नन्दक
nandakaपुं · masc.In 15 kośas: 13 synonym verses, 5 as a nānārtha head word, 1 as a meaning of another word.
genderपुंmasc.
शङ्खो लक्ष्मीपतेः पाञ्चजन्यश्चक्रं सुदर्शनम् ।कौमोदकी गदा खड्गो नन्दकः कौस्तुभो मणिः ॥चापः शार्ङ्गं मुरारेस्तु श्रीवत्सो लाञ्छनं स्मृतम् ।अश्वाश्च शैब्यसुग्रीवमेघपुष्पबलाहकाः ॥सारथिर्दारुको मन्त्री ह्युद्धवश्चानुजो गदः ॥ २८ ॥
अनुष्टुप्
genderपुंmasc.
चक्रं सुदर्शनं चापं शार्ङ्गं कौमोदकी गदा ।खड्गोऽस्य नन्दकः शङ्खः पाञ्चजन्यः प्रकीर्तितः ॥ २६ ॥
अनुष्टुप्
genderपुंmasc.
सुनाभं पुंस्यरिः खड्गो नन्दकः कौस्तुभो मणिः ।अन्यः स्यमन्तकः शार्ङ्गं धनुः कौमोदकी गदा ॥ ३१ ॥
अनुष्टुप्
genderपुंmasc.
चक्रं सुदर्शनोऽस्त्री स्यान्नन्दयन्तस्तु नन्दकः ।अस्यासिरथ शारङ्गं शार्ङ्गं च धनुरीरितम् ॥ २३ ॥
अनुष्टुप्
genderपुंmasc.
नन्दकोऽसिर्गदा कौमोदकी कौपोदकी च सा ।शार्ङ्ग धनुर्मणिः स्यमन्तको हस्तेऽथ कौस्तुभः ॥ १६ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
तत्खड्गे नन्दकः प्रोक्तस्तद्दण्डे निवृतिः स्मृता ।तत्पादुके सुखासीनौ तत्पीठं सुखदं स्थिरम् ॥ ४२ ॥
अनुष्टुप्
genderपुंmasc.
शारङ्गाच्युतकोदण्डौ पृष्णिगर्भासिनन्दकौ ।इन्दिराऽब्धिसुता लक्ष्मी कमला कमलालया ॥ ३९५ ॥
अनुष्टुप्
genderपुंmasc.
श्रीवत्सनामकोऽङ्कस्तु कृपाणोऽस्यास्ति नन्दकः ।कौमोदकी गदा विष्णोः ज्ञेया कौपोदकी तथा ॥ ३०१ ॥
अनुष्टुप्
genderपुंmasc.
खड्गोऽस्य नन्दको हस्ते मणिरस्य स्यमन्तकः ।हृदये कौस्तुभो देवमानकः सुरतोषकः ॥
अनुष्टुप्
genderपुंmasc.
गदा कौमोदकी चापः शार्ङ्गं खड्गस्तु नन्दकः ॥ २४ ॥
genderपुंmasc.
व्यङ्गस्तु नन्दको भेको गूढवर्चाः क्षतालयः ।कोकोजिह्वोऽथ पञ्चाङ्गगुप्ते क्रोडांघ्रिकच्छपौ ॥ १९ ॥
अनुष्टुप्
genderपुंmasc.
कौस्तुभोऽस्य मणिर्लक्ष्म श्रीवत्सो नन्दकुस्त्वसिः ।चापः शार्ङ्गं पाञ्चजन्यः शंखश्चक्रं सुदर्शनम् ॥ १७ ॥
अनुष्टुप्
genderपुंmasc.
क्लीबेऽथ मर्मण्यपि शीर्षरोगेना शङ्खकोऽथ त्रिषु नन्दकः स्यात् ।कुलोत्तमे हृष्यति विष्णुखड्गेना शीतकः शीतऋतौ नरे स्यात् ॥ ९७ ॥
उपजातिः
नन्दकोऽसौ मुकुन्दस्य हर्षके कुलपालके ।निर्ग्रन्थः कदलीसाले निर्धने श्रमणेऽपि च ॥ २७६ ॥
अनुष्टुप्
नन्दको विष्णुखड्गे स्यात् हर्षके कुलपालके ।नालीकः शरशल्याङ्गेष्वब्जषण्डे तु न द्वयोः ॥
अनुष्टुप्
नन्दक as a meaning in nānārtha verses
- धरणिकोश खेटकोटिरश्रौ प्रकर्षे च संख्याचापाग्रयोरपि । खेटः कफे ग्रामभेदे कुत्सिते चर्मनन्दके ॥ Dharaṇikośa 10.2.5