गद
gadaपुं · masc.In 15 kośas: 15 synonym verses, 8 as a nānārtha head word, 19 as a meaning of another word.
रोगो रुजा रुगातङ्को मान्द्यं व्याधिरपाटवम् ॥ ४६२ ॥आम आमय आकल्यमुपतापो गदः समाः ।
अनुष्टुप्
genderपुंmasc.
शङ्खो लक्ष्मीपतेः पाञ्चजन्यश्चक्रं सुदर्शनम् ।कौमोदकी गदा खड्गो नन्दकः कौस्तुभो मणिः ॥चापः शार्ङ्गं मुरारेस्तु श्रीवत्सो लाञ्छनं स्मृतम् ।अश्वाश्च शैब्यसुग्रीवमेघपुष्पबलाहकाः ॥सारथिर्दारुको मन्त्री ह्युद्धवश्चानुजो गदः ॥ २८ ॥
अनुष्टुप्
genderपुंmasc.
स्त्री रुग्रुजा चोपतापरोगव्याधिगदामयाः ।
अनुष्टुप्
genderपुंmasc.
रोगो रुक् व्याधिराकल्यं गदो मान्द्यमपाटवम् ।आम आमय आतङ्क उपतापो रुजा स्मृता ॥ ६०० ॥
अनुष्टुप्
genderपुंmasc.
अथ रोगे गदो व्याधिरुपतापः क्षयोऽपि च ।क्रमः क्रामो विकारः स्यान्मृत्युपर्यायसेवकः ॥ ३०३ ॥
अनुष्टुप्
genderपुंmasc.
गदोऽनुजः पाञ्चजन्यो दक्षिर्णावर्त्त इत्यपि ।शङ्खो माला वैजयन्ती चक्रमस्त्री सुदर्शनः ॥ ३० ॥
अनुष्टुप्
genderपुंmasc.
कपर्दगदयोस्तद्वदगदस्य गदस्य च ।वुद्वुदागाधस्कन्धार्द्धगन्धानां फेनचिह्नयोः ॥ ५६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ध (wrong syllable)
genderपुंmasc.
आतङ्क-तङ्कावस्त्रीकावम आम-गदामयाः ।श्वयीचिरुपतापश्चामन-रोगौ च रुग्रुजे ॥ १ ॥
अनुष्टुप्
genderपुंmasc.
वारुण्डः सेकपात्रे गडु-वरुण-गुण-भ्रूण-नाडीव्रणाः स्युःकर्णो वृष्णिश्च घृष्णिर्घृणिरथ वमति-ज्ञाति-पिष्टात-पोताः ।व्रातः कुन्तोऽस्त्रवाची हरिदपि पृषत-ग्रन्थिरर्थोऽतिथिः स्या-दुद्गीथो रोमन्थ-सार्थावगद-गद-मदाः कासदः कासमर्दः ॥ १६ ॥
स्रग्धराmetre not read in every linenearly स्रग्धरा
genderपुंmasc.
रुग्रुजा व्याधिमान्द्ये चोपतापो गद आमयः ।आम आकल्यमप्युक्तं राजयक्ष्मा क्षयस्तथा ॥ १२६ ॥
अनुष्टुप्
genderपुंmasc.
अलक्तकुन्तौ पृषताः कपर्दोगदागदौ बुद्बुदपोतगन्धाः ।अगाधपिष्टातसुदर्शनाश्चशम्बाम्बतिष्याः सिचयोल्लपुण्ड्राः ॥ १९ ॥
उपजातिः
genderपुंmasc.
वैरं विरोधो विद्वेषः शृङ्खलो निगडोऽन्दुकः ।विघ्नोऽन्तरायः प्रत्यूहो रोगातङ्कगदामयाः ॥ ७६ ॥
अनुष्टुप्
genderपुंmasc.
रुगाऽऽतङ्को रुजा रोगो व्याधिरपाटवं तथा ।आम आमय आकल्यं मान्द्यं तथाऽऽमनं गदः ॥ ७०९ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 र (wrong syllable); pāda 4, syllable 3 त (wrong syllable)
genderपुंmasc.
औषधं भेषजं जायुर्भैषज्यमगदोऽपि च ।उपतापो रुजा रुक् स्त्री रोगव्याध्यामया गदः ॥
अनुष्टुप्
genderपुंmasc.
व्याधिरामय आतङ्को गदो रोगो रुजा च तत् ।क्षयः शोषो राजयक्ष्मा यक्ष्मा जूर्तिर्जरोऽन्तकः ॥ १०९३ ॥
अनुष्टुप्
genderपुंmasc.
