दारुक
dārukaपुं · masc.In 9 kośas: 9 synonym verses, 1 as a nānārtha head word, 2 as a meaning of another word.
शङ्खो लक्ष्मीपतेः पाञ्चजन्यश्चक्रं सुदर्शनम् ।कौमोदकी गदा खड्गो नन्दकः कौस्तुभो मणिः ॥चापः शार्ङ्गं मुरारेस्तु श्रीवत्सो लाञ्छनं स्मृतम् ।अश्वाश्च शैब्यसुग्रीवमेघपुष्पबलाहकाः ॥सारथिर्दारुको मन्त्री ह्युद्धवश्चानुजो गदः ॥ २८ ॥
अनुष्टुप्
genderपुंmasc.
शैनिः कंसरिपुः शौरिः सारथिस्त्वस्य दारुकः ।प्रद्युम्नो मन्मथः कामो रामो मनसिजः स्मरः ॥ २१ ॥
अनुष्टुप्
genderपुंmasc.
अदन्तो वक्रदंष्ट्रः स्यादाखनिर्ग्रामसूकरः ।ग्रामीणो विड्वराहोऽपि विष्ठालुर्दारुकश्च सः ॥ २८ ॥
अनुष्टुप्
genderपुंmasc.
एकानंशास्वसाथ स्याद्दारुकश्चास्य सारथिः ।श्रीवत्सोऽङ्कोऽस्य गरुडो वाहनं मथुरा पुरी ॥ ३२ ॥
अनुष्टुप्
genderपुंmasc.
द्वारवती द्वारकापि कामाद्यास्तनया वृथः ।रत्नाङ्कः सर्वतोभद्रो दारुकश्चास्य सारथिः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 व (wrong syllable)
genderपुंmasc.
तुलुष्का यवनाश्वेद्याश्चेदयो दारुकाश्च ते ।सिन्धवोऽमी तु काश्मीरप्रमुखाः पुंसि भूम्नि च ॥ ३८६ ॥
अनुष्टुप्
genderपुंmasc.
ड-कारो दारुकः प्रोक्त दक्षजानुश्च पालकः ।वामबाहुश्च कौमारी तथा वै योगिनीप्रियः ॥ ३८ ॥
अनुष्टुप्
genderपुंmasc.
स्यन्दनस्तु शतानन्दः सारथिश्चास्य दारुकः ।तुरङ्गाः शैब्यसुग्रीवमेघपुष्पबलाहकाः ॥ ३४ ॥
अनुष्टुप्
genderपुंmasc.
शैनिः कंसरिपुः शौरिः सारथिस्तस्य दारुकः ।वसुदेवोऽस्य जनको दुन्दुरानकदुन्दुभिः ॥ २६ ॥
अनुष्टुप्
genderपुंmasc.
त्रि तु भेत्तर्यथो कृष्णसारथौ दारुकः पुमान् ।दैत्यभेदे च नृनपोः पुनः कुत्सितदारुणि ॥ ९२३ ॥
अनुष्टुप्
दारुक as a meaning in nānārtha verses
- तन्त्राभिधान डडः स्मृतिर्दारुको नन्दिरूपिणी योगिनी प्रियः । ----------------------------------- कौमारी शङ्करस्त्रासस्त्रिवक्त्रो(क्रो) नदको ध्वनिः ॥ ९५ ॥ Tantrābhidhāna 2.30.95
- तन्त्राभिधान डयाम्यजानुस्थितो दण्डो दारुको वत्सलो नरः । डामरी व्याघ्रपादश्च शूली स्त्री डा-र्णकः स्मृतः ॥ ३० ॥ Tantrābhidhāna 6.30