शार्ङ्ग
śārṅgaक्ली · neut.In 13 kośas: 10 synonym verses, 9 as a nānārtha head word.
genderक्लीneut.
शङ्खो लक्ष्मीपतेः पाञ्चजन्यश्चक्रं सुदर्शनम् ।कौमोदकी गदा खड्गो नन्दकः कौस्तुभो मणिः ॥चापः शार्ङ्गं मुरारेस्तु श्रीवत्सो लाञ्छनं स्मृतम् ।अश्वाश्च शैब्यसुग्रीवमेघपुष्पबलाहकाः ॥सारथिर्दारुको मन्त्री ह्युद्धवश्चानुजो गदः ॥ २८ ॥
अनुष्टुप्
genderक्लीneut.
चक्रं सुदर्शनं चापं शार्ङ्गं कौमोदकी गदा ।खड्गोऽस्य नन्दकः शङ्खः पाञ्चजन्यः प्रकीर्तितः ॥ २६ ॥
अनुष्टुप्
genderक्लीneut.
सुनाभं पुंस्यरिः खड्गो नन्दकः कौस्तुभो मणिः ।अन्यः स्यमन्तकः शार्ङ्गं धनुः कौमोदकी गदा ॥ ३१ ॥
अनुष्टुप्
genderक्लीneut.
चक्रं सुदर्शनोऽस्त्री स्यान्नन्दयन्तस्तु नन्दकः ।अस्यासिरथ शारङ्गं शार्ङ्गं च धनुरीरितम् ॥ २३ ॥
अनुष्टुप्
genderक्लीneut.
नन्दकोऽसिर्गदा कौमोदकी कौपोदकी च सा ।शार्ङ्ग धनुर्मणिः स्यमन्तको हस्तेऽथ कौस्तुभः ॥ १६ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
चापं शार्ङ्गं तु विष्णोः स्यात् तथा चक्रं सुदर्शनः ।स्यमन्तको मणिर्हस्ते भुजमध्ये च कौस्तुभः ॥ ३०२ ॥
अनुष्टुप्
genderक्लीneut.
गदा कौमोदकी चापः शार्ङ्गं खड्गस्तु नन्दकः ॥ २४ ॥
genderक्लीneut.
कौस्तुभोऽस्य मणिर्लक्ष्म श्रीवत्सो नन्दकुस्त्वसिः ।चापः शार्ङ्गं पाञ्चजन्यः शंखश्चक्रं सुदर्शनम् ॥ १७ ॥
अनुष्टुप्
genderक्लीneut.
मिथुनी चञ्चलश्चाथ सुप्तोऽस्मिन् कृष्णवक्षसि ।गोलत्तिका खंजरीटी शार्ङ्गः कीर्शा च पिप्पका ॥ २४ ॥
अनुष्टुप्
genderपुंmasc.
खड्गस्तु बुद्धासिषु खड्गिशृङ्गेस्याद्गण्डकेऽथ त्रिषु दुर्गमे स्यात् ।दुर्गः शिवानीलिकयोः स्त्रियां स्या-च्चापेऽपि शार्ङ्गं समुदीरयन्ति ॥ ६ ॥
इन्द्रवज्रा
meaningsचाप
यवाग्वां त्रि तु पक्वे स्यात् क्षीराच्च हविषस्तथा ।अन्यत्र क्ली तु पाकेऽथो शार्ङ्गं क्ली सामसु क्वचित् ॥ १३५२ ॥
अनुष्टुप्
meaningsसामन्
द्वे तु पक्ष्यन्तरे शार्ङ्गं पुनर्धनुषि शार्ङ्गिणः ।अजयः शृङ्गविहितचापेऽप्याह विशेषतः ॥ १३५३ ॥
अनुष्टुप्
धनुर्मात्रे च नप् शृङ्गविकारे तु त्रिषु स्मृतः ।शृङ्गसम्बन्धिमात्रे चाप्यथाहतुरवैदिकौ ॥ १३५४ ॥
अनुष्टुप्
doubtful
शार्ङ्गः पक्षिविशेषे द्वे इति शारः पुनः पुमान् ।वायौ कर्बुरवर्णे च त्रि तु तद्वत्यथो नृनप् ॥ १३५५ ॥
अनुष्टुप्
meaningsपक्षिविशेष
शार्ङ्गं तु चापमात्रे स्यात् तथा कृष्णशरासने ॥
जलोत्क्षेपे समुत्सर्गे शृङ्गमुत्कर्षचिह्नयोः ।शार्ङ्गं धनुर्विष्णुधनुः सम्भोगो रतभोगयोः ॥ ७१ ॥
अनुष्टुप्