तेमन
temanaक्ली · neut.In 13 kośas: 11 synonym verses, 6 as a nānārtha head word, 2 as a meaning of another word.
genderक्लीneut.
genderक्लीneut.
स्वदनं व्यञ्जनं क्लीबे तेमनं स्यादजामिकृत् ।मूलकोऽस्त्री नीलकण्ठो मृत्क्षारः कन्दमूलकः ॥ ११३ ॥
अनुष्टुप्
genderक्लीneut.
स्यात्तेमनं च निष्ठानं वटकस्त्ववसेकिमः ।शाण्डाकी कन्दमूलादिमुद्गादिवटकैः कृताः ॥ ११ ॥
अनुष्टुप्
genderक्लीneut.
पूपली चाथ पौलिस्तु मनाक्पक्वे स्मृतावुभौ ।अभ्योषश्च तथाभ्यूषो निष्ठानं तेमने मतम् ॥ ६४ ॥
अनुष्टुप्
genderक्लीneut.
पैष्टिका काञ्जिका काञ्जी पर्पटो माषमण्डकः ।तैलं तिलद्रवः स्नेहः शाकस्तेमनतैमलौ ॥ २७२ ॥
अनुष्टुप्
genderपुंmasc.
सूपः स्यात्प्रहितं सूदोऽन्धः कूरं भक्तमोदनम् ।व्यञ्जनं तेमनं शाकः पूपः पूपा च पोलिका ॥ ५३ ॥
अनुष्टुप्
genderक्लीneut.
genderक्लीneut.
व्यञ्जनं तेमनं तेम निष्ठानं स्यादतस्त्रिषु ।वासितान्तं भटित्रञ्च शूल्यं शूलाकृतञ्च तत् ॥
अनुष्टुप्
genderक्लीneut.
कडम्बश्च कलम्बश्च वेशवार उपस्करः ।ऋजीषं पिष्टपचनं निष्ठानं तेमनं समे ॥ १४४८ ॥
अनुष्टुप्
genderक्लीneut.
त्रिरात्रं धान्यराशिस्थं तच्छुक्तं शुद्धमित्यपि ।निष्ठानं तेमनं तच्च व्यञ्जनं स्याद्घृतादि च ॥ ८५ ॥
अनुष्टुप्
genderक्लीneut.
तालितं तूलितपटे गुणवादित्रभाण्डयोः ।वाद्यभेदेऽजयः प्राह व्यञ्जने त्वपि तेमनम् ॥ ३७ ॥
अनुष्टुप्
meaningsव्यञ्जन
क्लेदेऽथ तोदनं तोत्रे व्यथने द्रविणं पुनः ।धने बले दुकूलं तु क्षौमेऽन्ये सूक्ष्मवाससि ॥ ३८ ॥
अनुष्टुप्
meaningsक्लेद
doubtful
जननी स्त्री दयामात्रोर्जननं जन्मवंशयोः ।जगन्नुस्तु पुमान् जन्तौ वीतिहोत्रे च कीर्त्त्यते ॥जयनं स्याद्घोटकादिसन्नाहे च जयेऽपि च ।जघनं योषितां श्रोणिपुरोभागे कटावपि ॥ज्ञानी स्याद्गणके पुंसि ज्ञानयुक्तेऽभिधेयवत् ।जीवनं वर्त्तने प्राणधारणे सलिलेऽपि च ॥जीवनी स्यात्तु जीवन्त्यां जीवनापि च मोदके ।तपनो भास्करेऽपि स्यान्नरकेऽरुस्करेऽपि च ॥तलुनो मारुते यूनि युवत्यां तलुनी स्त्रियाम् ।तलिनं तरलस्तोकस्वच्छेषु वाच्यलिङ्गकः ॥तमोघ्नो विष्णुसूर्येन्दुबुद्धमहेशवह्निषु ।त्यागी दातरि शूरे च विवेकिनि भवुत्पुमान् ॥तेवनं केलिविपिने क्रीडायाञ्च नपुंसकम् ।तेमनं व्यञ्जने क्लीबं तथार्द्रीकरणेऽपि च ॥तेजनी तृणपूले स्यात्तेजनो वंशमात्रके ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 षु (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 म (wrong syllable)
तेमन as a meaning in nānārtha verses
- धरणिकोश व्यञ्जनव्यञ्जनं तेमने चिह्ने श्मश्रुणि व्यञ्जनं स्मृतम् । स्त्रीपुंसशुद्धदेशे च व्यञ्जनं चार्धमात्रिकम् ॥ Dharaṇikośa 19.3.21
- कोषकल्पतरु व्यञ्जनस्याद्व्यञ्जनं तेमनचिह्नवाचि श्मश्रुप्रतीकार्थमुशन्ति तद्वत् । स्याद्रञ्जनं रागकरे पराभं क्लीबे तु तल्लोहितचन्दने स्यात् ॥ ५५ ॥ Koṣakalpataru 6.21.55