कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

भक्त

bhaktaक्ली · neut.

In 17 kośas: 17 synonym verses, 3 as a nānārtha head word, 14 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.395 · p. 19
भक्तमन्नं कूरमन्धो भित्सा दीदिविरोदनः ।अशनं जीवनकं च याजो वाजः प्रसादनम् ॥ ३९५ ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 6 न (wrong syllable)
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वैश्यवर्गः Amarakośa 2.9.48
भिस्सा स्त्री भक्तमन्धोऽन्नमोदनोऽस्त्री सदीदिविः ॥ ४८ ॥
अनुष्टुप्
genderक्लीneut.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.319 · p. 38
अन्धः कूरं भक्तं दिदीविरन्नं तथौदनो भिस्सा ।अशनं स्यादाहारः पूपापूपौ च पूपलिका ॥ ३१९ ॥
metre not recognised
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.241 · p. 159
अस्त्रियामोदनः कूरो भक्तो दग्धे तु भिःसटा ।दग्धिका चाथ मण्डोऽस्त्री भक्तमण्डे स्रवः पुमान् ॥ २४१ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.130 · p. 475
वक्रोष्ठिकवंशिकयोस्तथैव कचकुल्वयोः ।पीठभक्तावहित्थानां सहैवाच्छोटनेन च ॥ १३० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 क (wrong syllable)
genderस्त्रीक्लीf. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.100 · p. 281
भक्तौदनोन्धोमसरारनाल-[133a]प्रसादनान्नानि च जीवनं च ।याजं च वाजं कुरुरोदनोऽस्त्रीकूराशने दीदिवि चात्र भिस्सा ॥ १०० ॥
इन्द्रवज्राmetre not read in every linenearly इन्द्रवज्रा: pāda 2, syllable 1 प्र (wrong syllable)
genderक्लीneut.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.884 · p. 118
भण्डी मण्डूकपर्णाख्यतृणस्तम्बे स्त्रियामियम् ।परिहासे तु भण्डा स्त्रीपुंसयोर्भक्तवाक् पुनः ॥ ८८४ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.59 · p. 108
भक्षको घस्मरश्चैवाद्मरश्चाशित इत्यपि ।अन्धः सान्तं कूरमन्नं भक्तभिःसे च दीदिविः ॥ ५९ ॥
अनुष्टुप्
genderक्लीneut.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.472 · p. 86
स्यात्पिष्टकृतभक्ष्ये तु पिष्टकापूपपूपकाः ।अन्ने दिविः पुमान्भिः सा स्त्रियां भक्तं नपुंसके ॥ ४७२ ॥
अनुष्टुप्
genderक्लीneut.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त भूमिभानुः Pañcatattvaprakāśa 2.268 · p. 19
भक्तौदनावन्नमन्धः पायसं क्षीरिका जरा ।मण्डकः पोलिका पोली काकडाऽङ्गारमण्डकः ॥ २६८ ॥
अनुष्टुप्
genderक्लीneut.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति शूद्रवर्गः Śāradīyākhyanāmamālā 3.4.53 · p. 39
सूपः स्यात्प्रहितं सूदोऽन्धः कूरं भक्तमोदनम् ।व्यञ्जनं तेमनं शाकः पूपः पूपा च पोलिका ॥ ५३ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.587 · p. 75
याजो नाजोऽशनं भिस्सा भक्तं जीवनकं तथा ।कूरं च दग्धिका चैवं भिस्सटा मन्यते बुधैः ॥ ५८७ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वैश्यवर्गप्रकाशः Śabdaratnāvalī 3.7.105 · p. 144
करम्भश्च करम्बः स्याद् दध्नोपसिक्तसक्तुकः ।भक्तान्नमन्धो भिः साऽस्त्री नपुंस्योदनदीर्दिवी ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 प (wrong syllable)
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वैश्याध्यायः Śabdaratnākara 3.4.1432 · p. 173
भिस्सा तु भक्तमन्धोऽन्नं दीदिविर्नोदनोऽस्त्रियाम् ।पायसं परमान्नं स्यात् मिः सटा दग्धिका समे ॥ १४३२ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण उक्तशेषाध्यायः Śabdaratnākara 3.8.1842 · p. 224
वृद्ध्याजीवो द्वैगुणिको भक्तं क्रूरमिमे समे ।शामिताम्लकदुग्धार्द्रा पक्वा खण्डे घृतोत्तरे ॥ १८४२ ॥
अनुष्टुप्
genderक्लीneut.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव वैश्यवर्गः Trikāṇḍaśeṣa 2.9.15 · p. 73
सक्तुश्वूर्णक आपूप्यो भक्तं कुरुः प्रसादनः ।मण्डो ज्येष्ठाम्बु खदिका लाजाः पारी तु दोहनी ॥ १५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 कु (wrong syllable)
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश पुराध्यायः Vaijayantī 4.3.75 · p. 165
शष्कुली त्वायता पिष्टगुडतैलतिलैः कृता ।जीवनान्नाशनांघांसि कूरं भक्तं प्रसादनम् ॥ ७५ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ तान्ताः Koṣakalpataru 6.16.37 · p. 209
न्याये तु युक्तं त्रिषु मिश्रितादौकूरे तु भक्तं त्रिषु सेवितादौ ।मुक्तोऽपवृत्ते त्रिषु मोक्षिते स्यात्स्तः शंस्तारौ स्तोतृविनाशकौ च ॥ ३७ ॥
इन्द्रवज्राmetre not read in every linenearly इन्द्रवज्रा: pāda 2, syllable 3 स्ता (wrong syllable)
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.885 · p. 118
सेवायामोदने क्ली त्रिः सेविते भक्तिमत्यपि ।भटस्तु योधे ना मर्त्यजातिभेदे तु स द्वयोः ॥ ८८५ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश नानालिङ्गाध्यायः Vaijayantī 6.5.60 · p. 235
अन्नतत्परयोर्भक्तं भद्रं कल्याणसौख्ययोः ।मन्दाः सरोगनिर्भाग्यस्वल्पाज्ञापटुसूर्यजाः ॥ ६० ॥
अनुष्टुप्

