कौमोदकी
kaumodakīस्त्री · fem.In 14 kośas: 14 synonym verses.
genderस्त्रीfem.
शङ्खो लक्ष्मीपतेः पाञ्चजन्यश्चक्रं सुदर्शनम् ।कौमोदकी गदा खड्गो नन्दकः कौस्तुभो मणिः ॥चापः शार्ङ्गं मुरारेस्तु श्रीवत्सो लाञ्छनं स्मृतम् ।अश्वाश्च शैब्यसुग्रीवमेघपुष्पबलाहकाः ॥सारथिर्दारुको मन्त्री ह्युद्धवश्चानुजो गदः ॥ २८ ॥
अनुष्टुप्
genderस्त्रीfem.
चक्रं सुदर्शनं चापं शार्ङ्गं कौमोदकी गदा ।खड्गोऽस्य नन्दकः शङ्खः पाञ्चजन्यः प्रकीर्तितः ॥ २६ ॥
अनुष्टुप्
genderस्त्रीfem.
द्वारावती द्वारवती द्वारकायामुभे समे ।कौमोदकी च कौमोदी तथा कौपोदकी भवेत् ॥ ६ ॥
अनुष्टुप्
genderस्त्रीfem.
सुनाभं पुंस्यरिः खड्गो नन्दकः कौस्तुभो मणिः ।अन्यः स्यमन्तकः शार्ङ्गं धनुः कौमोदकी गदा ॥ ३१ ॥
अनुष्टुप्
genderस्त्रीfem.
शङ्खो हरेः पाञ्चजन्यो गदा कौमोदकी तथा ।श्रीवत्सोऽङ्को भृगुपदं पुरं वैकुण्ठमुच्यते ॥ २४ ॥
अनुष्टुप्
genderस्त्रीfem.
नन्दकोऽसिर्गदा कौमोदकी कौपोदकी च सा ।शार्ङ्ग धनुर्मणिः स्यमन्तको हस्तेऽथ कौस्तुभः ॥ १६ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
चक्रे सुदर्शनं शङ्खे पाञ्चजन्यः शिखामणौ ।नन्दकी स्याद्गदायां तु मोदी कौमोदकी तथा ॥ ४१ ॥
अनुष्टुप्
genderस्त्रीfem.
हृषीकेशो हरिः शौरिः श्रीवत्साङ्को रमापतिः ।कौमोदकी विष्णुगदा शौरिचक्रं सुदर्शनम् ॥ ३९४ ॥
अनुष्टुप्
genderस्त्रीfem.
श्रीवत्सनामकोऽङ्कस्तु कृपाणोऽस्यास्ति नन्दकः ।कौमोदकी गदा विष्णोः ज्ञेया कौपोदकी तथा ॥ ३०१ ॥
अनुष्टुप्
genderस्त्रीfem.
अस्य शङ्खः पाञ्चजन्यः चक्रञ्चास्य सुदर्शनः ।गदा कौमोदकी चास्य कौमोदीत्यपि सा मता ॥
अनुष्टुप्
genderस्त्रीfem.
श्रीवत्साङ्कश्च श्रीवत्सस्तदरौ मेन्द-मेन्दकौ ।कालीयः कालियश्चास्य गदा कौमोदकी स्मृता ॥ ९४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 श्च (wrong syllable)
genderस्त्रीfem.
गदा कौमोदकी चापः शार्ङ्गं खड्गस्तु नन्दकः ॥ २४ ॥
genderस्त्रीfem.
कौमोदकी गदाथास्य मत्स्याद्यैः समनामकाः ।अवतारा नृसिंहस्तु हिरण्यकशिपुद्विषन् ॥ १८ ॥
अनुष्टुप्
genderस्त्रीfem.