कौस्तुभ
kaustubhaपुं · masc.In 13 kośas: 12 synonym verses, 2 as a meaning of another word.
मणिः स्यमन्तको हस्ते भुजमध्ये तु कौस्तुभः ।
अनुष्टुप्metre not read in every line
genderपुंmasc.
शङ्खो लक्ष्मीपतेः पाञ्चजन्यश्चक्रं सुदर्शनम् ।कौमोदकी गदा खड्गो नन्दकः कौस्तुभो मणिः ॥चापः शार्ङ्गं मुरारेस्तु श्रीवत्सो लाञ्छनं स्मृतम् ।अश्वाश्च शैब्यसुग्रीवमेघपुष्पबलाहकाः ॥सारथिर्दारुको मन्त्री ह्युद्धवश्चानुजो गदः ॥ २८ ॥
अनुष्टुप्
genderपुंmasc.
कौस्तुभो वक्षसि मणिः श्रीवत्सोऽस्य च लाञ्छनम् ।वसुदेवस्तु कथितो बुधैरानकदुन्दुभिः ॥ २७ ॥
अनुष्टुप्
genderपुंmasc.
सुनाभं पुंस्यरिः खड्गो नन्दकः कौस्तुभो मणिः ।अन्यः स्यमन्तकः शार्ङ्गं धनुः कौमोदकी गदा ॥ ३१ ॥
अनुष्टुप्
genderपुंmasc.
स्यमन्तको हस्तमणिः कौस्तुभोऽस्योरसि स्थितः ।आपादलम्बिनी माला वनमाला गले स्थिता ॥ २२ ॥
अनुष्टुप्
genderपुंmasc.
नन्दकोऽसिर्गदा कौमोदकी कौपोदकी च सा ।शार्ङ्ग धनुर्मणिः स्यमन्तको हस्तेऽथ कौस्तुभः ॥ १६ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
चापं शार्ङ्गं तु विष्णोः स्यात् तथा चक्रं सुदर्शनः ।स्यमन्तको मणिर्हस्ते भुजमध्ये च कौस्तुभः ॥ ३०२ ॥
अनुष्टुप्
genderपुंmasc.
खड्गोऽस्य नन्दको हस्ते मणिरस्य स्यमन्तकः ।हृदये कौस्तुभो देवमानकः सुरतोषकः ॥
अनुष्टुप्
genderपुंmasc.
वनमाला वैजयन्ती वक्षोरत्नं तु कौस्तुभम् ।इन्दिरा मा रमा लक्ष्मीः कमला कमलालया ॥ २५ ॥
अनुष्टुप्
genderक्लीneut.
एकोनविंशतिर्मुद्रा विष्णोरुक्ता मनीषिभिः ।शङ्खचक्रगदापद्मवेणुश्रीवत्सकौस्तुभाः ॥ ५ ॥
अनुष्टुप्
genderपुंmasc.
श्री च लक्ष्मी चला सा मा रमाजलधिजेऽन्दिरा ।मणिः स्यमन्तको हस्ते विष्णोरुरसि कौस्तुभः ॥ ४१ ॥
अनुष्टुप्
genderपुंmasc.
कौस्तुभोऽस्य मणिर्लक्ष्म श्रीवत्सो नन्दकुस्त्वसिः ।चापः शार्ङ्गं पाञ्चजन्यः शंखश्चक्रं सुदर्शनम् ॥ १७ ॥
अनुष्टुप्
genderपुंmasc.
कौस्तुभ as a meaning in nānārtha verses
- धरणिकोश देवमणिदेवमणिः समाख्यातः कौस्तुभे वाजिलक्षणे । उत्क्षेपणं तु व्यजनं धान्यमर्दनवस्तुषु ॥ Dharaṇikośa 14.2.31
- कोषकल्पतरु देवमणिदर्दराम्रे खञ्जरीटे मीना[285a]म्रीणो नृलिङ्गकः । शिवे देवमणिर्वाजिकण्ठावर्ते च कौस्तुभे ॥ ६० ॥ Koṣakalpataru 6.15.60