4.4.69 · p. 178
न क्ली कक्षा बाहुमूलं पार्श्वमस्त्री तयोरधः ।पश्चिमांगं तनोः पृष्ठमंससन्धी तु जत्रुणी ॥ ६९ ॥
अनुष्टुप्
genderक्लीneut.
धरणिकोश Dharaṇikośa · धरणिदास ठार्धश्लोकः Dharaṇikośa 11.2.2 · p. 41
कोष्ठं कुक्षौ कुशूले च कोष्ठमभ्यन्तरेऽपि च ।पृष्ठश्चरममात्रे स्याच्छरीरावयवान्तरे ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ ठान्ताः Koṣakalpataru 6.11.55 · p. 186
पृष्ठं तु चरममात्रेस्तोमविशेषे च देहाङ्गे ।अथ मध्येगृहकुक्ष्योःकोष्ठः स्वीये कुसूले च ॥ ५५ ॥
metre not recognised
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नपुंसकलिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.3.42 · p. 36
विहङ्गपक्षमात्रे च पृष्ठं तु चरमं तनोः ।चतुर्षु सामस्तोत्रेषु क्रतोः सामान्तरे कुशे ॥ ४२ ॥
अनुष्टुप्

पृष्ठ as a meaning in nānārtha verses