गदा शस्त्रविशेषं स्याद्गदो भ्राता च शार्ङ्गिणः ।नदो ध्वने समुद्रे च नदी तरंगिणी स्मृता ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 त (wrong syllable)
meaningsभ्रातृ
गदस्तु विष्णोरनुजे च रोगेस्त्रियां भवेदायुधभेदवाची ।नदः समुद्रे निनदे स्त्रियां तुस्यान्निम्नगायामथ गर्वतुष्ट्योः ॥ १८ ॥
उपजातिः
कोशेऽपि स्यात् तु पुंस्येष भाण्डागारेऽथ गर्जवाक् ।द्वे गजे गर्जने त्वक्ली गर्जा ना तु गदो रुजि ॥ ३३१ ॥
अनुष्टुप्
meaningsरुज्
कृष्णस्याप्यनुजे स्त्री तु गदा प्रहरणान्तरे ।गद्यं त्वपादबन्धेषु ग्रन्थेषु क्ली त्रिषु त्वदः ॥ ३३२ ॥
अनुष्टुप्
meaningsकृष्णानुज
अब्दः सम्वत्सरे मेघे युस्तके च पयोनिधौ ॥अन्दूर्भूषणभेदे स्यान्निगडेऽपि भवेत् स्त्रियाम् ।कन्दोऽस्त्री शस्यमूले स्याच्छूरणे जलदे पुमान् ॥कुन्दो मुकुन्दे निधिभिद्भूमिष्वस्त्री तु माथ्यके ।क्षोदः स्यात्पेषणे पुंसि सन्धाने च रजस्यपि ॥गदो विष्णुभ्रातरि स्याद्व्याधौ ना चायुधे गदा ।छदः पक्षे च पत्रे च ग्रन्थिपर्णे तमालके ॥छन्दोऽभिप्रायवशयोर्वेदकिन्यामनीषयोः(?) ।नन्दिर्ना नन्दिकेश्वरद्युताङ्गानन्दयोरपि ॥नदी स्त्रियान्तु सरिति शोणादौ नदः पुमान् ।नन्दाहलिञ्जरगोर्योस्तु तिथिभेदेऽपि च स्त्रियाम् ॥पुमान्नरपतौ गोपभेदानन्दनिधिष्वपि ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 7 श्व (wrong syllable)nearly अनुष्टुप्
शिवजूटे वराटेऽपि कपर्दोऽथाऽमये गदः ।विष्णोर्भ्रातरि चास्त्रे स्त्री पलाशे गरुति च्छदः ॥ २०६ ॥
अनुष्टुप्
गडुः पृष्ठगुडे कुब्जे गदो रोगो गदायुधम् ।गोप्यो रक्ष्ये दाससुते घ्राणमाघ्रातनासयोः ॥ २९ ॥
अनुष्टुप्
meaningsरोग
गद as a meaning in nānārtha verses
- धरणिकोश रोगदुर्गमगम्यं दुर्गोमा रोगः कुष्ठे गदेऽपि च । त्यागो दाने परित्यागे पूगः क्रमुकवृन्दयोः ॥ Dharaṇikośa 3.1.2
- धरणिकोश शरीरजशरीरजो गदोऽनङ्गः पुत्रश्चापि शरीरजः । भरद्वाजः स्मृतो धीरो मुनिपक्षिविशेष[20]योः ॥ Dharaṇikośa 7.2.10
- धरणिकोश लूतालूता पिपीलिकायां स्यादूर्णनाभे गदान्तरे । पीता स्मृता हरिद्रायां पीतं स्यात्पानगौरयोः ॥ Dharaṇikośa 15.2.15
- धरणिकोश व्याधिसिद्धिरोषधिसंपत्त्योर्ऋद्धिर्वर्धन ओषधौ । दोग्धा वत्से च गोपाले व्याधिः स्याद्गदकुष्ठयोः ॥ Dharaṇikośa 18.1.2
- धरणिकोश उपतापअवलेपः स्मृतो गर्वे दूषणे लेपनेऽपि च । उपतापो गदे तापे त्वरायामपि दृश्यते ॥ Dharaṇikośa 20.2.8
- धरणिकोश विदारीआधारश्चाधिकरणे कृप्यामप्यालवालके । विदारो दारणे खन्तौ विदारी चौषधौ गदे ॥ Dharaṇikośa 26.2.55