भक्त as a meaning in nānārtha verses

  • धरणिकोश अट्टक्लिष्टं तु क्लिशिते ज्ञेयं विक्लिष्टार्थे वचस्यपि । अट्टं शुष्के च भक्ते च अट्टमत्यर्थगेहयोः ॥ Dharaṇikośa 10.2.4
  • धरणिकोश अन्नअन्नं भुक्ते च भक्ते च स्थानं ग्रामप्रयुक्तयोः ? । कृत्स्नमम्भसि निःशेषे गानं गीते ध्वनावपि ॥ Dharaṇikośa 19.1.3
  • कोषकल्पतरु अट्टाखेटः संवसथे कफे च फलके निन्द्येऽन्यवन्निन्दके- ऽट्टा तु क्षौमगृहप्रभेदविपुलानार्द्रेषु भक्ते तथा । पट्टस्तु व्रणबन्धनेऽश्मनि नृपप्रत्तक्षितौ पेषणे पीठे मार्गचतुष्टये निगदितो लोध्रेऽलिकालंकृतौ ॥ ९ ॥ Koṣakalpataru 6.10.9
  • कोषकल्पतरु जीवातुपान्थे वृषे स्याद्वहतुर्न तु स्त्री स्याज्जीविते जीवितभेषजे च । भक्तेऽपि जीवातुरथो विहस्तः स्याद्विह्वले चण्डनरे च शस्तः ॥ १६ ॥ Koṣakalpataru 6.16.16
  • कोषकल्पतरु अन्नछन्नं रहश्छादितयोरथान्नं भक्ते च भुक्ते तु परस्य लिङ्गे । अन्यार्थवाक्ये प्रकटे च भिन्नं विदारिते संगतवाचकं च ॥ ९५ ॥ Koṣakalpataru 6.21.95
  • कोषकल्पतरु अनस्ओकोऽन्ति[मे]सद्मनि चाश्रयेऽन्त्ये ऽथानो जनन्यां शकटे च भक्ते । भक्तस्थले चाथ शिरः प्रधाने सेनाग्रभागेऽपि च मस्तके च ॥ Koṣakalpataru 6.31.35
  • परमानन्दीयनाममाला अन्नअधि प्रश्नेऽधिके स्वामिशङ्कागर्हास्वपि स्मृतम् । अति स्मृतौ जवेऽथान्नं भक्ते भुक्तेऽपि दृश्यते ॥ १६ ॥ Paramānandīyanāmamālā 5.1.16
  • शिवकोष ओदनफल्गुने च तृणे क्लीबमञ्जनं तु रसाञ्जने । सौवीरेऽप्योदनो न स्त्री भक्ते वाट्यालके स्त्रियाम् ॥ २४७ ॥ Śivakoṣa 16.1.247
  • शब्दरत्नावली अट्टअट्टं भक्ते पुंसि शुष्के क्षौमेऽत्यर्थे गृहान्तरे ॥ इष्ट आशंसिते पूज्ये क्रतौ ना प्रेयसि त्रिषु । संस्कारे क्लीबलिङ्गं स्याद् व्रते च क्रतुकर्मणि ॥ Śabdaratnāvalī 7.11.2
  • शब्दरत्नावली अन्नअग्निश्चिताख्यकोषध्यां वीतिहोत्रे भवेत्पुमान् । अन्नं भक्ते च भुक्ते स्यादिनः सूर्ये नृपे प्रिये । उन्नञ्च सुरते क्लिन्ने कृत्स्नं सर्वाम्बुकुक्षिषु ॥ Śabdaratnāvalī 7.20.2
