दाशरथि
dāśarathiपुं · masc.In 15 kośas: 15 synonym verses, 8 as a meaning of another word.
genderपुंmasc.
कौशल्यानन्दनो दाशरथी रामोऽस्य तु प्रिया ।वैदेही मैथिली सीता जानकी धरणीसुता ॥ ७०३ ॥
अनुष्टुप्
genderपुंmasc.
भरतः सर्वदमनोऽप्यथ दाशरथावुभौ ॥ ५९ ॥रामचन्द्ररामभद्रौ हनूमानपि मारूतौ ।
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 न्द्र (wrong syllable); pāda 2, syllable 7 रू (wrong syllable)
genderपुंmasc.
बौद्धो बुद्धो भवेद्दाशरथिर्दाशरथस्तथा ।सौमित्रिरपि सौमित्रो लक्ष्मणो लक्षणो भवेत् ॥ १४ ॥
अनुष्टुप्
genderपुंmasc.
राघवो जानकीकान्तो रामो रावणसूदनः ।अग्रजन्मा दाशरथिः साकेतनिलयो हरिः ॥ १२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 दा (wrong syllable)
genderपुंmasc.
सीतापतिर्दाशरथिः सौमित्रिभरताग्रजः ।कौशल्येयः कौशलेयः काकुत्स्थो रघुनायकः ॥ १४ ॥
अनुष्टुप्
genderपुंmasc.
कौसल्यासुत-रामचन्द्र-रघुपाऽहिल्याघहृन्मैथिली-नाथा दाशरथिर्दशास्यदमनो वाल्यन्तको राघवः ।रक्षोरिर्भरताग्रजोऽथ भरतः स्यात्केकयीनन्दनःसौमित्रिस्त्विह लक्ष्मणो निगदितस्त्रैमातुरो लक्षणः ॥ ४० ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
कौशल्यानन्दनो रामस्तथा दाशरथिः स्मृतः ।मैथिली जान[78]की सीता वैदेही धरणीसुता ॥ ३३३ ॥
अनुष्टुप्
genderपुंmasc.
सीतापतिर्दाशरथिः काकुत्स्थो भरताग्रजः ।रघुनाथो रामचन्द्रः स्यात्सौमित्रिस्तु लक्ष्मणः ॥ ३९ ॥
अनुष्टुप्
genderपुंmasc.
पुकषपुण्डरीकस्तु दत्तोऽग्निसिंहनन्दनः ।दाशरथिर्नारायणः कृष्णस्तु वसुदेवभूः ॥ ११३१ ॥
metre not recognised
genderपुंmasc.
genderपुंmasc.doubtful
दाशरथिर्दाशरथः कौशल्येयो रघूद्वहः ।सुग्रीवेशो बालिहन्ता राघवः कौशिकप्रियः ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 2 श (wrong syllable)
genderपुंmasc.
रामः परशुरामश्च जामदग्न्योऽथ राघवः ।रामो दाशरथिः सीतावल्लभो रावणान्तकः ॥ २९ ॥
अनुष्टुप्
genderपुंmasc.
यौवनाश्वस्तु मान्धाता खट्वाङ्गस्तु दिलीपराट् ।रामो दाशरथिः कौशल्यायनिर्दशकण्ठजित् ॥ ३ ॥
अनुष्टुप्
genderपुंmasc.
विष्णुश्च जामदग्न्यस्तु रामो दाशरथिः पुनः ।राघवो जानकीकान्तो रामो रावणसूदनः ॥ २० ॥
अनुष्टुप्
genderपुंmasc.
दाशरथि as a meaning in nānārtha verses
- धरणिकोश रामरामा स्त्री जामदग्न्यश्च रामो रामौ सितासितौ । रामो दाशरथिश्चासौ पशुभेदे हलायुधे ॥ Dharaṇikośa 24.3.3
- धरणिकोश पद्मपद्मो दाशरथौ निधौ च गदितो व्यूहप्रभेदेऽप्यसौ संख्यानागविशेषयोरपि तथा पद्मकाष्ठौषधौ । पद्मान्विद्धि गजास्यबिन्दुनिकराम्पद्मं सरोजं स्मृतं पद्मा ब्राह्मणयष्टिका हरिवधूः स्यात्पद्मधारिण्यपि ॥ Dharaṇikośa 24.3.9
- कोषकल्पतरु रामप्रोक्तः किंपुरुषेश्वरे विटपिनि स्यात्पारिजाते द्रुमः कुण्डे वारिविनिर्गमे भ्र[30b]म इति स्यान्मोहवाची द्वयोः । रामो दाशरथौ बले भृगुपतौ पश्वन्तरे वाच्यवत् त्वेष श्वेतमनोज्ञमेचकगतोऽन्त्ये वास्तुके कुष्टके ॥ ५६ ॥ Koṣakalpataru 6.25.56
- कोषकल्पतरु राघवस्यादाहवः संगरयोगवाची स्याद्राघवो दाशरथौ च मत्स्ये । स्यात्ताण्डवोऽस्त्री तृणभेदनृत्ये- ऽथो संभवो जन्मनि मेलके च ॥ २६ ॥ Koṣakalpataru 6.29.26
- नानार्थार्णवसंक्षेप रामरामो दाशरथौ विष्णौ रतौ परशुरामके । बलभद्रे ध्वजे शब्दे मौलौ लक्ष्मणि वर्णयोः ॥ १०९७ ॥ Nānārthārṇavasaṃkṣepa 2.5.1097
- परमानन्दीयनाममाला रामरुमा लवणखानौ स्यात्सुग्रीवस्य प्रियापि सा । रामो हलायुधे जामदग्न्ये दाशरथावपि ॥ ३४५ ॥ Paramānandīyanāmamālā 5.22.345
- शब्दरत्नावली लक्षणनदीभेदे च दीप्तौ च स्त्रियां तत्संयुते त्रिषु । लक्षणः स्याद्दाशरथौ लक्षणं नामचिह्णयोः ॥ Śabdaratnāvalī 7.15.59
- त्रिकाण्डशेष लक्ष्मणनक्षत्रे रोहितायां च रणः क्वणनयुद्धयोः । लक्ष्मणा सारसी दाशरथिः श्रीमांश्च लक्ष्मणः ॥ १३७ ॥ Trikāṇḍaśeṣa 3.3.137