- कोषकल्पतरु परिसर्वतोभवनभूषणपूजा- दोषवादपरिरम्भगदेषु । लक्षणादिषु च शोकनिवास- व्याप्तिवर्जनवधेषु परि स्यात् ॥ १६ ॥ Koṣakalpataru 5.1.16
- कोषकल्पतरु नीलिकाकारिका विवृतियातनानटी- कारुकर्मसु च वर्णका पटे । लेखिनीभिदि च नीलिका पुनः सिन्धुवारगदनीलिनीष्वपि ॥ १४ ॥ Koṣakalpataru 6.1.14
- कोषकल्पतरु विकृतिभवेत्स्रवन्त्यौषधिसिन्धुभेदे वाते त्वमात्ये वहतिर्वृषे ना स्त्री दुर्गतिः स्यान्निरये च निःस्वे । डिम्बे गदे स्याद्विकृतिर्विकारे शठे तु शाठ्ये निकृतिर्निकारे ॥ ३६ ॥ Koṣakalpataru 6.16.36
- कोषकल्पतरु उपतापउपतापस्तूत्तापे गदे त्वरायां च निर्दिष्टः । अवलेपो नरि गर्वे दुष्टौ लिप्तौ च संप्रोक्तः ॥ १९ ॥ Koṣakalpataru 6.22.19
- कोषकल्पतरु आमस्त्री तु क्षा[31a]न्तिभुवोर्गदे गदभिदि स्यादाममस्त्री त्रये- ऽपक्वेऽथ प्रहरे च संयमगतो यामोऽथ वामो हरे । चेतोजे जलदे धने तु चरमे, सव्ये प्रतीपेऽवरे त्रय्यां, योषिति रासभीषु करभीष्वश्वाशृगाल्योः स्त्रियाम् ॥ ६० ॥ Koṣakalpataru 6.25.60
- कोषकल्पतरु यक्ष्मक्रोधे यामिपतौ रुचौ च नरके भौमस्तथा मङ्गले भूजेषु त्रिषु मण्डपे तु समये श्रामः पुमान्कीर्तितः । यक्ष्मो रोगपतौ गदेऽपि गदितो रुक्मं तु हेमायसो- स्तोक्मं स्याद्धरिते यवे हरिति चाम्भोदे तु न स्याद्द्वयोः ॥ ६६ ॥ Koṣakalpataru 6.25.66
- कोषकल्पतरु गरद्यूतान्तरे चाथ नरस्तु मर्त्ये ऽर्जुने तथाजेऽवरसारकेऽन्त्ये । खरो भवेद्रासभदेवताडे तिग्मेऽन्यवच्चाथ गरो गदे स्यात् ॥ ९८ ॥ Koṣakalpataru 6.27.98
- कोषकल्पतरु खिद्रदभ्रः समुद्रे त्रिषु चाल्पवाची शुभ्रं तु रूप्ये त्रिषु दीप्त-शुक्ले । खिद्रो गदे ना परवद्दरिद्रे- ऽथाभ्रं नभःस्वर्गघनाभ्रकेषु ॥ ५९ ॥ Koṣakalpataru 6.27.59
- कोषकल्पतरु कदरदीने तथा स्यात्क्रकचेऽथ बाल- पत्रे सिते स्यात्कदरो गदेऽपि । कार्पासिकायां बदरं च कोल्यां फले तयोर्बादरमीरितं ज्ञैः ॥ ९५ ॥ Koṣakalpataru 6.27.95
- नानार्थार्णवसंक्षेप ?शोषे गदे श्रवस्त्वन्ने यशः श्रोत्रबलेषु च । धने शास्त्रं तु विद्यायामाज्ञायां श्वात्रवाक् पुनः ॥ ६३ ॥ Nānārthārṇavasaṃkṣepa 2.3.63
- परमानन्दीयनाममाला उपतापउदुम्बरं कुष्ठभेदे ताम्रेऽथोदुम्बरो द्रुमे । उपतापं तु दुःखे स्याद्गदे तापेऽपि दृश्यते ॥ ७४ ॥ Paramānandīyanāmamālā 5.3.74
- शिवकोष वनजनीरजं कमले कुष्टे वनजोऽन्धकमुस्तयोः । क्लीबं गदेऽम्बुजे स्त्री तु मुद्गपर्ण्यश्वगन्धयोः ॥ ११२ ॥ Śivakoṣa 7.2.112
- शब्दरत्नावली शूलशूलमस्त्रे गदे शस्त्रे मृत्यौ योगे निकेतने । शूला पण्यस्त्रियां स्त्री तु शैलः पर्वततार्क्ष्ययोः ॥ Śabdaratnāvalī 7.28.37