  • शब्दरत्नावली ओदनउद्घानं क्लीबलिङ्गन्तु चूल्ल्यां वाच्यवदुद्गते । ओदनोऽस्त्री तु भक्ते स्याद्वलायामोदनी स्त्रियाम् । कमनः कामुकेऽशोके कामदेवाभिरूपयोः ॥ Śabdaratnāvalī 7.20.39
  • शब्दरत्नावली कुरुऐन्द्रिर्जयन्ते काके ना स्त्री शचीशिवयोरपि । ओड्रः पुंभूम्नि देशे स्यात्तरुभेदे पुमानयम् ॥ करो रश्मौ च करके शुण्डप्रत्यायपाणिषु । कद्रुस्त्रिषु पिशङ्गे स्यान्नागमातरि तु स्त्रियाम् ॥ कारो हिमगिरौ यत्ने वलौ पत्यौ वधे पुमान् । कारा स्त्रियां बन्धगृहे बन्धे दूत्यां प्रसेवके ॥ कारिः क्रियायां स्त्रीलिङ्गो वाच्यलिङ्गस्तु शिल्पिनी । क्रूरं स्यात्कठिने घोरे नृशंसेऽपि च वाच्यवत् ॥ कारुस्त्वष्टरि पुंसि स्यात्त्रिषु कर्तरि शिल्पिनि । कीरः शुके देशभेदे क्लीबं स्यान्नीरदुग्धयोः ॥ कुरुर्ना भक्तनृपयोः पुंबहुत्वे च निवृति । क्षुद्रः क्रूरेऽधमेऽल्पे च कृपणेऽपि च वाच्यवत् ॥ क्षुद्रा व्यङ्गानटीधृष्टाबृहतीसरधासु च । चाङ्गेरी मक्षिकामात्रे हिंस्रा वादरतासु च ॥ क्षुरः स्याच्छेदनद्रव्ये कोकिलाक्षे च गोक्षुरे । खुरः शफे कोलदले तथा छेदनवस्तुनि ॥ क्रोष्ट्री कृष्णविदार्युक्ताशृगालीलाङ्गलीषु च । खरो धर्मे गर्दभे ना तीक्ष्यो त्रिष्वौषधे स्त्रियाम् ॥ खरुर्दर्पे हरे दन्ते हये ना धवले त्रिषु ॥ Śabdaratnāvalī 7.27.7
  • शब्दरत्नावली दीदिविदीदिविः पुंसि गीर्वाणगुरौ भक्ते समुच्छिते । निष्पावः सूर्पपवने राजमाषे कडङ्गरे ॥ निह्नवः स्यादविश्वासे तथा गुप्तावलापयोः । पल्लवो विटपे षिङ्गे विस्तारे वलयेऽपि च ॥ शृङ्गोरेऽलक्तरागे च चापलेऽपि च न स्त्रियाम् । प्रभवो जन्महेतौ स्यात्स्थले चाद्योपलब्धये ॥ प्रसेवः स्यूतवीणाङ्गे प्रभावः शक्तितेजसोः ॥ Śabdaratnāvalī 7.29.30
  • त्रिकाण्डशेष अन्नअतिवृत्तेऽवदानं स्यात्कर्मखण्डनयोरपि । अग्रजन्माऽग्रजे विप्रे स्यादन्नं भक्तभुक्तयोः ॥ २२६ ॥ Trikāṇḍaśeṣa 3.3.226