कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

गरुड

garuḍaपुं · masc.

In 20 kośas: 21 synonym verses, 1 as a nānārtha head word, 28 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवाधिदेवकाण्डः Abhidhānacintāmaṇi 1.43 · p. 5
स्याद्गोमुखो महायक्षस्त्रिमुखो यक्षनायकः ॥ ४१ ॥तुम्बरुः कुसुमश्चापि मातङ्गो विजयोऽजितः ।ब्रह्मा यक्षेट् कुमारः षण्मुखपातालकिंनराः ॥ ४२ ॥गरुडो गन्धर्वो यक्षेट् कुबेरो वरुणोऽपि च ।भृकुटिर्गोमेधः पार्श्वो मातङ्गोऽर्हदुपासकाः ॥ ४३ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 न्ध (wrong syllable); pāda 3, syllable 5 मे (wrong syllable)
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.231 · p. 14
गरुडः शाल्मल्यरुणावरजो विष्णुवाहनः ॥ २३० ॥सौपर्णेयो वैनतेयः सुपर्णसर्पारातिर्वज्रजिद्वज्रतुण्डः ।पक्षिस्वामी काश्यपिः स्वर्णकायस्तार्क्ष्यः कामायुर्गरुत्मान्सुधाहृत् ॥ २३१ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह स्वर्गवर्गः Amarakośa 1.1.29
गरुत्मान् गरुडस्तार्क्ष्यो वैनतेयः खगेश्वरः ।नागान्तको विष्णुरथः सुपर्णः पन्नगाशनः ॥ २९ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.30 · p. 4
विहङ्गराजो गरुडो गरुत्मान्,तार्क्ष्यः सुपर्णीतनयः सुपर्णः ।स्याद्वैनतेयः पवनाशनाशः,सुरेन्द्रजित्कश्यपनन्दनश्च ॥ ३० ॥
उपजातिः
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर प्रथमोपदेशः Bālaprabodhikā 1.8 · p. 66
झषकेतुः सारधन्वा गुणदिन्दीवरः स्मरः ।गरुत्मान् गरुडस्तार्क्ष्य वज्रपक्षो महेन्द्रजित् ।विनतानन्दनः शौरिः पारिजातापहारकः ॥ ८ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम स्वर्गाधिकारो दिक्पालाधिकारश्च प्रथमस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 1.28 · p. 10
मुनीन्द्रो निर्गुरुः शास्ता बुद्धो विद्यातनूद्भवः ।गरुडः काश्यपसुतो गरुत्मानुरगाशनः ॥ २८ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव यज्ञादिप्रकाण्डः Kalpadrukośa 3.3.32 · p. 454
एकानंशास्वसाथ स्याद्दारुकश्चास्य सारथिः ।श्रीवत्सोऽङ्कोऽस्य गरुडो वाहनं मथुरा पुरी ॥ ३२ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव यज्ञादिप्रकाण्डः Kalpadrukośa 3.3.48 · p. 456
सौपर्णेयः स्वर्णकायः कामायुर्वज्रजित् पुनः ।शाल्मली तृक्षपुत्रार्थो गरुत्मान् गरुडः पुनः ॥ ४८ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्वर्गवर्गः Koṣakalpataru 1.2.26 · p. 10
तद्वच्छाल्मलि-वज्रजेतृगरुडा वीन्द्रः शिलौका विराट्कामायुर्हरिवाह उन्नतिपतिः स्याद्वैनतेयस्तथा ॥ २६ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 129 · p. 65
सुपर्णो गरुडस्तार्क्ष्यो गरुत्मान् शकुनीश्वरः ।इन्द्रजिन्मन्त्रपूतात्मा वैनतेयो विषक्षयः ॥ १२९ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.21 · p. 8
गरुडः काश्यपिस्तार्क्ष्यः स्वर्णकायश्च शाल्मली ।सौपर्णेयः सुपर्णोऽपि कामायुर्विष्णुवाहनम् ॥ २१ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त अण्डजमरीचिः Pañcatattvaprakāśa 6.3.367 · p. 26
खञ्जरीटः खञ्जनकः चक्रवाको रथाङ्गकः ।तार्क्ष्यो गरुत्मान् गरुडो वैनतेयोऽण्डजेश्वरः ॥ ३६७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ख (wrong syllable)
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति व्योमवर्गः Śāradīyākhyanāmamālā 1.2.97 · p. 11
तार्क्ष्यः सुपर्णो गरुडो वैनतेयोऽरुणानुजः ।गरुत्मान्पक्षिराजश्च सर्पारिः कश्यपात्मजः ॥ ९७ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवाधिदेवविभागः Suśīlanāmamālā 2.30 · p. 5
ब्रह्मा यक्षेट् कुमारः षण्मुखः पातालकिन्नरौ ।यक्षौ गरुडगन्धर्वौ यक्षेन्द्रश्च कुबेरकः ॥ ३० ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.325 · p. 43
गरुडश्च गरुत्मान् वै कामायुः काश्यपिस्तथा ।सौपर्णेयः सुपर्णश्च वज्रिजिद्विष्णुवाहनम् ॥ ३२५ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1279 · p. 201
त्रिशरश्चैकलोहश्च तीरीबाणो निगद्यते ।दण्डासनो उर्द्धनाराचो तोमरो गरुडस्तथा ॥ १२७९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.55 · p. 5
सनकाद्याः पारिषदाः कीर्ताद्या मातरो मताः ।गरुडो बज्रतुण्डः स्याद् वैनतेयः सुधाहरः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पा (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि द्वितीयः काण्डः Śabdaratnākara 2.98 · p. 185
शम्ब-शाम्बौ जम्बुवत्याः पुत्रे, तार्क्ष्ये सुपर्णकः ।सौपर्णेयो गरुडश्च गरुलो गरुटस्तथा ॥ ९८ ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 6 रु (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण आदिदेवाध्यायः Śabdaratnākara 1.2.36 · p. 5
सर्परिपुवैनतेयौ सौपर्णेयोऽरुणानुजस्तार्क्ष्यः ।विष्णुरथपन्नगभुजौ गरुडगरुत्मत्सुपर्णपक्षीन्द्राः ॥ ३६ ॥
गीतिः
genderपुंmasc.
तन्त्राभिधान Tantrābhidhāna · अज्ञात मुद्रानिघण्टु Tantrābhidhāna 12.6 · p. 68
वनमाला तथा ज्ञानमुद्रा बिल्वाह्वया तथा ।गरुडाख्या परा मुद्रा विष्णोः सन्तोषदायकाः ॥ ६ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश आदिदेवाध्यायः Vaijayantī 1.1.37 · p. 6
गरुडः काश्यपसुतो गरुत्मानुरगाशनः ।सुपर्णीतनयस्तार्क्ष्यो वैनतेयो महेन्द्रजित् ॥ ३७ ॥
अनुष्टुप्
genderपुंmasc.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.657 · p. 104
वैनतेये द्वे तु पक्षिजातिभेदे स्त्रियां पुनः ।जटायां गरुडा ना तु गवाक्षो वातवर्त्मनि ॥ ६५७ ॥
अनुष्टुप्

गरुड as a meaning in nānārtha verses